वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
।"
Commentary:
"आषाढशुक्लपक्षः अन्ते यत्र क्रियायाम् । आषाढशुक्लपक्षपर्यन्तं राज्ञा उद्युक्तेन परराष्ट्रग्रहणोद्योगवता भाव्यमित्यर्थः । तदनन्तरं स्थानं चातुर्मास्यावस्थानयोग्यं स्थलमुपाश्रयेत् ।"
Wait! Look at the heading:
"यात्रानन्तरं चातुर्मास्य..."
If it says "चातुर्मास्यप्रासादावस्थानादि", wait, why "प्रासादा"?
Wait, could it be "चातुर्मास्ये प्रासादावस्थानादि"? No, 'चातुर्मास्य' is not 'चातुर्मास्ये', it is a compound: चातुर्मास्य-...
Wait, is it "चातुर्मास्यप्रवासावस्थानादि"?
Wait, look at the letter before 'वस्थानादि':
Is it 'द'?
Wait! Could it be "चातुर्मास्यप्राप्ताववस्थानादि"?
Let's re-read L14: "अथ युद्धार्थं प्रस्थितस्य राज्ञः परदेशे चातुर्मास्ये प्राप्ते किं कर्तव्यमित्यपेक्षायाम्—"
Notice: "चातुर्मास्ये प्राप्ते"!
"चातुर्मास्य-प्राप्तौ अवस्थानादि" -> चातुर्मास्यप्राप्ताववस्थानादि!
Wait! In Sanskrit grammar:
चातुर्मास्य
४१४ वीरमित्रोदयस्य राजनीतिप्रकाशे
एव तस्य स्थानस्याग्रे योग्यताकथनम् “अधृष्यम्” इत्यादिना
कृतम् ।
अधृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम् ।
तमोऽपेतं विपङ्कं च प्रावृट्कालाऽहतं तथा ॥
तमोऽपेतमित्यनेन सतमसां दर्यादीनां निषेधः । प्रावृट्का-
लाहतमित्यनेन निम्नप्रदेशनिषेधः । तत्र प्रावृट्काले जलागमने
दृष्यादीनामनवस्थाने ऽवस्थातुमशक्यत्वात् ।
यत्रोष्य च स्वं विषयं सर्व शक्नोति रक्षितुम् ।
तत्रस्थश्चतुरो मासान् गजाश्वान् पोषयेन्नृपः ॥
स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव ।
प्रतिपानैः, स्नेहातिपानकृतरोगादिनिवृत्त्यर्थं कृतै रूक्षीकर-
णकषायपानैः । अथ वा । स्नेहपानप्रतिपानशब्दाभ्यां पूर्वो-
त्तरबस्ती गृह्येते, ते च वैद्यकशास्त्रे प्रसिद्धे ।
आषाढशुक्लपक्षान्ते दशम्यूर्ध्वं नराधिपः ।
उत्सवं सुमहत्कुर्याद्देवानामर्र्चने रतः ॥
अर्चायां वा पटे वापि कृतं देवमथार्चयेत् ।
अर्चायां प्रतिमायाम् ।
देवभोगमयं विष्णुं श्रीसहायमरिन्दमम् ।
बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः ॥
उत्सवं सुमहत्कुर्यात्ततः पञ्चदिनं नृपः ।
ततः प्रभृति नित्यं स्याद्वासुदेवस्य चार्चनम् ॥
सात्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः ।
गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत् ॥
अस्मिन्नेव तथा काले कोटिहोमं समाचरेत् ।
कार्त्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव ॥
मासतिथिविशेषविहितं देवताविशेषपूजनम् । ४१५
शुक्लपक्षत्रिभागेऽन्त्ये कार्त्तिकस्य ततो नृपः ।
उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा ॥
वैकुण्ठं पूजयेद्देवमर्चायामथ वा पटे ।
महादानं ततो दद्यात्प्रेङ्खां दद्यात्तथैव च ॥
प्रेङ्खा दोला । “दोला प्रेङ्खादिका स्त्रियाम्” इत्यमरः ।
दोलायात्रां कुर्यादित्यर्थः ।
मल्लानामथ वेश्यानां वन्दिनां नर्त्तकैः सह ।
दद्यादितिशेषः ।
यात्राविधानं सकलं तदा कुर्यान्महीपतिः ।
एतत् कृत्वा ततो यात्रा कार्या भवति पार्थिवैः ॥
शरत्काले गतातङ्कैः पुष्टाश्वरथकुञ्जरैः ।
एवं हि राज्ञा चतुरोऽपि मासान् पूज्यो भवेद्देववरोऽरिहन्ता ।
सन्त्यक्तनिद्रं मधुसूदनं च सम्पूज्य यात्राभिमतप्रदा स्यात् ॥
इति विष्णुधर्मोत्तरे चातुर्मास्ये कृतयात्रस्य राज्ञो
ऽवस्थानविष्णुपूजनविधिः ।
अथ सामान्यतस्तिथिविशेषमासविशेषविहितो
देवताविशेषपूजनविधिः ।
'
पूजयेच्चतुरो मासान् सुप्तं मधुनिषूदनम् ।
प्रौष्ठपादामले पक्षे पूजयेच्च शतक्रतुम् ॥
प्रौष्ठपादो भाद्रपदः ।
नवम्यामाश्वयुक्छुक्ले भद्रकालीं तु पूजयेत् ।
रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा ॥
सम्वत्सरात्कोटिहोमं कुर्याच्च घृतकम्बलम् ।
राज्यसंवत्सरग्रन्थोः कुर्यात्तुण्डुडुपूजनम् ॥
४१६ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रौष्ठपादामले पक्षे शतक्रतुपूजाभिहिता सा च तत्पक्षीयाया-
मष्टम्यामिन्द्रध्वजोच्छ्रायदिने कर्तव्येत्यभिधास्यते । एवं भद्रका-
लीपूजानीराजनघृतकम्बला अग्रेऽभिधास्यन्ते । राज्येति । रा-
ज्याभिषेकनक्षत्रपूजनं राज्ञो जन्मदिनविहितसंवत्सरग्रन्थिन-
क्षत्रपूजनं च प्रतिसंवत्सरं कुर्यादित्यर्थः ।
कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि ।
एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समग्रं वसुधां प्रशास्ति ॥
इति विष्णुधर्मोत्तरोक्तस्तिथिविशेषमासविशेष-
विहितो देवताविशेषपूजादिविधिः ।
अथ तिथिविशेषे मासविशेषे च विहिता ब्रह्म-
पुराणोक्ता देवयात्रा ।
वैशाखादिषु मासेषु षट्सु देवगृहेषु च ।
यात्रोत्सवः सदा कार्यः प्रतिसंवत्सरेष्वपि ॥
कार्या च ब्रह्मणे यात्रा प्रतिपद्यपि सर्वदा ।
द्वितीयायां च देवेभ्यो विद्यारम्भे महोत्सवे ॥
भागीरथ्यै तृतीयायां कर्त्तव्या च सुशोभना ।
विनायकाय नागेभ्यश्चतुर्थ्यामथ कारयेत् ॥
स्कन्दाय षष्ठ्यां सप्तम्यां सूर्येभ्यश्च यथाक्रमम् ।
पुरन्दराय चाष्टम्यां रुद्राय सगणाय च ॥
दुर्गाभ्यश्चैव मातृभ्यो नवम्यामथ सर्वदा ।
भूम्यै दशम्यां कर्त्तव्या सर्वोपकरणान्विता ॥
एकादश्यां समासेन विधात्रे विश्वकर्मणे ।
द्वादश्यां विष्णवे कार्या सायुधाय महात्मने ॥
त्रयोदश्यां तु कामाय चतुर्दश्यां कपर्दिने ।
पौर्णमास्यां तु देवेभ्यस्तथा चन्द्रमसे तथा ॥
नेतव्यं च महता विभवेनोदकं शुभम् । नित्यं सन्निहितात्तीर्थाद्..."
Wait, "नित्यं सन्निहितात् तीर्थात्" = from the permanently present (nearby) sacred water place!
Wait, if the text says:
नित्यं सन्निहितात्तीर्थाद् - that is:
नि (1) त्यं (2) स (3) न्नि (4) हि (5) तात् (6) तीर् (7) थाद् (8) = EXACTLY 8 SYLLABLES!
Wait! If सन्निहितात् तीर्थात् is 8 syllables, where does र्च्चा come from?
Is र्च्चा even there?!
LOOK AT IT AGAIN!
Is र्च्चा there?
Let's look at सन्निहिता...
Wait! What is that letter after ता?
Could it be:
र्त्ति? No, wait!
Look at र्त्ती:
Could it be सन्निहितार्च्तीर्थाद्यथा?
Wait, look at the glyph after ता:
Is it र्च्चा?
No, wait! Look at the letter:
It is र्त्ती?
Why would त्ती have a repha?
Wait, look at र्त्: in many Devanagari fonts
४१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
आरोप्या प्रतिमा तत्र सुसूक्ष्मा च सुशोभना ॥
कूटागारं च वोढव्यं गजैरश्वैर्नरैर्वृषैः ।
देशकालानुसारेण वस्त्रमाल्याद्यलङ्कृतैः ॥
सबलेनानुगन्तव्यं राज्ञा देवस्य पृष्ठतः ।
सुदूरे चानुगन्तव्यं तत्प्रयुक्तैश्च मन्त्रिभिः ॥
यस्य यस्य समीपे तु स देवो याति पूजितः ।
तेनातिथ्यं च कर्त्तव्यं तस्मै धूपादिभिस्तथा ॥
क्ष्वेडितोत्कृष्टशब्दैश्च जयवाद्यस्वनेन च ।
यथागमं च कर्त्तव्यं नगरे च प्रदक्षिणम् ॥
ततो देवगृहं प्राप्य सम्पूज्य प्रतिमां नयेत् ।
महान्तमुत्सवं कुर्वन् गीतनृत्तसमाकुलम् ॥
तस्यां रात्रौ ततो देया दीपाः शतसहस्रशः ।
रङ्गभूमौ दिदृक्षूणां प्रकाशार्थं महात्मनः ॥
तैस्तैः सुभाषितैः श्लोकैर्हर्षयित्वा जनांस्तथा ।
सर्वेषामनुकम्पार्थं धर्मचक्रं प्रवर्त्तयेत् ॥
रङ्गोपजीविनां पश्येत् तृतीयेऽहनि कौशलम् ।
यथाशक्ति धनं तेभ्यो दद्याद्दम्भं च वर्जयेत् ॥
प्रेक्षाकाले प्रधानास्ते पूजितव्याः क्रमेण तु ।
सम्मानपूर्वं विधिवत्ताम्बूलकुसुमादिभिः ॥
यात्रावसाने भूतानि पूजनीयानि सर्वदा ।
पूजोपचारैर्बलिभिस्तथा नक्तञ्चरानपि ॥
अदृष्टविग्रहानेव दिदृक्षूणां महोत्सवम् ।
सन्ध्यायां परया भक्त्या त्यक्त्वा सन्देहमात्मनः ॥
सर्वमस्तीति विज्ञाय चेतसा निर्मलेन च ।
एकान्ते देवताः पूज्या वैशाखे मासि पूर्ववत् ॥
कौमुदीमहोत्सवः । ४१९
गृहे गृहस्थैः सम्पूज्याः स्त्रियश्च गृहदेवताः ।
आचारान् पालयेदेतान् यस्तु राजा समाहितः ॥
सपुत्रपौत्रसंयुक्तो दीर्घायुर्धनवान् भवेत् ।
सर्वत्र जयमाप्नोति याति स्वर्गे च शाश्वतम् ॥
यदेतद्वैष्णवं वाक्यं देशेऽस्मिन् लङ्घ्यते जनैः ।
तदा सस्यानि नश्यन्ति घोरैरुदकविप्लवैः ॥
अतिवृष्टिरनावृष्टिर्दुर्भिक्षं च तथा मृतिः ।
दम्भाभिमानलोभांस्तु तस्मात्त्यक्त्वा प्रयत्नतः ॥
यदुक्तं विष्णुना वाक्यं तत्कुर्यात्कृतनिश्चयः । इति ।
इति ब्रह्मपुराणोक्तदेवयात्राप्रकरणम् ।
अथ कौमुदीमहोत्सवः ।
तत्र स्कन्दपुराणे,
प्रातः प्रभृति राजा च आज्ञापयति कौमुदीम् ।
देवरात्रौ च देवस्य रुद्रस्यासुरनाशिनीम् ॥
सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम् ।
वासोभिः संहतैः सर्वे भवन्तु पुरवासिनः ॥
स्रग्विणश्च शिरःस्नाताः सदाम्पत्या यथाक्रमम् ।
गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः ॥
उच्छ्रीयन्तां पताकाश्च गृहवीथ्यापणेषु च ।
गृहाणि चोपलिप्तानि नित्यमेव भवन्तु वः ॥
पुष्पप्रकरतुष्टानि धूपैर्नानाविधैरपि ।
स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ॥
ब्राह्मणाश्चैव भोज्यन्तां क्रियन्तां बलयस्तथा ।
ब्रह्मघोषश्च सर्वत्र पुण्याहोदीरणानि च ॥
४२० वीरमित्रोदयस्य राजनीतिप्रकाशे
दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च ।
अनन्तराः क्रियन्तां वै प्रचुरं स्नेहवर्त्तयः ॥
तरुणाः सह योषिद्भिः समन्तात्पर्यटन्तु च ।
रममाणा हसन्तश्च गायन्तो नृत्तसेविनः ॥
भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दिव्ययोषितः ।
महादेवस्य पूजां च गन्धपुष्पादिकीं शुभाम् ॥
उपहारांश्च विविधान् शयनानि महान्ति च ।
बलयः पुष्कलाश्चैव भक्ष्यभोज्यैरलङ्कृताः ॥
दीपांश्च विविधाकारान् पानानि कृशरांस्तथा ।
फलानि च विचित्राणि मांसं पक्वं तथाऽऽमकम् ॥
सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत ।
वध्यन्तां पशवश्चात्र भोज्यन्तां च द्विजोत्तमाः ॥
यो न कुर्यादिदं सर्वं पुरवासी नरः कचित् ।
पातयेत्तस्य शारीरं दण्डं राजा महायशाः ॥
राजापि संयतः शान्तः शुचिः प्रयतमानसः ।
दिवसे दिवसे रुद्रं स्नापयेत प्रयत्नवान् ॥
पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना ।
क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः ॥
पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः ।
भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ॥
एकैकशः स्वयं राजा घटानां दशभिः शतैः ।
दिवसे दिवसे व्यास त्र्यम्बकं सोऽभिषेचयेत् ॥
गन्धैः पुष्पैश्च धूपैश्च जाप्यैर्बलिभिरेव च ।
पूजयित्वा ततो राजा विप्रानन्यांश्च भोजयेत् ॥
सत्कृत्वा पशुभिर्मेध्यैर्वस्त्रैर्मणिभिरेव च ।
' in 'ध्व': that's 'ध' + 'व'.
Look at line 1: "देवीपुराणोक्तेन्द्रध्वजो..." -> 'ध्व'.
What does 'द्व' look like in this font?
Look at line 7: "दैवज्ञः".
Look at line 22: "तथा".
Look at line 12: "ध्वजार्थे वर्जयेद्त्स".
In line 21:
Is it 'द्व'?
Wait, look at the first part: वि - द्यु - द्
Then: 'व' ? 'ज्र' ?
Wait, look at 'ज्र':
In 'वज्र':
A 'ज' with a diagonal stroke '्र' is 'ज्र'!
Does the character before 'ह' look like 'ज्र'?
Look at 'ज' in line 21: "परिवर्जयेत्" -> 'र्ज'.
Look at 'ज' in line 18: "यवनजां" -> 'ज'.
In line 21, the character has:
a left-facing curve, a middle horizontal, a vertical line, and a diagonal slash to the bottom-left!
THAT IS A 'ज्र' (jra) with a ra-phala!
Look at it carefully:
It has the three prongs of 'ज', a vertical stem, and a slanted leg going down-left: 'ज्र'!
Wait, and what is above it? An anusvara?
४२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
ततः सम्पूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा ।
नमो वृक्षपते वृक्ष त्वामर्चयति पार्थिवः ॥
ध्वजार्थमन्यथा नेदं तत्त्वया उपगम्यताम् ।
रात्रौ देयो बलिः श्वभ्रे दिक्षु वृक्षे तथैव च ॥
वासं वने महावृक्ष कृत्वा ह्यन्यत्र गम्यताम् ।
ध्वजार्थे देवराजस्य रक्षितं त्वां नयाम्यहम् ॥
पूजयित्वा ततो वृक्षं बलिं भूम्यां प्रदापयेत् ।
प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः ॥
उदङ्मुखः प्राङ्मुखो वा मध्वक्तेनाथ परशुना ।
पूर्वोत्तरं पतन् शस्तो निःशब्दो निर्व्रणः शुभः ॥
अलग्नः पादपेऽन्यस्मिन्नन्यथा तु परित्यजेत् ।
अष्टाङ्गुलं त्यजेन्मूलमग्रं तत्र जले क्षिपेत् ॥
तथा तं चानयेद्वृत्तं शकटेन वृषैरथ ।
युवाभिर्बलसम्पन्नैः प्रयत्नात्पुरतः पुरम् ॥
नीयमाना यदा यष्टिः समा वा चतुरस्रिका ।
वृत्ता वा भङ्गमादत्ते राजपुत्रपुरोहितौ ॥
पीड्येते इति शेषः ।
आराभङ्गे बलं भिन्द्यान्नेम्या भङ्गे क्षयस्तथा ।
रथस्य त्वक्षभङ्गे तु शान्तिं तत्र तु कारयेत् ॥
इन्द्रं यच्छेतिमन्त्रेण जातवेदोमयेन वा ।
तथा नीत्वा शुभे लग्ने पुरे तामुपवेशयेत् ॥
द्वारे शोभां पुरे रथ्याहट्टेष्वपि च कारयेत् ।
पटुभिः पटहनिनादैर्वैश्यासङ्घस्य मङ्गलैः ॥
द्विजानां वेदशब्दैश्च तां नयेद्यत्र चोच्छ्रयेत् ।
तत्रस्थां चित्रकर्मारनिर्मितैस्तां तु वेष्टयेत् ॥
देवीपुराणोक्तेन्द्रध्वजोच्छ्रायविधिः । ४२३
वस्त्रैस्तदैव कृत्तोनैः शुभैः सूक्ष्मैर्यथाक्रमम् ।
नन्दोपनन्दसंज्ञाश्च कुमार्यः प्रथमांशके ॥
प्रथमांशके, प्रथमभागे ।
देव्यो जायाविजयाख्याः षोडशांशैर्व्यवस्थिताः ।
अम्बिकां शत्रुजरित्रीं नत्त्वाथ ध्वजदैवतम् ॥
ध्वजस्य परिमाणे ताः सम्पाद्यैव विनिर्दिशेत्
षोडशांशविहीनानि कुर्याच्छेपाणि बुद्धिमान् ॥
वाससां चित्रवर्णानां स्वयम्भूः प्रथममदात् ।
सुभक्तां चतुरस्रां च विश्वकर्मा द्वितीयकम् ॥
अष्टास्रिं च स्वयं शक्रो नीलरक्तामदात्पुरा ।
कृष्णं यमेन दत्तं च वरुणेन महांशुकम् ॥
माञ्जिष्ठं जलजाकारं वायुर्देवोऽपि षष्ठकम् ।
नीलवर्णं च तत्प्रादात्स्कन्दो बहुविचित्रितम् ॥
वृत्तं तु दहनः प्रादात्सुवर्णं तच्च अष्टमम् ।
वैडूर्यसदृशं चेन्द्रो ग्रैवेयं पुनरप्यदात् ॥
चक्राङ्काकृतिवत्सूर्यो विश्वेदेवास्तु पञ्चकम् ।
नीलं नीलोत्पलाभासमृषयोऽपि च तद्ददुः ॥
शुक्रेण गुरुणा न्यस्तं विशालं तच्च मूर्द्धनि ।
ग्रहैरपि विचित्राणि तानि दत्तानि मातृभिः ॥
यद्यद्येनैव दत्तं तु केतोस्तत्तस्य भूषणम् ।
तत्तैवं तद्विजानीयाद्यन्त्रादिभिरथोच्छ्रयेत् ॥
कर्षन्ती प्रवरां भूमिं यष्टी राष्ट्रं निहन्ति च ।
बालानां तलशब्देन देशघातं विनिर्दिशेत् ॥
नृपघातकरी शीर्णा सर्वशान्ता शुभावहा ।
शाम्भूसूर्ययमेन्द्रेन्दुधनदानां च वारुणैः ॥
४२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
वह्नेर्नागस्य मन्त्रैश्च होतव्या दधि चाक्षताः ।
शुक्लं स्कन्दं गुरुं रुद्रमप्सरोभिः प्रपाठयेत् ॥
हुत्वा च विधिवद्वह्निं ज्वाला लक्षेच्च बुद्धिमान् ।
सुतेजाः सुमनोदीप्ता महती रविसप्रभा ॥
रक्ताशोकसमाकारा रथभेरीस्वना शुभा ।
शङ्खदुन्दुभिमेघानां नादाः शस्तास्तु पावके ॥
कदलीष्विक्षुदण्डेषु पताकाश्च समुच्छ्रयेत् ।
अन्याश्च विविधाः शोभाः शक्रकेतौ समुच्छ्रयेत् ॥
प्रौष्ठपद्यामथाष्टम्यां शुक्लायां शोभने दिने ।
आश्विने चाथ शुक्लायां श्रवणेनाथ उच्छ्रयेत् ॥
अत्रापि शुक्लायामष्टम्यामितिद्रष्टव्यम् ।
घोषैश्च नटवृन्दैश्च पटुभेरीनिनादितम् ॥
वितानध्वजशोभाढ्यं पताकाभिः समुज्ज्वलम् ।
विष्ण्वीशशक्रमन्त्रेण सिंह रक्षाकृतेन च ॥
दृढमातृकरन्ध्रस्थं शुभतोरणमार्गणम् ।
अवलम्बितमुत्थानमभग्नपीठकं समम् ॥
न द्रुतं च समुत्थाप्यः केतुर्वासवजो विभो ।
उच्छ्रितं रक्षयेत्प्राज्ञः काकोलूककपोतयोः ॥
न तत्र लङ्घनं दद्यादन्येषामपि पक्षिणाम् ।
यन्त्रेण चोच्छ्रयं कुर्यादिन्द्रकेतोर्यथाविधि ॥
यथा सुसंस्कृतं पूज्यं सुखयन्त्रसुयन्त्रितम् ।
रात्रौ जागरणं कुर्यादिन्द्रमन्त्रानुकीर्तनम् ॥
पुरोहितः सदैवज्ञः शुभशान्तिरतः सदा ।
केतुपातो नृपं हन्यात्पताका महिषीवधम् ॥
पीठको युवराजस्य सचिवमनुकम्पनम् ।
देवीपुराणोक्तेन्द्रध्वजोच्छ्रायविधिः । ४२५
राष्ट्रं तोरणपातेन ध्वज अन्नक्षयो भवेत् ॥
पतिते शक्रदण्डे च नृपमन्यं समादिशेत् ।
कृमिजालसमुत्थाने शलभात्तस्कराद्भयम् ॥
सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य च ।
तिष्ठत्येवोच्छ्रितो यावत्तावद्युगसमाः समाः ।
निरता यजने केतो रञ्जीरन्निन्द्रकन्यकाः ॥
पतिते तु तथा कार्या पूजोत्थाने तु यादृशी ।
रात्रौ शुभं कृत्यतमं नादृष्टं काकपोतकैः ॥
नृपतिः सह राष्ट्रीयैर्यश्चैवं कारयेत्क्रतुम् ।
नगरे वा पुरे खेटे यद्येवं कुरुते नृपः ॥
पौरन्दरं नगरद्वारे वृषसिंहसमुच्छ्रितम् ।
केतुं समस्तघोराणां नाशनं जयदं मतम् ॥
एनं पूर्वं हरिः केतुं प्राप्तवान् वृषवाहनात् ।
ततो ब्रह्माथ तेनैव ब्रह्मणा शक्रमागतः ॥
तेन सोमस्य तद्दत्तं ततो दक्षे समागतः ।
तदाप्रभृति कुर्वन्ति नृपा अद्यापि चोच्छ्रयम् ॥
एवं यः कारयेद्राजा केतुं विजयकारकम् ।
तस्य पृथ्वी धनोपेता सद्दीपा वशगा भवेत् ॥ इति ।
इति देवीपुराणोक्त इन्द्रध्वजोच्छ्रायविधिः ।
विष्णुधर्मोत्तरेऽपि स विशेषत उक्तः ।
राम उवाच ।
शक्रसम्पूजनं कार्यं कथं राज्ञा सुरोत्तम ।
सम्यक् भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः ॥
पुष्कर उवाच ।
असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम ।
५४
४२६ वीरमित्रोदयस्य राजनीतिप्रकाशे
ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम् ॥
ते तमूचुः सुराः सर्वे निर्जिता दानवैर्वयम् ।
तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ॥
गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति ।
एवमुक्ताः सुराः सर्वे क्षीरोदे केशवं ययुः ॥
ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् ।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥
तुष्टुवुश्च महाभागं त्रिदशास्तं पुनः पुनः ।
सर्वेषामीश्वरं देवं भुवनस्यैककारकम् ॥
देवा ऊचुः ।
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ।
देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥
चामीकराभवसन तार्क्ष्यप्रवरकेतन ।
शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥
सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज ।
उन्निद्रचारुकमलविराजितकराम्बुज ॥
सदैव देव भग्नानामस्माकमसुरैर्भवान् ।
गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम् ॥
प्रसीद देवदेवेश जहि तानसुराधमान् ।
येऽस्माकं देवदेवेश पीडयन्ति सदैव तु ॥
श्रीभगवानुवाच ।
ध्वजमेतं प्रदास्यामि भवतामरिनाशनम् ।
दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥
पुष्कर उवाच ।
एतदुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम् ।
विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२७
सौवर्णमुत्थितं दिव्यं शक्रध्वजमितिश्रुतम् ॥
तमादाय सुराः सर्वे प्रययुर्दानवालयम् ।
देवानुपगतान् श्रुत्वा दानवा निर्ययुस्ततः ॥
सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्ततः ॥
दृष्ट्वा ते च बलं तेषां शक्रकेतुं विराजितम् ॥
तत्तेजसा महाभाग मूढीभूताः क्षणेन तु ।
मूढीभूतास्ततो दैत्यास्त्रिदिशैर्विनिपातिताः ॥
केचिद्भग्ना दिशो जग्मुः समुद्रं विविशुस्ततः ।
ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥
पूजयित्वा नृपतये वसवे प्रददौ तदा ।
गर्गोक्तेन विधानेन तं च पूजितवान् वसुः ॥
तेनास्य तुष्टो भगवानिदं वचनमब्रवीत् ।
इन्द्र उवाच ।
येऽप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् ।
अद्यप्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥
तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज ।
दुर्भिक्षं मरणं व्याधिः परचक्रभयं तथा ॥
सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ।
पुष्कर उवाच ।
ततः प्रभृति राजानो राम शक्रमहोत्सवम् ।
कुर्वन्ति गर्गकथितं सर्वामयविनाशनम् ॥
धन्यं यशस्यं रिपुनाशनं च कीर्तिप्रदं धर्मफलप्रदं च ।
कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥
पुष्कर उवाच ।
शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे ।
४२८ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रागुदक्प्रवणे कुर्याच्छक्रार्थं भवनं शुभम् ॥
वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च ।
ततः शक्रध्वजस्थानं मध्ये सम्प्राप्य यत्नतः ॥
मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे ।
वामभागे पटे कुर्याच्छचीं देवीं तथैव च ॥
प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात् ।
तयोस्तु पूजा कर्त्तव्या सततं वसुधाधिपैः ॥
वनप्रवेशविधिना शक्रयष्टिं ततो नृपः ।
आनयेद्धोरथेनाथ वाऽऽनयेत्पुरुषैरयम् ॥
अर्जुनस्याजकर्णस्य प्रियकस्य धवस्य च ।
सुरदारुतरेश्चैव तथैवोदुम्बरस्य च ॥
चन्दनस्याथ वा राम पद्मकस्याथ वा यदि ।
अलाभे सर्व्ववृक्षाणां यष्टिं कुर्वीत वैणवीम् ॥
सुवर्णनद्धां सर्वज्ञ तां च सम्यक्प्रवेशयेत् ।
प्रोष्ठपादासिते पक्षे अष्टम्यां रिपुसूदन ॥
क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप ।
चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा ॥
अष्टाङ्गुलं तथा मूले छित्त्वा तोयेऽथ तां क्षिपेत्
यायादुद्धृत्य नगरं सम्यगेव प्रवर्त्तते ।
तस्याः प्रवेशे नगरं पताकाध्वजमालि च ॥
सिक्तराजपथं कुर्यात्तथालङ्कृतनागरम् ।
नटनर्त्तकसङ्कीर्णं तथा पूजितदैवतम् ॥
सम्पूजितगृहं राम तथा पूजितवानयम् ।
पौरैरनुगतो राजा सुवेशैः फलपाणिभिः ॥
अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ।
विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२९
प्राक्शिरस्कां ततः कुर्याद्वस्त्रैः सञ्छादितां शुभैः ॥
पूजितां पूजयेत्तां तु यावत्स्याद्द्वादशीदिनम् ।
एकादश्यां सोपवासो नृपः कुर्यात्सनागरम् ॥
सांवत्सरेण सहितो मन्त्रिणा च पुरोधसा ।
रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥
स्थाने स्थाने महाभाग देया प्रेक्ष्या तथा मधु ।
पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ॥
द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः ।
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥
सुयन्त्रितं तु तं कुर्याद्गृहस्तम्भचतुष्टयम् ।
पूजयेत्तन्महाभागं गन्धमाल्यान्नसम्पदा ॥
नित्यं च पटयोः पूजां यष्टिपूजां च कारयेत् ।
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥
नित्यं च जुहुयान्मन्त्रैः पुरोधाः शाक्रवैष्णवैः ।
नित्यं गीतेन नृत्येन तथा शक्रं च पूजयेत् ॥
द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः ।
विशेषेण च धर्मज्ञ सांवत्सरपुरोहितौ ॥
उत्थाने च प्रवेशे च शक्रं स्तूयान्नराधिपः ।
वक्ष्यमाणेन मन्त्रेण कुशलश्च पुरोहितः ॥
पूजयेदुच्छ्रितं केतुं भूषणैर्विविधैरपि ।
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ॥
एवं सम्पूजयेद्राम तथा दिनचतुष्टयम् ।
पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत् ॥
पूजयित्वा महाभाग बलेन चतुरङ्गिणा ।
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ॥
४३० वीरमित्रोदयस्य राजनीतिप्रकाशे
वाद्यघोषेण महता सङ्गीतिस्तत्र कीर्त्तिता ।
पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि ॥
उत्सवं च तदा कार्य जलतीरगतैर्महत् ।
एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् ।
नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथात् ॥ इति।
शक्रध्वजोच्छ्रायकाले राज्ञा शक्रस्याशीर्वादरूपाः केचिन्म-
न्त्रा विष्णुधर्मोत्तरोक्ताः पठनीयाः। ते च—
पुष्कर उवाच ।
शृणु मन्त्रानिमान् सम्यक् सर्वकल्मषनाशनान् ।
प्राप्ते शक्रध्वजोच्छ्राये यान् पठेत्प्रयतो नृपः ॥
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
देवदेव महाभाग त्वं हि वर्द्धिष्णुतां गतः ॥
त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः ।
अनन्ततेजा विरजा यशोविजयवर्द्धनः ॥
अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित ।
ब्रह्मा स्वयम्भूभगवान् सर्वलोकपितामहः ॥
रुद्रः पिनाकभृदृप्तः शतभृद्देवसंस्तुतः ।
योगस्य नेता कर्त्ता च तथा विष्णुरुरुक्रमः ॥
तेजस्ते वर्द्धयन्त्वेते नित्यमेव महाबलाः ।
अनादिनिधनो देवो ब्रह्मगोपः सनातनः ॥
अग्नेस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ।
कार्त्तिकेयः शक्तिधरः षड्वक्त्रोऽसिगदाधरः ॥
स ते वरेण्यो वरदस्तेजो वर्द्धयतां विभो ।
देवसेनापतिः स्कन्दः सुरप्रवरपूजितः ॥
आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ।
इन्द्रध्वजोच्छ्रायविधाविन्द्रप्रार्थनामन्त्राः । ४३१
मरुद्गणा लोकपालाश्चन्द्रः सूर्योऽनिलोऽनलः ॥
देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ।
समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥
तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्त्तिरेव च ।
प्रवर्द्धयन्तु ते तेजो जय शक्र शचीपते ॥ इति ।
इत्याशीर्वादरूपान् मन्त्रान् पठित्वा इन्द्रप्रार्थनां कुर्यात् ।
प्रार्थनारूपाश्च मन्त्रास्तत्रैव पठिताः ।
तव चापि जयान्नित्यमिह सम्पद्यते शुभम् ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥
तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् ।
शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशम् ॥
नमस्ते देवदेवेश नमस्ते बलसूदन ।
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥
सर्वेषामेव लोकानां त्वमेकः परमा गतिः ।
त्वमेव परमं त्राणं सर्वस्यासि जगत्पते ॥
पाशो ह्यसि पथः स्रष्टुं त्वमनल्पान् पुरन्दर ।
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥
त्वमेव धनविक्षेप्ता त्वामेवाहुः पुनर्धनम् ।
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥
स्रष्टा त्वमेव लोकानां संहर्त्ता चापराजितः ।
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ।
१ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ।
लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनिलोऽनलः ॥
इति मुद्रितविष्णुधर्मोत्तरे पाठः ।
४३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥
त्वमेव चामृतं देव त्वं मोक्षः परमार्चितः ।
त्वं मुहूर्त्तो निमेषस्त्वं लवस्त्वं वै पुनः क्षणः ॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥
त्वमुत्तमा सगिरिवरा वसुन्धरा सभास्वरं वितिमिरमम्बरं तथा।
महोदधिःसातिमितिमिंगिलस्तथा महोर्मिमानुरुमकरो झषाकुलः॥
महायशास्त्वमिह सदा प्रपूज्यसे महर्षिभिर्मुदितमना महाद्युते ।
महर्षिभिः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥
त्वं विप्रैः सततामिहेज्यसे फलार्थं त्वं देवैरतुलबलौघ गीयसे त्वम्।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्याधिगमयन्ति सर्ववेदैः॥
वज्रस्य भर्त्ता भुवनस्य गोप्ता वैश्वानरं वाहनमभ्युपैति ।
नमः सदाऽस्मै त्रिदशेश्वराय लोकत्रयेशाय पुरन्दराय ॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥
त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीश ॥
कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् ।
हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ॥
त्रातारमिन्द्रेन्द्रियकारणात्मन् जगत्प्रधानं च हिरण्यगर्भम् ।
लोकेश्वरं देववरं वरेण्यमानन्दरूपं प्रणतोऽस्मि नित्यम् ॥
इमं स्तवं देववरस्य कीर्त्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः।
१ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता ।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥
यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति । इति-
मुद्रितविष्णुधर्मोत्तरे पाठः ।