सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 416, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 416

४२० वीरमित्रोदयस्य राजनीतिप्रकाशे
दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च ।
अनन्तराः क्रियन्तां वै प्रचुरं स्नेहवर्त्तयः ॥
तरुणाः सह योषिद्भिः समन्तात्पर्यटन्तु च ।
रममाणा हसन्तश्च गायन्तो नृत्तसेविनः ॥
भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दिव्ययोषितः ।
महादेवस्य पूजां च गन्धपुष्पादिकीं शुभाम् ॥
उपहारांश्च विविधान् शयनानि महान्ति च ।
बलयः पुष्कलाश्चैव भक्ष्यभोज्यैरलङ्कृताः ॥
दीपांश्च विविधाकारान् पानानि कृशरांस्तथा ।
फलानि च विचित्राणि मांसं पक्वं तथाऽऽमकम् ॥
सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत ।
वध्यन्तां पशवश्चात्र भोज्यन्तां च द्विजोत्तमाः ॥
यो न कुर्यादिदं सर्वं पुरवासी नरः कचित् ।
पातयेत्तस्य शारीरं दण्डं राजा महायशाः ॥
राजापि संयतः शान्तः शुचिः प्रयतमानसः ।
दिवसे दिवसे रुद्रं स्नापयेत प्रयत्नवान् ॥
पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना ।
क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः ॥
पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः ।
भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ॥
एकैकशः स्वयं राजा घटानां दशभिः शतैः ।
दिवसे दिवसे व्यास त्र्यम्बकं सोऽभिषेचयेत् ॥
गन्धैः पुष्पैश्च धूपैश्च जाप्यैर्बलिभिरेव च ।
पूजयित्वा ततो राजा विप्रानन्यांश्च भोजयेत् ॥
सत्कृत्वा पशुभिर्मेध्यैर्वस्त्रैर्मणिभिरेव च ।