वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 394, कुल 490 में से
संदर्भ में पढ़ें३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा ।
गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥
गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि ।
नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥
छत्रं ध्वजं पताकां च वर्म चैव महाभुज ।
आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥
तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् ।
कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥
प्रमथांश्च सहायार्थे धरणीं च महीभुजम् ।
भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥
संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् ।
रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥
रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः ।
पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥
पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् ।
पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥
दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः ।
ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥
चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः ।
मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥
आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् ।
अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥
या ओषधय इत्येवं धारयेदोषधीः शुभाः ।
नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥