सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 411, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 411

मासतिथिविशेषविहितं देवताविशेषपूजनम् । ४१५
शुक्लपक्षत्रिभागेऽन्त्ये कार्त्तिकस्य ततो नृपः ।
उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा ॥
वैकुण्ठं पूजयेद्देवमर्चायामथ वा पटे ।
महादानं ततो दद्यात्प्रेङ्खां दद्यात्तथैव च ॥
प्रेङ्खा दोला । “दोला प्रेङ्खादिका स्त्रियाम्” इत्यमरः ।
दोलायात्रां कुर्यादित्यर्थः ।
मल्लानामथ वेश्यानां वन्दिनां नर्त्तकैः सह ।
दद्यादितिशेषः ।
यात्राविधानं सकलं तदा कुर्यान्महीपतिः ।
एतत् कृत्वा ततो यात्रा कार्या भवति पार्थिवैः ॥
शरत्काले गतातङ्कैः पुष्टाश्वरथकुञ्जरैः ।
एवं हि राज्ञा चतुरोऽपि मासान् पूज्यो भवेद्देववरोऽरिहन्ता ।
सन्त्यक्तनिद्रं मधुसूदनं च सम्पूज्य यात्राभिमतप्रदा स्यात् ॥
इति विष्णुधर्मोत्तरे चातुर्मास्ये कृतयात्रस्य राज्ञो
ऽवस्थानविष्णुपूजनविधिः ।
अथ सामान्यतस्तिथिविशेषमासविशेषविहितो
देवताविशेषपूजनविधिः ।
'
पूजयेच्चतुरो मासान् सुप्तं मधुनिषूदनम् ।
प्रौष्ठपादामले पक्षे पूजयेच्च शतक्रतुम् ॥
प्रौष्ठपादो भाद्रपदः ।
नवम्यामाश्वयुक्छुक्ले भद्रकालीं तु पूजयेत् ।
रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा ॥
सम्वत्सरात्कोटिहोमं कुर्याच्च घृतकम्बलम् ।
राज्यसंवत्सरग्रन्थोः कुर्यात्तुण्डुडुपूजनम् ॥