सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 391, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 391

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९५
दशधेनुशतानि सुशोभनं क्षेत्रं प्रत्येकं शतद्रोणमितांस्तिलांस्त-
ण्डुलांश्च सोपधानतूलिकाद्युपस्करां शय्याम् अश्वादिवाहनं
रथादियानं च आचार्यायामुकशर्मणे दक्षिणामहं सम्प्रददे
न ममेति गुरवे दक्षिणां दद्यात् । परिमाणतो मूल्यतश्चैतदर्धमि-
तानि तुरङ्गादीनि मिलितेभ्यः सर्वेभ्यो होतृभ्यस्तथैव त-
दर्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यस्तदर्धमितानि
ब्रह्मभ्यो गुरुवदेव दद्यात् । सर्वे च स्वस्त्युक्तिकामस्तुत्यादिपूर्वकं
प्रतिगृह्णीयुः । पुरोहिताय च जयाभिषेकाङ्गभूतरुद्राभिषेकप्रति-
ष्ठासिद्ध्यर्थं यथाशक्ति सुवर्णादूर्ध्वं हिरण्यं दक्षिणां दद्यात् ।
रुद्राभिषेकोपस्करं च बाणलिङ्गकलशमण्डपादिकं प्रतिपादयेत् ।
तत इतरसहायभूतब्राह्मणेभ्योऽपि यथाशक्ति सुवर्णं दक्षिणां द-
दद्यात् । दीनानाथादिभ्यश्च यथाशक्ति भूयसीम् । ब्राह्मणभोजनं
च सहस्रावरं यथाशक्ति सङ्कल्पयेत् । ततः स्थापितदेवताना-
मुत्तरपूजां कृत्वा सर्वाः प्रतिमाः कलशादिसर्वोपस्करयुताः
सोपस्करं च मण्डपद्वयमाचार्यहस्ते प्रतिपादयेत् । होमोपक-
रणानि स्रुगाज्यचरुस्थाल्यादीनि तत्तद्धोतृहस्ते, हविःशेषांश्च
तत्तद्ब्रह्महस्ते प्रतिपादयेत् । ततस्तत्तत्कुण्डस्थितानग्नीन् य-
थाविभवं गन्धादिदक्षिणान्तोपचारैः सम्पूज्य नमस्कृत्य
सर्वान् प्रदक्षिणीकृत्य "गच्छ गच्छ सुरश्रेष्ठ" इति सर्वान् वि-
सर्जयेत् । तत आचार्यादिभिः कर्मणः सम्पूर्णतामच्छिद्रतां च
वाचयित्वा राजा आचार्यादिसहितो महादेवस्य महतीं पूजां
यथाविभवं महता सम्भारेण रुद्रमन्त्रेण कृत्वा "यस्य स्मृत्या च"
इत्याद्युक्त्वा सकलस्वकीयसुहृन्मन्त्रिपरिजनादियुतो भुञ्जीत । त-
दिने च न कस्यापि निगडबन्धनादि कुर्यात्पूर्वबद्धांश्च मोचयेदिति।
इति जयाभिषेकप्रयोगः ।