सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 415, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 415

कौमुदीमहोत्सवः । ४१९
गृहे गृहस्थैः सम्पूज्याः स्त्रियश्च गृहदेवताः ।
आचारान् पालयेदेतान् यस्तु राजा समाहितः ॥
सपुत्रपौत्रसंयुक्तो दीर्घायुर्धनवान् भवेत् ।
सर्वत्र जयमाप्नोति याति स्वर्गे च शाश्वतम् ॥
यदेतद्वैष्णवं वाक्यं देशेऽस्मिन् लङ्घ्यते जनैः ।
तदा सस्यानि नश्यन्ति घोरैरुदकविप्लवैः ॥
अतिवृष्टिरनावृष्टिर्दुर्भिक्षं च तथा मृतिः ।
दम्भाभिमानलोभांस्तु तस्मात्त्यक्त्वा प्रयत्नतः ॥
यदुक्तं विष्णुना वाक्यं तत्कुर्यात्कृतनिश्चयः । इति ।
इति ब्रह्मपुराणोक्तदेवयात्राप्रकरणम् ।
अथ कौमुदीमहोत्सवः ।
तत्र स्कन्दपुराणे,
प्रातः प्रभृति राजा च आज्ञापयति कौमुदीम् ।
देवरात्रौ च देवस्य रुद्रस्यासुरनाशिनीम् ॥
सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम् ।
वासोभिः संहतैः सर्वे भवन्तु पुरवासिनः ॥
स्रग्विणश्च शिरःस्नाताः सदाम्पत्या यथाक्रमम् ।
गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः ॥
उच्छ्रीयन्तां पताकाश्च गृहवीथ्यापणेषु च ।
गृहाणि चोपलिप्तानि नित्यमेव भवन्तु वः ॥
पुष्पप्रकरतुष्टानि धूपैर्नानाविधैरपि ।
स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ॥
ब्राह्मणाश्चैव भोज्यन्तां क्रियन्तां बलयस्तथा ।
ब्रह्मघोषश्च सर्वत्र पुण्याहोदीरणानि च ॥