सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

३९४ वीरमित्रोदयस्य राजनीतिप्रकाशे
द्रोक्षीरकुसुम्भपुष्पलवणारूयान्यष्टमङ्गलद्रव्याणि प्रकीर्य सा-
धारणविधया च मण्डपप्रतिष्ठां कृत्वा तन्मध्यस्थायां रचि-
तस्वस्तिकादिमण्डलायामास्तृतदर्भायां विकीर्णाष्टमङ्गलद्रव्या-
यां वेद्यां सुवर्णरूप्यताम्रान्यतरमयं क्षीरिवृक्षजं वा माण्ड-
लिकानन्तरजिन्महाराजानां क्रमेणैकसपादसार्द्धहस्तोच्छाया-
मं भद्रासनं संस्थाप्य तदुपरि परिहितनववस्त्रं सायुधमलङ्कृतं
शुद्धभस्मोद्धूलितसर्वाङ्गं राजानमुपवेश्य तद्वामतस्तत्पत्नीं
चोपवेश्य “तन्महेशाय विद्महे वाग्विश्शुद्धाय धीमहि । तन्नः
शिवः प्रचोदयात् ॥” इतिशिवगायन्या शिवकुम्भेनाभिषिच्य
पूर्वोक्तया गौरीगायत्र्या वर्धन्या चाभिषिच्य शेषकलशैः स्था-
पनक्रमेण रुद्राध्यायं पठन्नभिषिञ्चेत्, अघोरमन्त्रेण वा ।
तदा च प्रतिकलशं तदावृत्तिः । अभिषेकश्च कलशनिहितान्
कूर्चान् कलशमुखेष्वानीय तद्द्वारा राजमूर्धनि यथोदकं पत-
ति तथा कार्यः, कूर्चैः प्रोक्षणं वा । तदा चेतरेऽपि ब्राह्मणाः
स्वस्वशाखागतान् “सुरास्त्वामभिषिञ्चन्तु” इत्यादिपौराणांश्चा-
भिषेकमन्त्रान् पठेयुः । शङ्खभेर्यादिनानावाद्यशब्दश्च विधेयः ।
मन्त्र्यादयो राजसेवकाः पौरादयश्च जयादिशब्दै राजानं
वर्धयेयुः । ततः कलशान्तर्गतपिष्टौषधिलेपपूर्वकं राजा शुद्धो-
दकेन स्नात्वा क्षौमे वाससी परिधाय धृतप्रभूतशुक्लमणिख-
चितमुकुटादिदिव्यभूषणनृपचिह्न आचार्यादिभिः प्रणीता-
निनयनादौ कर्मशेषे समापिते यथाचारं भस्मधारणं कुर्या-
त् । नृपचिह्नानि च नत्रोपकल्पितानि शिविकावैजयन्ती-
चन्द्रसमप्रभच्छत्रशङ्खचामरभेर्यादीन्युत्तमानि भूषणानि च प्र-
भूतान्याचार्यो राज्ञे दद्यात् । ततः कृतजयाभिषेकप्रतिष्ठा-
सिद्ध्यर्थम् अष्टषष्टिपलहेपनिर्मितं नवरत्नालङ्कृतं सुदृढमं

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९५
दशधेनुशतानि सुशोभनं क्षेत्रं प्रत्येकं शतद्रोणमितांस्तिलांस्त-
ण्डुलांश्च सोपधानतूलिकाद्युपस्करां शय्याम् अश्वादिवाहनं
रथादियानं च आचार्यायामुकशर्मणे दक्षिणामहं सम्प्रददे
न ममेति गुरवे दक्षिणां दद्यात् । परिमाणतो मूल्यतश्चैतदर्धमि-
तानि तुरङ्गादीनि मिलितेभ्यः सर्वेभ्यो होतृभ्यस्तथैव त-
दर्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यस्तदर्धमितानि
ब्रह्मभ्यो गुरुवदेव दद्यात् । सर्वे च स्वस्त्युक्तिकामस्तुत्यादिपूर्वकं
प्रतिगृह्णीयुः । पुरोहिताय च जयाभिषेकाङ्गभूतरुद्राभिषेकप्रति-
ष्ठासिद्ध्यर्थं यथाशक्ति सुवर्णादूर्ध्वं हिरण्यं दक्षिणां दद्यात् ।
रुद्राभिषेकोपस्करं च बाणलिङ्गकलशमण्डपादिकं प्रतिपादयेत् ।
तत इतरसहायभूतब्राह्मणेभ्योऽपि यथाशक्ति सुवर्णं दक्षिणां द-
दद्यात् । दीनानाथादिभ्यश्च यथाशक्ति भूयसीम् । ब्राह्मणभोजनं
च सहस्रावरं यथाशक्ति सङ्कल्पयेत् । ततः स्थापितदेवताना-
मुत्तरपूजां कृत्वा सर्वाः प्रतिमाः कलशादिसर्वोपस्करयुताः
सोपस्करं च मण्डपद्वयमाचार्यहस्ते प्रतिपादयेत् । होमोपक-
रणानि स्रुगाज्यचरुस्थाल्यादीनि तत्तद्धोतृहस्ते, हविःशेषांश्च
तत्तद्ब्रह्महस्ते प्रतिपादयेत् । ततस्तत्तत्कुण्डस्थितानग्नीन् य-
थाविभवं गन्धादिदक्षिणान्तोपचारैः सम्पूज्य नमस्कृत्य
सर्वान् प्रदक्षिणीकृत्य "गच्छ गच्छ सुरश्रेष्ठ" इति सर्वान् वि-
सर्जयेत् । तत आचार्यादिभिः कर्मणः सम्पूर्णतामच्छिद्रतां च
वाचयित्वा राजा आचार्यादिसहितो महादेवस्य महतीं पूजां
यथाविभवं महता सम्भारेण रुद्रमन्त्रेण कृत्वा "यस्य स्मृत्या च"
इत्याद्युक्त्वा सकलस्वकीयसुहृन्मन्त्रिपरिजनादियुतो भुञ्जीत । त-
दिने च न कस्यापि निगडबन्धनादि कुर्यात्पूर्वबद्धांश्च मोचयेदिति।
इति जयाभिषेकप्रयोगः ।

३९६ वीरमित्रोदयस्य राजनीतिप्रकाशे
एवं षष्ठे दिने जयाभिषेकं सम्पाद्य मङ्गल्यसुस्वप्नदर्शने
समीचीने च निमित्ते सति व्रजेदित्युक्तम् । तत्र प्रस्थानतः
सप्तमे दिने कियद्दूरे गत्वावस्थेयमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन ।
गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ॥
ततः क्रमेण गच्छेच्च परदेशं महीपतिः ।
आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ॥
कृतरक्षः सन् आत्मसैन्यस्यानुरूपेण यवसेन्धनधान्यादि-
मत्तया योग्येन पथा मार्गेण गच्छेत् ।
त्रिरात्रमुषितो गच्छेदूभूयो नक्षत्रसम्पदा ।
नक्षत्रसम्पदेति चन्द्रशुद्धिनिषिद्धयोगकरणादिराहित्योप-
लक्षणम् ।
यवसेन्धनतोयानां रक्षको विषदूषणात् ।
परानभिमुखो गच्छेत्प्रभूतयवसेन्धनः ॥ इति ।
मनुः,
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
मूले, मूलभूते स्वदेशे । विधानं, तद्रक्षणार्थं सैन्यस्थापनादि ।
उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥
संशोध्य त्रिविधं मार्ग षड्विधं च बलं स्वकम् ।
साम्परायिककल्पेन यायाद्रिपुपुरं प्रति ॥
त्रिविधं मार्ग, जलस्थलवनरूपं मार्गम् । षड्विधं बलं,
'मौलं च भृतकं चैव”इत्यादिनाभिहितम् । साम्परायिककल्पेन,
[द्धकल्पेन ।

यात्राप्रकरणे कालविशेषेण सेनायां विशेषः । ३९७
शत्रुसेविनि मित्रे च गूढ युक्ततरा भवत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ इति ।
मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः—
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥
खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः ।
चतुर्विधबलोपेतां वसन्ते वा शरद्यथ ॥
सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः ।
अभियोज्यो भवेत्तेन शत्रुविषयमाश्रितः ॥
गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च ।
किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥
रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम् ।
जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत् ॥
खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम् ।
न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा ॥
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् ।
यवसेन्धनसंयुक्तं काले पार्थिव हैमने ॥
शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ ।
विज्ञाय राजा हितदेशकालौ दैवं त्रिकालं च तथैव बुद्ध्या ।
यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥इति।
विष्णुधर्मोत्तरे,
राम उवाच ।
साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजाम् ।
सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥

३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा ।
गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥
गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि ।
नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥
छत्रं ध्वजं पताकां च वर्म चैव महाभुज ।
आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥
तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् ।
कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥
प्रमथांश्च सहायार्थे धरणीं च महीभुजम् ।
भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥
संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् ।
रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥
रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः ।
पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥
पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् ।
पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥
दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः ।
ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥
चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः ।
मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥
आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् ।
अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥
या ओषधय इत्येवं धारयेदोषधीः शुभाः ।
नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥

ऐन्द्रायेति ततो वर्म धन्वनागेति वै धनुः ।
ततो राजा समादद्यात्सशरं त्वाभिमन्त्रितम् ॥
कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम् ।
आरुह्य शिबिराद्राजा विनिष्क्रम्य समे शुभे ।
देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ॥ इति ।
अथ पुरोहितकर्तृकमाश्वलायनोक्तं सन्नहनं राजधर्म-
त्वादुच्यते ।
सङ्ग्रामे समुपोढे राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति
पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतिकमिति कवचं
प्रयच्छेदृत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थी जपेत्पञ्चम्ये-
षूधि प्रयच्छदाभंप्रवर्तमान षष्ठीं सप्तम्यामश्वानष्टमामिषूनवेक्षमा-
णं वाचयत्यहिरिवभोगैः पर्येति बाहुमिति तलं नह्यमानम-
थैनं सारयमाणमुपारुह्याभीवर्त्तं वाचयति प्रयो वां मित्राव-
रुणेति च द्वे अथैनमन्वीक्षेताप्रातिरथासासौपर्णैः प्रधारयन्तु
मधुनो घृतस्यैतत्सौपर्णं सर्वा दिशोऽनुपरि यायादादित्यमौश-
नसं वावस्थाय प्रयोधयेदुपश्वासय पृथिवीमुत द्यामिति तृचेन
दुन्दुभिमभिमृशेदवस्सृष्टा परापतेतीषून्विसर्जयेद्यत्र बाणाः सम्प-
तन्तीति युध्यमानेषु जपेत्संशिष्याद्वा संशिष्याद्वा । इति । ( आ०
गृ० सू० अ० ३ । कं० १२ । )
अस्यार्थः । समुपोढे उपस्थिते । सन्नाहयेत्, पुरोहित इति
शेषः। आत्वेति सूक्तं, जपेदितिशेषः। पादग्रहणेन ऋग्ग्रहणे प्राप्ते-
ऽप्यत्र सूक्तग्रहणमितिवृत्तिकृत्। जीमृतेति, अस्य सूक्तस्याद्ययेति-
शेषः, राज्ञे इति च शेषः । उत्तरया “धन्वनागा”इति धनुः प्रय-
च्छेत् । उत्तरां “वक्ष्यन्ती वेदा”इति वाचयेत्, राजानमितिशेषः ।
स्वयं पुरोहितः “ते आचरन्ति”इति जपेत् । पञ्चम्या “बह्वीनां पि-

४०० वीरमित्रोदयस्य राजनीतिप्रकाशे

ता” इति इषुधिं प्रयच्छेत् । इषवो धीयन्ते यत्र स इषुधिः। यथेष्टदिग-
भिमुखगमने “रथे तिष्ठन्” इति जपेत् । सप्तम्या “तीव्रात् घोषान्”,
इति अश्वाननुमन्त्रयेत । अष्टमीं “रथवाहनम्” इति इषूनवेक्षमाणं
राजानं वाचयेत् । ज्याघातपरित्राणं तलमुच्यते । तेन नह्यमान-
मेतां वाचयेत् । सारथिना सारयमाणं राजानं रथे आरुह्य
“अभीवर्तेन” इति सूक्तं वाचयेत् । प्रयो वामित्यृचौ च । एनं
राजानमन्वीक्षेत एतैः सूक्तैः । “आशुः शिशान” इत्यम-
तिरथं सूक्तम् । “शास इसेति” सूक्तं शासः । सौ-
पर्णसूक्तानां बहुत्वार्द्विशेषमाह-प्रथारेति । एतन्सूक्तं सौ-
पर्णं भवति नान्यत् । अथ राजा सर्वदिशो रथेना नुक्रमेण
गच्छेत् । यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत्,
रात्रौ चेद्यस्यां दिशि शुक्रस्तां दिशं परिगृह्य योधयेद्राजा । ना-
पि प्रत्यादित्यं नापि प्रतिशुक्रमित्यर्थः । उपश्वासयेत्यादौ
राजा कर्त्ता । यत्र बाणा इत्यत्र तु पुरोहितः कर्त्ता । संशि-
ष्याद्वा । अथ वा पुरोधा आचक्षीत एतस्मिन् काले इयमृक्तवे-
ति । यथा आत्वा हार्षमन्तरेधीतिसूक्तं पश्चाद्रथस्यावस्थाय
ब्रूहि, जीमूतस्येति कवचं गृहाणेत्येवमादि । अध्यायान्तलक्ष-
णार्थं द्विर्वचनमिति ।
मनुः,
दण्डव्यूहेन तं मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥
यतः शङ्केत सभयं ततो विस्तारयेद्बलम् ।
पद्मेन चैव व्यूहेन निवसेत सदा स्वयम् ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
भयं यतो वा शङ्केत तां प्राचीं कल्पयेद्दिशम् ॥

-like curve, and goes down. It does NOT have a separate vertical bar!
So in line 20, why would there be a vertical bar?
Wait! What if the word is: कदाचित्?
Wait, look at काहाचित्: is the first part क? Yes.
Is the next stroke an 'ा'?
Wait, could it be कर्हिचित्?
Wait, what if it's काहाचित्?
Let's look at the letter again:
Wait, could it be:
न व्यूह कल्पना कार्या राज्ञा भवात् काहाचित् ।
Wait, is that काहाचित्? Let's check the characters:
क + ा + ह + ा + चि + त् = काहाचित्.
Wait, what if it's कदाचित् with a broken type?
If someone typeset it, why would they typeset काहाचित्?
Could it be कश्चित्? No.
Could it be काहिचित्?
Wait, look at the letter after भवात्:
Is it क? Yes.
Then ा?
Wait, could it be क ो ऽ पि? No.
What if it IS काहाचित् (a misprint

४०२ वीरमित्रोदयस्य राजनीतिप्रकाशे
स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना ।
नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ।
भग्नसन्धारणं तत्र योधानां परिकीर्त्तितम् ॥
प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते ।
तत्र, क्रोशमात्रावस्थिते राज्ञि । युद्धादिना परराष्ट्रग्रहणं
राज्ञोऽवश्यकर्त्तव्यमित्याह—
याज्ञवल्क्यः,
य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति ।
शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्र-
तिपादयितुमर्हति । अश्वमेधेन यक्ष्य इति परविषयमभियाया-
द्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परा-
यिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डा-
क्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हित-
मनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोज-
नोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवहितः शत्रु-
णा सह युद्ध्येत् । इति ।
युद्ध्यता राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्—
विष्णुधर्मोत्तरे,
न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते ।
मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥
शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान् ।
तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥
न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत् ।

यात्राप्रकरणे सैन्यकल्पना । ४०३
आयुधानां तु सम्मर्दो यथा न स्यात्परस्परम् ॥
तथा तु कल्पना कार्या योधानां भृगुनन्दन ।
भेत्तुकामः परानीकं संहतैरेव भेदयेत् ॥
भेदरक्षापरेणापि कर्त्तव्या संहता तथा ॥
स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वाऽरिप्रकल्पितम् ।
व्यूहं भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ॥
गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज ।
रथस्य चाश्वाश्चत्वारश्चत्वारस्तस्य चर्मिणः ॥
चर्मिभिश्च समास्तत्र धन्विनः परिकीर्त्तिताः ।
पुरतश्चर्मिणो देया देयास्तदनु धन्विनः ॥
धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् ।
रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ॥
पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः ।
अवर्मयित्वा यो वाहमात्मानं वर्मयेन्नरः ॥
स राम नरकं याति सुकृतेनापि कर्मणा ।
शूराः प्राङ्मुखतो देया न देया भीरवः क्वचित् ॥
शूरान् वा मुखतो दत्त्वा स्कन्धमात्रप्रदर्शनम् ।
कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रवकारकम् ॥
दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः । इति ।
यदि च परबलं दृष्ट्वा शत्रुर्युद्धोपक्रमं न करोति आसनमेव
करोति तदा किं कर्त्तव्यमित्यपेक्षायाम्—
मनुः,
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।

४०४ वीरमित्रोदयस्य राजनीतिप्रकाशे
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥
उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युद्ध्येत जयप्रेप्सुरपेतभीः ॥
उपजपेत्, भेदं कुर्यात् ।
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
दण्डेनाभिप्रसह्यैतांश्छनकैर्वशमानयेत् ॥ इति ।
सामादीनुपायानभिधाय युद्धं गत्यन्तराभाव एव कर्त्तव्य-
मित्यभिप्रायेणोक्तम्—
श्रीरामायणे,
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च ।
दानं लुब्धेषु भेदश्च शङ्कितेष्विति निश्चयः ॥
दण्डस्तथैव पात्यश्च नित्यकालं दुरात्मसु । इति ।
मनौ,
साम्ना भेदेन दानेन समस्तैरुत वा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥ इति ।
तथा,
त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये ।
तथा युद्ध्येत सम्पन्नो विजयेत रिपून् यथा ॥
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥

यात्राप्रकरणे सङ्ग्रामादनिवर्तनं क्षात्रधर्मः । ४०५
१ युद्ध्येत स्यन्दनाश्वेन समेऽनूपोन्नते द्विपैः ।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥
कुरुक्षेत्रांश्च मात्स्यांश्च पाञ्चालांञ्छूरसेनजान् ।
दीर्घाल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥
प्रहर्षयेद्वलं व्यूह्य भृशार्तांश्च परीक्षयेत् ।
चेष्टांश्चैव विजानीयादरीन् योधयतामपि ॥ इति ।
मनुः,
समोत्तमाधमै राजा त्वाहूतः समरे परैः ।
न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युद्ध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥
न कूटैरायुधैर्हन्याद्युद्ध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥
मिथः परस्परं, स्पर्धमाना इतिशेषः । दिग्धैः विषाक्तैः ।
महाभारते,
राज्ञां नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः । इति ।
राज्ञोऽधिकमित्यनुवृत्तौ-
गौतमः,
सङ्ग्रामे संस्थानमनिवृत्तिश्च । इति ।
देवलः,
प्रजार्थं क्षत्रियो युद्ध्येत्स्वान् प्राणान् सम्परित्यजेत् ।
अश्वमेधफलं कृत्स्नं निसर्गेणाधिगच्छति ॥
शस्त्रेण निहतः सङ्ख्ये द्विषद्भिरपराङ्मुखः ।
१ स्यन्दनाश्वैः समे युद्ध्येदनूपे नौद्विपैस्तथा । इति मुद्रितमनु
पुस्तके पाठः ।

४०६ वीरमित्रोदयस्य राजनीतिप्रकाशे
शक्रलोकमवाप्नोति स्ववीर्याद्विजितं शुभम् ॥
आहवेऽभिमुखे शूरं प्रहितानि द्विषद्गणैः ।
भिन्द्युर्यावन्ति शस्त्राणि तावन्तः क्रतवोऽस्य ते ॥
क्षतेभ्यः प्रस्रुतं रक्तं क्षितिपांसुषु संस्पृशेत् ।
स देवलोके तावन्तं कालं तिष्ठति वै ध्रुवम् ॥
नास्ति राज्ञां समरतनुत्यागसदृशो धर्मः ।
गोब्राह्मणमित्रधनरक्षणार्थं मृतास्ते स्वर्गभाजः ॥
याज्ञवल्क्यः,
य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ इति ।
यमः,
क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म प्रतिष्ठितम् ।
तस्मात्पृष्ठं रणे रक्षेन्मा भवेद्ब्रह्मघातकः ॥ इति ।
पृष्ठं रणे रक्षेदित्यनेन पलायननिषेधः ।
मनुः,
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशमासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनं प्राप्तं नार्त्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ इति ।
बौधायनः,
भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर्न युध्येता-
न्यत्राऽऽततायिनः । इति ।
गौतमः,

यात्राप्रकरणे युद्धे मरणपलायनयोर्धर्माधर्मत्वे । ४०७
न दोषो हिंसायामाहवेऽन्यत्राश्वसारथ्यनायुधकृताञ्जलि-
प्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः ।
देवलः,
तृणखादी परप्रेप्सुरलसः शरणं गतः ।
षण्ढः परार्दितो लिङ्गी स्थविरः पतितः शिशुः ॥
न धर्मयुद्धे हन्तव्या ज्ञेया योधैरनापदि । इति ।
व्यासः,
ये हता निशितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
ते गता ब्रह्मसदनं न मेऽत्रास्ति विचारणा ॥
न यज्ञैर्दक्षिणाभिर्वा न तपोभिर्न विद्यया ।
स्वर्गे यान्ति तथा मर्त्या यथा योधा रणे हताः ॥
न ह्यधर्मोऽस्ति पापीयान् क्षत्रियस्य पलायनात् ।
युद्धाद्धि धर्मः श्रेयान् वै पन्थाः स्वर्गस्य विद्यते ॥ इति ।
आपस्तम्बः,
ब्राह्मणस्वान्यपजिगीषमाणः प्रत्यानेतुमिच्छन् युद्ध्यमानो
हतोऽसौ साक्षायजः । इति । (?)
धर्म इत्यर्थः । अत्र व्यासवाक्ये “योधा रणे हता” इति सा-
मान्यत उपादानात् आपस्तम्बवाक्येऽपि “युद्ध्यमानो हत”
इत्युपादानात्स्थानापत्त्या क्षत्रियातिरिक्तस्यापि क्षत्रवृत्त्या जीवतो
युद्धमरणमत्यन्तं धर्मसाधनं, पलायनं सामर्थ्ये सति गोब्राह्म-
णादीनामसंरक्षणं चात्यन्तमधर्मसाधनमिति द्रष्टव्यम् ।
आदित्यपुराणे,
शूरस्याग्रे यदा विप्र आर्त्त उत्क्रोशते भृशम् ।
न च तं त्रायते पापाच्छूरो नरकभाग्भवेत् ॥
ब्राह्मणानां गवां चैव रक्षार्थं हन्यते यदि ।

४०८ वीरमित्रोदयस्य राजनीतिप्रकाशे
स शूरो जीवितं हित्वा इन्द्रलोकं प्रपद्यते ॥ इति ।
याज्ञवल्क्ये,
पदानि क्रतुतुल्यानिभग्नेष्व विनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ इति ।
आदित्यपुराणे,
प्रजार्थे निहता ये च राजानो धर्मतत्पराः ।
अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये ॥
प्राप्नुवन्ति च ते सर्वे पुरीमैरावतीमिमाम् ।
निहताः, शस्त्रादिना । अग्निविद्युद्धता इत्यादावपि प्रजा-
र्थ इत्यनुषज्यते ।
मनौ,
यदस्य सुकृतं किञ्चिदमुत्रार्थमुपार्जितम् ।
भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ इति ।
आदित्यपुराणे,
सङ्ग्रामे प्रस्थितं भूपं भृत्यस्त्यजति यः क्षणात् ।
स तेन नृपदण्डेन मूढो नरकमृच्छति ॥
जित्वारिं भोगसम्पत्तिर्मृतस्य च परा गतिः ।
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥
शूराणां यद्विनिर्याति रक्तमाधावतां क्वचित् ।
तेनैव सह पाप्मानं सर्वं त्यजति वै मुने ॥
तथा व्रणचिकित्सायां वेदनां सहते तु याम् ।
ततो नास्त्यधिकं लोके तपः परमदारुणम् ॥
मृतस्य नास्ति संस्कारो नाशौचं नोदकक्रिया ।
कर्तुमिच्छति यस्येह सङ्ग्रामादधिकं हि किम् ॥
वराप्सरःसहस्राणि शूरमायोधने हतम् ।

यात्राप्रकरणे युद्धार्जितस्य कर्तव्यता । ४०९
अभिद्रवन्ति कामार्त्ता मम भर्त्ता भविष्यति ॥
यः सहायान् परित्यज्य स्वस्थः सन् गन्तुमिच्छति ।
अमून् हि तस्य कृन्तन्ति देवाः शक्रपुरोगमाः ॥ इति ।
तथा,
तोषयित्वा नृपं युद्धे राज्ञां हत्वाग्रतः स्थितम् ।
जित्वा न हरति द्रव्यं स नरः स्वर्गमाश्रितः ॥
मृद्नाति यदि राष्ट्राणि यदा न हरते धनम् ।
यदि वध्येत तत्रैव स नरः स्वर्गमाश्रितः ॥
युद्धार्जितं यत् तत्किं कर्त्तव्यमित्यपेक्षायाम्—
मनुः,
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥
सर्वद्रव्याणि, वस्त्रादीनि । कुप्यं, सुवर्णरजतान्यताम्रादि ।
अपृथग्जितं, योधैः सह सम्भूय जितम् । अत एव गौतमेन
पृथग्जिते वाहनादौ च विशेष उक्तः—
जेता लभेत साङ्ग्रामिकं वित्तं वाहनं तु राज्ञो योद्धॄंश्च
पृथग्जये यथार्हं सभाजयेद्राजा । इति ।
पृथग्जये, स्वयमेकाकिनैवार्जिते वित्ते। योद्धॄन् यथार्हम्,
यथोचितं पूर्वकृतमानसत्कारादिकमपेक्ष्य । सभाजयेत् पूजयेत् ।
पूर्वशत्रुविजयानन्तरं राज्ञः कर्त्तव्यमुक्तम्—
मनुना,
जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् ।
प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥
५२

४१० वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वेषां तु विदित्वैषां सममेव चिकीर्षितम् ।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥
आदानमप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते ॥
जित्वा, परराष्ट्रं जित्वा । देवान्,धार्मिकान् ब्राह्मणांश्च, त-
देशवासिन इति शेषः । सम्पूजयेत्, यथार्हं भूमिसुवर्णदानमाना-
दिभिः सत्कुर्यात् । परिहारान्, न मया लोभाद्याविष्टेनास्य जयः
कृतः किन्त्वयमस्मानेवमेवमपकृतवांस्ततोऽस्य मया जयः कृत
इत्यादीनि स्वनिरपराधताख्यापनानि । यद्वा । परिहारान्, दा-
नानि, लब्धं च सुवर्णादिकं मया ब्राह्मणसात्कृतमित्यादिकांश्च ।
तथा स्वामिदृढभक्तैर्यैर्ममापकृतं तेषामपराधा मया क्षान्ताः
स्वस्वव्यापारमनुतिष्ठन्त्वित्यभयं च ख्यापयेत् । तदाह—
याज्ञवल्क्यः,
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ इति ।
एषां सर्वेषां,परकीयामात्यादीनाम्। चिकीर्षितम्,अभिप्रायम्।
समं,तुल्यम्। विदित्वा,ज्ञात्वा।तद्वंश्यं,सङ्ग्रामहतस्य राज्ञो वंशे भवम्।
स्थापयेत्, तत्पदेऽभिषिञ्चेत् । समयक्रियाम्, इतः परं त्वयाऽस्मा-
स्वेवं दिशा वर्तितव्यमितिसमयबन्धम् । तेषाम्, परेषां राज्ञाम् ।
यथोदितान्, यथाकुलक्रमागतान। धर्मान्, आचारान् । प्रमाणानि
कुर्वीत,शपथरूपत्वेन कारयेत् । यदि त्वमस्मात्समयबन्धाच्च्युतो
भवसि तदास्मात्कुलक्रमागताद्धर्माच्च्युतो भविष्यसीति शपथा-
न् कारयेदित्यर्थः । अथ वा । तेषां पूर्वेषां राज्ञां, यथोदितान्

यात्राप्रकरणे परराष्ट्रं जित्वातदेशाचाराद्यलङ्घनम् ४११
यथाकृतान्, धर्मान् प्रजारक्षणप्रकारान् ब्राह्मणामात्यप्रभृतिभ्यो
वृत्तिदानानि च, प्रमाणानि अविप्लाव्यानि, कुर्वीत कारयेत् ।
अभीप्सितानाम्, रणहतराजवंशस्य राज्ञस्तदमात्यानां चापे-
क्षितानाम् । अर्थानां द्रव्याणाम् । आदानं ग्रहणम् । अप्रियकरम्
अनिष्टकरम् । दानं च प्रियकारकं, तेषामिष्टकारकम् । यतोऽव-
श्यापेक्षितगजाश्वादिधनलाभे राजान्तरैरनाक्रमणीयत्वं सम्भव-
ति, अत एव तत् कालयुक्तं नवीनराज्यलाभकाले युक्तम-
तः प्रशस्यते ।
विष्णुः,
राजा परपुरप्राप्तौ तत्कुलीनमभिषेचयेत् न राजकुल-
मुच्छिन्द्यात् अन्यत्राकुलीनराजकुलात् । इति ।
कात्यायनः,
दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् ।
न प्रजानुमतो यस्मादन्यायेषु प्रवर्त्तते ॥ इति ।
राज्ञोऽन्यायप्रवृत्तौ यतः प्रजानामनुमतिर्नेत्यतो राष्ट्रं न
पीडयेदितिसिद्धे येषाममात्यादीनामनुमत्याऽन्याये प्रवृत्तिस्तान्
पीडयेदेवेति ध्येयम् । यदा च परराष्ट्रं वशे कृतं तदा तद्देशा-
चारादीन् न लङ्घयेदित्याह—
याज्ञवल्क्यः,
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति
यातव्यः शत्रुर्यदि युद्धं करोति तदा तं हत्वा जित्वा
वा तत्पदे तद्वंश्यमभिषिञ्चेदित्युक्तम् । यदि च स विजिगीषुं
प्रबलं निर्णीय युद्धोपस्थितावपि सन्धि करोति तदा—

४१२ वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
इति महाभारतोक्तेरवश्यं सन्धिरेव कार्यो न पुनर्विग्रहः ।
तदुक्तम्—
मनुना,
सह वापि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥
पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाऽऽक्रन्दं च मण्डले ।
मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ इति ।
वाशब्दः पूर्वोक्तयुद्धविकल्पार्थः । प्रयत्नतो युक्तः, यातव्ये-
न प्रयत्नेन दूतप्रेषणादिना युक्तो योगं प्राप्तः सन् । सह, तेन
शत्रुणा सह । मित्रं हिरण्यं भूमिं वा त्रिविधं यत्फलं, तत् सम्पश्य-
न्,समीचीनमिति जानानः। तदन्यतरलाभे सन्धिं कृत्वा,व्रजेत्,
स्वपुरं यायात् । मण्डले द्वादशारिमण्डले । पार्ष्णिग्राहं, विजिगी-
षोः पुरतः स्थितो यातव्यः, पश्चात्स्थितः स्वशत्रुः, स्वभूम्यन-
न्तरः पार्ष्णिग्राह इत्युच्यते तम् । तथा तत्पश्चादवस्थितं त-
द्भूम्यनन्तरं स्वमित्रमाक्रन्दसंज्ञकं च । सम्प्रेक्ष्य, तद्बलाबलं
ज्ञात्वेत्यर्थः । मित्रात्, मित्रत्वं प्राप्तात् यातव्यात्, अथ वा
अमित्रात्, मैत्रीमकुर्वतो यातव्यात्, अर्थाद्विजिगीषुः यात्रायाः
फलं, शत्रुजयं, सन्धौ वा मित्रादित्रितयलाभान्यतरत्, अवाप्नु-
यात् प्राप्नुयात् ।
विष्णुः,
परेणाभियुक्तश्च सर्वात्मना राष्ट्रं गोपायेत्सर्वतश्चात्मानं
गोपायेत् । इति ।
मनुः,
क्षेमां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।

।"
Commentary:
"आषाढशुक्लपक्षः अन्ते यत्र क्रियायाम् । आषाढशुक्लपक्षपर्यन्तं राज्ञा उद्युक्तेन परराष्ट्रग्रहणोद्योगवता भाव्यमित्यर्थः । तदनन्तरं स्थानं चातुर्मास्यावस्थानयोग्यं स्थलमुपाश्रयेत् ।"
Wait! Look at the heading:
"यात्रानन्तरं चातुर्मास्य..."
If it says "चातुर्मास्यप्रासादावस्थानादि", wait, why "प्रासादा"?
Wait, could it be "चातुर्मास्ये प्रासादावस्थानादि"? No, 'चातुर्मास्य' is not 'चातुर्मास्ये', it is a compound: चातुर्मास्य-...
Wait, is it "चातुर्मास्यप्रवासावस्थानादि"?
Wait, look at the letter before 'वस्थानादि':
Is it 'द'?
Wait! Could it be "चातुर्मास्यप्राप्ताववस्थानादि"?
Let's re-read L14: "अथ युद्धार्थं प्रस्थितस्य राज्ञः परदेशे चातुर्मास्ये प्राप्ते किं कर्तव्यमित्यपेक्षायाम्—"
Notice: "चातुर्मास्ये प्राप्ते"!
"चातुर्मास्य-प्राप्तौ अवस्थानादि" -> चातुर्मास्यप्राप्ताववस्थानादि!
Wait! In Sanskrit grammar:
चातुर्मास्य