सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 412, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 412

४१६ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रौष्ठपादामले पक्षे शतक्रतुपूजाभिहिता सा च तत्पक्षीयाया-
मष्टम्यामिन्द्रध्वजोच्छ्रायदिने कर्तव्येत्यभिधास्यते । एवं भद्रका-
लीपूजानीराजनघृतकम्बला अग्रेऽभिधास्यन्ते । राज्येति । रा-
ज्याभिषेकनक्षत्रपूजनं राज्ञो जन्मदिनविहितसंवत्सरग्रन्थिन-
क्षत्रपूजनं च प्रतिसंवत्सरं कुर्यादित्यर्थः ।
कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि ।
एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समग्रं वसुधां प्रशास्ति ॥
इति विष्णुधर्मोत्तरोक्तस्तिथिविशेषमासविशेष-
विहितो देवताविशेषपूजादिविधिः ।
अथ तिथिविशेषे मासविशेषे च विहिता ब्रह्म-
पुराणोक्ता देवयात्रा ।
वैशाखादिषु मासेषु षट्सु देवगृहेषु च ।
यात्रोत्सवः सदा कार्यः प्रतिसंवत्सरेष्वपि ॥
कार्या च ब्रह्मणे यात्रा प्रतिपद्यपि सर्वदा ।
द्वितीयायां च देवेभ्यो विद्यारम्भे महोत्सवे ॥
भागीरथ्यै तृतीयायां कर्त्तव्या च सुशोभना ।
विनायकाय नागेभ्यश्चतुर्थ्यामथ कारयेत् ॥
स्कन्दाय षष्ठ्यां सप्तम्यां सूर्येभ्यश्च यथाक्रमम् ।
पुरन्दराय चाष्टम्यां रुद्राय सगणाय च ॥
दुर्गाभ्यश्चैव मातृभ्यो नवम्यामथ सर्वदा ।
भूम्यै दशम्यां कर्त्तव्या सर्वोपकरणान्विता ॥
एकादश्यां समासेन विधात्रे विश्वकर्मणे ।
द्वादश्यां विष्णवे कार्या सायुधाय महात्मने ॥
त्रयोदश्यां तु कामाय चतुर्दश्यां कपर्दिने ।
पौर्णमास्यां तु देवेभ्यस्तथा चन्द्रमसे तथा ॥