सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 401, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 401

यात्राप्रकरणे सङ्ग्रामादनिवर्तनं क्षात्रधर्मः । ४०५
१ युद्ध्येत स्यन्दनाश्वेन समेऽनूपोन्नते द्विपैः ।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥
कुरुक्षेत्रांश्च मात्स्यांश्च पाञ्चालांञ्छूरसेनजान् ।
दीर्घाल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥
प्रहर्षयेद्वलं व्यूह्य भृशार्तांश्च परीक्षयेत् ।
चेष्टांश्चैव विजानीयादरीन् योधयतामपि ॥ इति ।
मनुः,
समोत्तमाधमै राजा त्वाहूतः समरे परैः ।
न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युद्ध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥
न कूटैरायुधैर्हन्याद्युद्ध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥
मिथः परस्परं, स्पर्धमाना इतिशेषः । दिग्धैः विषाक्तैः ।
महाभारते,
राज्ञां नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः । इति ।
राज्ञोऽधिकमित्यनुवृत्तौ-
गौतमः,
सङ्ग्रामे संस्थानमनिवृत्तिश्च । इति ।
देवलः,
प्रजार्थं क्षत्रियो युद्ध्येत्स्वान् प्राणान् सम्परित्यजेत् ।
अश्वमेधफलं कृत्स्नं निसर्गेणाधिगच्छति ॥
शस्त्रेण निहतः सङ्ख्ये द्विषद्भिरपराङ्मुखः ।
१ स्यन्दनाश्वैः समे युद्ध्येदनूपे नौद्विपैस्तथा । इति मुद्रितमनु
पुस्तके पाठः ।