वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 425, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२९
प्राक्शिरस्कां ततः कुर्याद्वस्त्रैः सञ्छादितां शुभैः ॥
पूजितां पूजयेत्तां तु यावत्स्याद्द्वादशीदिनम् ।
एकादश्यां सोपवासो नृपः कुर्यात्सनागरम् ॥
सांवत्सरेण सहितो मन्त्रिणा च पुरोधसा ।
रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥
स्थाने स्थाने महाभाग देया प्रेक्ष्या तथा मधु ।
पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ॥
द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः ।
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥
सुयन्त्रितं तु तं कुर्याद्गृहस्तम्भचतुष्टयम् ।
पूजयेत्तन्महाभागं गन्धमाल्यान्नसम्पदा ॥
नित्यं च पटयोः पूजां यष्टिपूजां च कारयेत् ।
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥
नित्यं च जुहुयान्मन्त्रैः पुरोधाः शाक्रवैष्णवैः ।
नित्यं गीतेन नृत्येन तथा शक्रं च पूजयेत् ॥
द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः ।
विशेषेण च धर्मज्ञ सांवत्सरपुरोहितौ ॥
उत्थाने च प्रवेशे च शक्रं स्तूयान्नराधिपः ।
वक्ष्यमाणेन मन्त्रेण कुशलश्च पुरोहितः ॥
पूजयेदुच्छ्रितं केतुं भूषणैर्विविधैरपि ।
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ॥
एवं सम्पूजयेद्राम तथा दिनचतुष्टयम् ।
पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत् ॥
पूजयित्वा महाभाग बलेन चतुरङ्गिणा ।
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ॥