सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 414, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 414

४१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
आरोप्या प्रतिमा तत्र सुसूक्ष्मा च सुशोभना ॥
कूटागारं च वोढव्यं गजैरश्वैर्नरैर्वृषैः ।
देशकालानुसारेण वस्त्रमाल्याद्यलङ्कृतैः ॥
सबलेनानुगन्तव्यं राज्ञा देवस्य पृष्ठतः ।
सुदूरे चानुगन्तव्यं तत्प्रयुक्तैश्च मन्त्रिभिः ॥
यस्य यस्य समीपे तु स देवो याति पूजितः ।
तेनातिथ्यं च कर्त्तव्यं तस्मै धूपादिभिस्तथा ॥
क्ष्वेडितोत्कृष्टशब्दैश्च जयवाद्यस्वनेन च ।
यथागमं च कर्त्तव्यं नगरे च प्रदक्षिणम् ॥
ततो देवगृहं प्राप्य सम्पूज्य प्रतिमां नयेत् ।
महान्तमुत्सवं कुर्वन् गीतनृत्तसमाकुलम् ॥
तस्यां रात्रौ ततो देया दीपाः शतसहस्रशः ।
रङ्गभूमौ दिदृक्षूणां प्रकाशार्थं महात्मनः ॥
तैस्तैः सुभाषितैः श्लोकैर्हर्षयित्वा जनांस्तथा ।
सर्वेषामनुकम्पार्थं धर्मचक्रं प्रवर्त्तयेत् ॥
रङ्गोपजीविनां पश्येत् तृतीयेऽहनि कौशलम् ।
यथाशक्ति धनं तेभ्यो दद्याद्दम्भं च वर्जयेत् ॥
प्रेक्षाकाले प्रधानास्ते पूजितव्याः क्रमेण तु ।
सम्मानपूर्वं विधिवत्ताम्बूलकुसुमादिभिः ॥
यात्रावसाने भूतानि पूजनीयानि सर्वदा ।
पूजोपचारैर्बलिभिस्तथा नक्तञ्चरानपि ॥
अदृष्टविग्रहानेव दिदृक्षूणां महोत्सवम् ।
सन्ध्यायां परया भक्त्या त्यक्त्वा सन्देहमात्मनः ॥
सर्वमस्तीति विज्ञाय चेतसा निर्मलेन च ।
एकान्ते देवताः पूज्या वैशाखे मासि पूर्ववत् ॥