सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 402, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 402

४०६ वीरमित्रोदयस्य राजनीतिप्रकाशे
शक्रलोकमवाप्नोति स्ववीर्याद्विजितं शुभम् ॥
आहवेऽभिमुखे शूरं प्रहितानि द्विषद्गणैः ।
भिन्द्युर्यावन्ति शस्त्राणि तावन्तः क्रतवोऽस्य ते ॥
क्षतेभ्यः प्रस्रुतं रक्तं क्षितिपांसुषु संस्पृशेत् ।
स देवलोके तावन्तं कालं तिष्ठति वै ध्रुवम् ॥
नास्ति राज्ञां समरतनुत्यागसदृशो धर्मः ।
गोब्राह्मणमित्रधनरक्षणार्थं मृतास्ते स्वर्गभाजः ॥
याज्ञवल्क्यः,
य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ इति ।
यमः,
क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म प्रतिष्ठितम् ।
तस्मात्पृष्ठं रणे रक्षेन्मा भवेद्ब्रह्मघातकः ॥ इति ।
पृष्ठं रणे रक्षेदित्यनेन पलायननिषेधः ।
मनुः,
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशमासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनं प्राप्तं नार्त्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ इति ।
बौधायनः,
भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर्न युध्येता-
न्यत्राऽऽततायिनः । इति ।
गौतमः,