सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 406, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 406

४१० वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वेषां तु विदित्वैषां सममेव चिकीर्षितम् ।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥
आदानमप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते ॥
जित्वा, परराष्ट्रं जित्वा । देवान्,धार्मिकान् ब्राह्मणांश्च, त-
देशवासिन इति शेषः । सम्पूजयेत्, यथार्हं भूमिसुवर्णदानमाना-
दिभिः सत्कुर्यात् । परिहारान्, न मया लोभाद्याविष्टेनास्य जयः
कृतः किन्त्वयमस्मानेवमेवमपकृतवांस्ततोऽस्य मया जयः कृत
इत्यादीनि स्वनिरपराधताख्यापनानि । यद्वा । परिहारान्, दा-
नानि, लब्धं च सुवर्णादिकं मया ब्राह्मणसात्कृतमित्यादिकांश्च ।
तथा स्वामिदृढभक्तैर्यैर्ममापकृतं तेषामपराधा मया क्षान्ताः
स्वस्वव्यापारमनुतिष्ठन्त्वित्यभयं च ख्यापयेत् । तदाह—
याज्ञवल्क्यः,
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ इति ।
एषां सर्वेषां,परकीयामात्यादीनाम्। चिकीर्षितम्,अभिप्रायम्।
समं,तुल्यम्। विदित्वा,ज्ञात्वा।तद्वंश्यं,सङ्ग्रामहतस्य राज्ञो वंशे भवम्।
स्थापयेत्, तत्पदेऽभिषिञ्चेत् । समयक्रियाम्, इतः परं त्वयाऽस्मा-
स्वेवं दिशा वर्तितव्यमितिसमयबन्धम् । तेषाम्, परेषां राज्ञाम् ।
यथोदितान्, यथाकुलक्रमागतान। धर्मान्, आचारान् । प्रमाणानि
कुर्वीत,शपथरूपत्वेन कारयेत् । यदि त्वमस्मात्समयबन्धाच्च्युतो
भवसि तदास्मात्कुलक्रमागताद्धर्माच्च्युतो भविष्यसीति शपथा-
न् कारयेदित्यर्थः । अथ वा । तेषां पूर्वेषां राज्ञां, यथोदितान्