सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

राज्ञो दिनकृत्यम् । १६१
नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत् ।
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ॥ इति ।
मनुः,
विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि नेजयेत् ।
नेजयेत् प्रक्षालयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंयुक्ताः संस्पृशेयुः समाहिताः ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ इति ।
तथा विष्णुः,
सुदर्शनश्च स्याद्विषघ्नागदमन्त्रधारी नापरीक्षितमुपभुञ्जीत। इति।
अगदानि औषधानि । अत्र विशेष उक्तो-
विष्णुधर्मोत्तरे,
राम उवाच ।
कल्पना भोजनीयानां गन्धानां या च कल्पना ।
[L18

१६२ वीरमित्रोदयस्य राजनीतिप्रकाशे
वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ॥
गण्डिकाभिः पलाशस्य क्षीरमावर्त्तितं द्रुतम् ।
कपित्थचूर्णयोगेन तथा चैव सुजानता ।
घृतं सुगन्धीभवति दग्धैः क्षिप्तैस्तथा यवैः ॥
पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत् ।
गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा द्रुतम् ॥
पद्मरागसमं चूर्णमंशुमत्या च जायते ।
पानकानां महाभाग यस्याप्यन्यस्य चेच्छसि ॥
क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति ।
लवणाधिकविक्षेपसञ्जातविरसं ध्रुवम् ॥
सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ।
चणकक्षारयोगेन पुष्पाणि च फलानि च ॥
सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् ।
गन्धवर्णरसाधानं पानकादिषु सर्वतः ॥
यथाकालं यथादेशं यथासात्म्यं च कारयेत् ।
नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन धमाद्यमन्नम् ।
रसेन चाप्यत्र भवेत्प्रभूतं तात्पर्यमेतत्कथितं मया ते ॥ इति।
अद्यम् अदनार्हम् । धम संयोजय । विस्तरश्चास्य सूपशा-
स्त्रादवगन्तव्यः । सविषान्नादेः परीक्षाप्रकारश्च-
मत्स्यपुराणे,
विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे ।
क्रीडानिमित्तं नृपतिर्धारयेन्मृगपक्षिणः ॥
अन्नं वै प्राक्परीक्षेत वह्नौ चान्यतमेषु च ।
वस्त्रं पात्रमलङ्कारं भोजनाच्छादने तथा ॥
नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ।

[Header] राज्ञो दिनकृत्यम् । १६३

श्यावास्यचक्रः सन्तस्रः सोद्वेगं च निरीक्षते ॥
श्यावास्यचक्रः, ईषत्कृष्णश्वेतमुखमण्डलः ।
विषदो वा विषं दत्त्वा यत्र तत्र निरीक्षते ।
स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस्तथा ॥
प्रच्छादयति चात्मानं लज्जते स्खलते तथा ।
भुवं विलिखति ग्रीवां तथा चालयति द्विज ॥
कण्डूयति च मूर्द्धानं परिलक्ष्यो नरः सदा ।
क्रियासु त्वरितो राजन् विपरीतास्वपि ध्रुवम् ॥
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ।
ततो विचारयेदग्नौ तदन्नं त्वरयाऽन्वितः ॥
इन्द्रायुधसवर्णोऽग्नी रूक्षः स्फोटसमन्वितः ।
एकवर्णोऽथ दुर्गन्धर्भृशं चटचटायते ॥
तद्धूमदर्शनाज्जन्तोश्शिरोरोगश्च जायते ।
सविषेऽन्ने निलीयन्ते न च पार्थिव मक्षिकाः ॥
विलीनाश्च विपद्यन्ते दृष्टे च सविषे तथा ।
विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम ॥
विकृतिं च स्वरो याति कोकिलस्य तथा नृप ।
गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति ॥
क्रौञ्चो मदमथाभ्येति कृक

[Header] १६४ वीरमित्रोदयस्य राजनीतिप्रकाशे

तथा भवति सास्त्रावं पक्वं पर्युषितोपमम् ॥
व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम् ।
व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदो भवेत् ॥
ससैन्धवानां द्रव्याणां जायते फनमालिका ।
रसस्य राजिस्ताम्रा स्यान्नीला च पयसस्तथा ॥
कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम ।
धान्याकस्य तथा कृष्णा कपिला कोद्रवस्य च ॥
मधुश्यावा च तक्रस्य नीलपीता तथैव च ।
घृतस्योलूकसङ्काशा कपोताभा च मस्तुनः ॥
हरिता माक्षिकस्यापि तैलस्य च तथाऽरुणा ।
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ॥
प्रस्वेदश्चैव पक्वानां माल्यानां म्लानता तथा ।
मृदुता कठिनानां च मृदूनां च विपर्ययः ॥
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता ।
श्याममण्डलता चैव वस्त्राणां च विशेषतः ॥
लोहानां च मणीनां च मलपङ्कोपदिग्धता ।
अनुलेपनगन्धानां सूनानां च नृपोत्तम ॥
विगन्धता च विज्ञेया पर्णानां म्लानता तथा ।
एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम ॥
तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधागदैः ।
उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः ॥
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्वृद्धिमुपैति राज्यम् ।
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र॥इति
सूनानां प्रसूनानाम् । अगदैः संरक्षितः सदा तिष्ठेदित्युक्त-
म्, तत्र कान्यगदानीत्यपेक्षायाम्-

राज्ञो दिनकृत्यम् । १६५
विष्णुधर्मोत्तरे,
राम उवाच ।
रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा ।
अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥
पुष्कर उवाच ।
बिल्वाढकीयवक्षारपाटलावाल्हिकोषणाः ।
श्रीपर्णीशल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ॥
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् ।
यवसेन्धनपानीयवस्त्रशय्यासनौदनम् ॥
कवचाभरणच्छत्रवालव्यजनमेव च ।
यवसं तृणमर्जुनम्, तदादि वेश्मान्तं बिल्वादिकार्थैः प्रोक्षि-
तं सद्यो निर्विषं भवति ।
शेलूपाटलयतिविषाशिग्रुगोभीपुनर्नवाः ।
समङ्गावृक्षमूलत्वकपित्थं वृषशोणितम् ॥
सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम् ।
लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गासहरेणुकाः ॥
सपथ्याह्वा मधुयुता बभ्रुपित्तेन कल्किताः ।
निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले ॥
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।
संस्पृष्टः सविषस्तेन सद्यो भवति निर्विषः ॥
मनोव्हाऽऽलक्ष्मीपुष्पस्त्वङ्गङ्गाश्वेतसर्षपाः ।
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥
शुनो गोः कपिलायाश्च सौम्याख्योऽयं परोऽगदः ।
विषजित्परमः कार्यो मणिरत्नं च पूर्ववत् ॥

१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
पूर्ववत्, “ततः कृत्वा मणिं हेम्ना” इत्यादिप्रकारेण ।
मूषिका जीरका वापि हस्ते बद्धा विषापहा ।
हरेणुमांसीमञ्जिष्ठारजनी मधुकं मधु ॥
अक्षत्वक्सुरसा चापि श्वपित्तं पूर्ववन्मणिः ।
वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ॥
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ।
त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ॥
सूक्ष्मैला त्रिवृतापत्रविडङ्गानीन्द्रवारुणी ।
मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत् ॥
तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा ।
विषं मुक्तं जरां याति निर्विषेऽपि न दोषभाक् ॥
सक्तुसर्जरसोशीरसर्पषापत्रवालकैः ।
सवेल्लारुष्करखुरैः कुसुमैरर्जुनस्य च ॥
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् ।
न तत्र कीटाः सविषा दर्दुरा न सरीसृपाः ॥
न कृत्याः कार्मणा याश्च धूपोऽयं यत्र दह्यते ।
कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ॥
मूर्वैलवालुसुरसानाकुलीतन्दुलीयकैः ।
क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्वृतः ॥
रोचनापत्रनैपालीकुङ्कुमैस्तिलकं वहन् ।
विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः ॥
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बकैः ।
दिग्धं निर्विषतामेति गात्रं सर्वविपार्दितम् ॥
शिरीषस्य फलं पत्रं पुष्पं त्वङ्‌मूलमेव च ।
गोमूत्रपिष्टं ह्यगदः सर्वकर्मकरः स्मृतः ॥ इति ।

मणयो मन्त्राश्चागदाः प्रसिद्धास्तत्सङ्ग्रहं च कुर्यात् । एव-
मादिभिर्निर्विषमन्नं निर्णीय भुञ्जीत ।
तथा तत्रैव,
भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेत्ततः ।
शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत् ॥ इति ।
मनुः,
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥
अलङ्कृतस्तथा पश्येदायुधीयं पुनर्जनम् ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ इति ।
याज्ञवल्क्यः,
हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत्ततः ।
पश्येच्चारांस्तथा दूतान् प्रेषयेन्मन्त्रिसङ्गतः ॥
हिरण्यं हिरण्यादिधनम् । व्यापृतानीतं, व्यापृतैराकरादि-
द्रव्यार्जनस्थानेषु नियुक्तैरानीतम् ।
ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥
सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतैर्नृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥ इति ।
भुक्त्वा यथेच्छमङ्गनाभिः सह क्रीडेत, कार्यवशान्मन्त्रिभिर्वा
समागतो भवेत् । बलानां हस्त्यश्वादीनाम् । सेनान्या चमूपतिना
सह बलविषयमर्थं च चिन्तयेत् । सन्ध्यां, सायंसन्ध्याम् । गीतं
नृत्यं च श्रुत्वा भुक्त्वा वेदं पठेत् । अत्र विशेषान्तरमाह —
मनुः,
सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।

१७० वीरमित्रोदयस्य राजनीतिप्रकाशे
अभयैरपराजितैरायुष्यैः स्वस्त्ययनैरप्रतिरथेनेति च हुत्वा संस्थाप्य
“अग्नेरदोसि” इत्यहतवासोभिः प्रच्छाद्य रसैः कुम्भानौदुम्बरान्
पूरयित्वा प्रतिदिशमवस्थाप्य, “ममाग्ने वर्चो” “अभयं द्यावापृ-
थिवी” “उदुत्तमं वरुण” “अश्विना ब्रह्मणायतम्” इति जुहुयात् ।
पौर्णमासीप्रथमेति च जुहुयात् दुन्दुभिमाहन्यादित्युक्तम् । “उप-
श्वासय पृथिवीम्” इति तत्रैवानुमन्त्रणं च । सर्वाणि च वादि-
त्राणि वाहनानि च “जनस्यास्मान् प्रहर्षय” पश्चमीं प्रतिष्ठापये-
त् । “न तं यक्ष्मा एतु देव” इति गुग्गुलुकुष्ठधूपं दद्यात् । “यस्ते
गन्धस्त्रयायुषम्” इति भूतिं प्रयच्छेत् । “दूष्या दूषिरसि” इति
प्रतिसरं बद्ध्वा “वातः पुरस्तात्” इति प्रतिदिशं क्षिपेत् । बहिर्नि-
सृत्योत्तरेण गत्वा वाह्येनोपनिष्क्रम्य सुहृदे कुर्याच्छ्रद्धते कुर्या-
द्वाहनानामभयं कर्म्म ।
तन्त्रमित्युक्तां शान्तिं, ‘तन्त्रभूतां महाशान्तिं प्रवक्ष्याम’
इत्यादिनाक्ताम् । दूषणेन, ‘दूष्या दूषिरसि’ इतिसूक्तेन । निः-
सालां, ‘निःसालां धृष्णुं धिषणम्’ इतिसूक्तम् । प्रतिसरं, हस्ते
तन्तुमयं कङ्कणम् ।
अथाश्वयुजे मासे पूर्णमास्यामपराह्ने हस्तिने नीराजनं कुर्यात्।
प्रागुदक्प्रवणे देशे यत्र वा मनो रमते । “गिरयस्ते पर्व-
ता” इत्येतया हस्तशतमर्द्धं वा मण्डलं परिगृह्य “याभिर्यज्ञम्”
इति सम्प्रोक्षेत् । तत्र श्लोकाः—
दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् ।
शान्तिवृक्षमयं कुर्यात्तोरणं पुष्टिवर्द्धनम् ॥
शुक्लैः शुक्लाम्बरध्वजैर्माल्यैश्च परिभूषितम् ।
कारयेद्विले शुभ्रे रसैश्च परिपूरिते ॥
रसैस्त्वामभिषिञ्चामि भूमे मह्यं शिवा भव ।

राज्ञो वर्षकृत्यम् । १७१

असपन्ना सपत्नश्रीर्मम यज्ञविवर्द्धनी ।
इमं स्तम्भूभृतांतवक्तावुभौ मा यससावतात् ॥ ?
यो मा कश्चाभिदासति तमिमौ भूमिर्दहतामित्यु-
च्छ्रयस्व “इमाया ब्रह्मणस्पत” इति । एताभ्यामुच्छ्रयीणि मा-
लापताकैस्तम्भान् संयोष्य तस्यां चतुर्हस्तां वेदिं कृत्वा दर्भ-
पवित्रपाणिर्बलिं पुष्पाणि च दत्त्वा मधुना मिश्रैः स्वस्तिकं स-
यावकदधिकृशरापूपकान् पायसं घृतं विविधपानभक्षफलैरग्निं
परिस्तीर्य “आपोऽस्मान्मातरः सूदयन्तु” इति चतुरौदुम्बरान्
कुम्भान् ह्रदोदकेन पूरयित्वा प्रतिदिशमवस्थाप्य दध्यात् रौद्रा-
ग्नेयवासव्यवारुणा मन्त्राः । रक्षोघ्नं कृत्वा दूषणं यशस्यवर्चस्या-
नि च हुत्वौषधिं समादाय द्विहस्तं मण्डलमित्युक्तम् । तत्र
श्लोकः-
बृहत्कण्टारिकण्टकालघुकण्टारिकाः स्मृताः ।
सुवर्णपुष्पी श्वेतगिरिकर्णिका ह्युदिसत्त्वा ॥ ?
सिंही व्याघ्री हिरण्यवर्णामपराजिता पृश्निपर्णी दूर्वा पद्म-
मुन्मत्तमालिनीं तामनुमन्त्रयते । वैणवं कटमवस्थाप्यादध्यात् ।
द्वैपवैयाघ्रानडुच्चर्म्म परिस्तीर्य ततो या स्यादधिदेवता तस्यै बलिं
दत्त्वा पिण्डानि च दद्यात् । हस्तिनमाचामयेत् । यस्यां दिशि
रिपुर्न भवति तां दिशं गत्वा हस्तिनमानयेद्धिरण्येने रजतेन
वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणा कुष्ठेन नलदेन
रोचनेनाञ्जनेन मनःशिलया पद्मकुमुदोत्पलैः “ममाग्ने वर्च” इति
सूक्तं दक्षिणोत्तरमुखं प्रतिजपेच्छेषेण गात्राण्यभ्यञ्जयेत् । तत्र
श्लोकः-
हस्तिनां रक्षणे दण्डः कर्त्तव्यो वैणवो नवः ।
षोडशारत्निमात्रस्तु चारुपर्वा मनोरमः ॥

१७२ वीरमित्रोदयस्य राजनीतिप्रकाशे
तेन वारणान् वारयेत्। दन्ताग्रेषु तृणानि कृत्वा “यथा हव्यं
वहसि ग्रससि तं जातवेदसम्"इत्यग्निं प्रज्वालयेत्। “सुजातं जात-
वेदसम्" इति वाचयेद् “यथा हव्यम्" इति नीराजयित्वा। “निधिं
बिभ्रति" इति शालां प्रवेशयेदनपेक्षमाणाः स्वानि स्थानानि
व्रजन्ति दीर्घायुषो बलवन्तश्च भवन्ति । गोसहस्रं कर्त्रे दक्षिणा
ग्रामवरं च ।
‘निधिं बिभ्रति बहुधा गुहासु' इतिसूक्तं पठित्वा शालां
प्रवेशयेत् ।
इति हस्त्यश्वदीक्षा समाप्ता ।
परिशिष्टद्वयम्—
अथ वर्षशतं प्रवर्द्धमानो राजानमभिवर्द्धयिष्यन् संवत्सरे
जन्मदिने कुर्यात् । तन्त्रमित्युक्तं,“पुनन्तु मा वायोः पूतो वैश्वा-
नरो रश्मिः” इति । पवित्रैः पुण्याहादीनि च मङ्गलैर्यजमानं च
सम्प्रोक्ष्य “यदा बध्नन्” इति पुष्पाद्यलङ्कारमावर्ज्जयित्वा मा-
हेन्द्रं चरुं श्रपयेत् । लोकपालेभ्यश्च द्वितीयं चरुं श्रपयेत् ।
“महां इन्द्रो य ओजसा” इति द्वयौ हुत्वा इन्द्राय स्वाहेत्या-
दिलोकपालांश्चेष्ट्वा राजानमन्वालभ्य आदिवज्जुहुयात् “अर्वा-
ञ्चमिन्द्रः सुत्रामेममिन्द्र वर्द्धय क्षत्रियं मे शतं जीवन्तु शरद”
इति । “रक्षन्तु त्वाग्नय” इति चतसृभी रक्षां कृत्वा रोचनया
अलङ्कुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा “मानायीतन्तुम्” इति सूक्तेन
रक्षासूत्रं सम्पातं च कृत्वा “धाता ते ग्रन्थिम्” इति बध्नाति ।
उत्तरं तन्त्रं हिरण्यं दक्षिणा ॥ १ ॥ महानवम्यां हस्त्यश्वदीक्षा
प्रतिपत्प्रभृति नवरात्रं शस्त्रसत्त्वसम्पातः । तृतीयायां हस्त्यश्वानां
कर्म्म,सप्तम्यां हस्त्यश्वानां दर्शनम्, अष्टम्यामथ पिष्टमयीमित्या-
दि,नवम्यां दुर्गापूजनम् अथ नवम्यामित्यादि नवम्याम् । अथा-

पराजितदशम्यां पूर्वाह्ने विजयमुहूर्त्ते उक्तं प्रास्थानिकम् ।
एतानि खलु प्राग्द्वाराणि इत्यादि “स्वस्तिदा ये ते पन्थान”इ-
त्यादि नक्षत्रहोमश्च अथ श्रवणे नक्षत्रे अथ राज्ञामिन्द्रमहस्येति
व्याख्यातः । अथ पौर्णमास्यामपराह्ने पूर्णमासिकं कर्म्म ।
अथापामार्गत्रयोदश्यां श्वेते मुहूर्त्ते स्नानं कृत्वा अपामार्गं त्रिः
परिभ्रामयेद्राज्ञ उपरि मन्त्रेण, “ईशानां त्वा भेषजानाम्” इति
त्रिभिः सूक्तैः “प्रतीचीनफल” इति सूक्तेन वा पुनः स्नानम् ।
तत आरात्रिकं परिधत्तेतिद्वाभ्यामितिसमानम् । अथ दीपोत्सवं
प्रतिपदि हस्त्यश्वादिदीक्षादिसमानमभ्यातानान्तं कृत्वा “येस्यां
प्राची दिक्”इति “मानो देवा” “यस्ते सर्प” इत्येतैः सूक्तैः
तृणानि युगतद्वाना सम्पातवन्ते गवां च प्रातितमिमधानाश्ने
हस्त्यश्वादियुगपत्तन्त्रं समानं धेनुर्दक्षिणा । अथाक्षयनवम्यां
रात्रौ हस्त्यश्वादीनामनीकानां रथस्य परहोमश्च । अथ वि-
ष्णुद्वादश्यां पुरोहितः पश्चिमां सन्ध्यामुपास्य गृहीतदर्भो यत्र
राजानमभिगम्य पौष्टिकहोमश्च रात्रौ नीराजनं कृत्वा हस्त्य-
श्वेभ्यश्च । अथ कार्त्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां
वृषोत्सर्गः। अथाग्रहायणीपौर्णमास्यां तन्त्रं कृत्वा पादाग्रेतिद्वाभ्यां
रसं सम्पात्याभिमन्त्र्य राजानं प्राशयेत् । अथ पौष्यां पौर्ण-
मास्यामुक्तः पुष्याभिषेकः । अथ फाल्गुन्यां पौर्णमास्यां रात्रौ
होलिका । महानवम्यामुक्तप्रज्वलनं नीराजनं वा । अथ ग्री-
ष्मप्रतिपद्यायुष्मते स्नानं कृत्वाऽपां सूक्तैराप्लुत्य प्रदक्षिणमा-
वृत्याऽप उपस्पृशेदित्युक्तम् । अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं
त्रिरात्रमश्नातीत्युक्तम् । अथ मदनत्रयोदश्यां वैशाख्यां पौर्ण-
मास्यां मध्याह्ने गर्ते वाप्यां पुष्करिण्यां घटे वा सर्वगन्धान् प्र-
क्षिप्य प्राक्तन्त्रमभ्यातानान्तं कृत्वा “सिंहे व्याघ्रे” “यशोहविः”

१७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
“प्रातरग्निं”’“गिरावर्गराटेपु’”’“दिवस्पृथिव्या’’इत्येतैः सूक्तैरुद-
कं सम्पात्याभिमन्त्र्य राजानं स्नापयेत् प्रविश्य प्रोक्षति च तन्त्रं
संस्थापयेद्धेनुर्दक्षिणा । अथ श्रावण्यां पौर्णमास्यां विजयमुहूर्त्ते
“रक्षन्तु त्वाग्नय” इति रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोप-
निष्क्रम्येतिपैठीनसिः । अथ आदित्यदिने आदित्यमण्डलो
व्याख्यातः । अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः।
अथ राजकर्माणि प्रतिनक्षत्रं कर्त्तव्यानीत्यायुधायाश्वप्रभृत्या-
दीनि विभृयादिति । कृत्तिकारोहिण्यादीनि व्याख्यातानि ।
इन्द्रोत्सवे इन्द्रोत्सवो व्याख्यातः । प्रतिदिनं ग्रहयागः । प्रतिदिनं
नक्षत्रयागः । प्रतिदिनं दशगुणी महाशान्तिः । प्रतिस्थानं
कृत्तिकारोहिण्यौ व्याख्याते । नक्षत्रस्नानानि नक्षत्रदक्षिणाश्च ।
राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा ।
इति राज्ञो वर्षकृत्यम् ।
अथ सहायाः ।
अभिषेकानन्तरं राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्-
मत्स्यपुराणे,
मनुरुवाच ।
राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत् ।
एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥
मत्स्य उवाच ।
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन ।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किमु राज्यं महोदयम् ॥
तस्मात्सहायान् वरयेत्कुलीनान्नृपतिः स्वयम् ।

राज्ञः सहायाः । १७५
शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान् ॥
रूपसत्त्वगुणोपेतान् संयतान् क्षमयाऽन्वितान् ।
क्लेशक्षमान् महोत्साहान् धर्मज्ञांश्च प्रियंवदान् ॥
हितोपदेशकाञ्ज्ञाज्ञः स्वामिभक्तान् श्रियान्वितान् । इति ।
विष्णुधर्मोत्तरे,
साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः ।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥
पारिपार्श्वकाः निकटवर्त्तिनः। तांश्च नित्यं परीक्षेदित्युक्तम्-
तत्रैव,
परीक्षेतप्रत्यहं भृत्यानामैश्वारैर्नराधिपः ।
समानशीलैर्विश्वस्तैर्विदृणोति मनोगतम् ॥ इति ।
बालिशादीनपरीक्षितांश्च न कुर्यादित्युक्तम्-
तत्रैव,
न बालिशा न च क्षुद्रा नाप्रज्ञा नाजितेन्द्रियाः ।

१७६ वीरमित्रोदयस्य राजनीतिप्रकाशे
गरुडपुराणे,
भृत्याश्च त्रिविधा ज्ञेया उत्तमाधममध्यमाः ।
नियोक्तव्या यथार्हेषु त्रिविधेषु च कर्मसु ॥ इति ।
मत्स्यपुराणेऽपि,
गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ।
कर्मस्वेव नियुञ्जीत यथायोग्येषु भागशः ॥
अत्रायं वाक्यार्थः । यदि मौलाः कुलीना अपि तथा पि-
तृपैतामहपदयोग्यगुणहीनास्तांस्तथाविधगुणहीनानपि विज्ञाय
यथायोग्येष्वेव कर्मसु स्वयं भागशः कर्मविभागेन नियुञ्जीत, न
तु तत्तत्पितृपैतामहपदेषु, तत्र तत्र तेषामयोग्यत्वात् । यथायो-
ग्येषु कर्मसु नियुञ्जीतैवेति वा वाक्यार्थः । तेषामवश्यभरणीया-
नामभरणे तेषां च राजान्तराश्रयणे महादोषः स्यात् । भृत्याना-
मवश्यं परीक्षा कार्येत्युक्तम्—
गरुडपुराणेऽपि,
यथा चतुर्भिः कनकं परीक्ष्यते तुला कष च्छे द न ता प ने न ।
तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा॥
इत्यादिवचनैः परीक्षितास्तत्तत्कर्मसु नियोज्याः । एते एव
च सहाया इति व्यपदिश्यन्ते । ते च द्विविधा राज्याङ्गोपकारका
राजाङ्गोपकारकाश्च । ते च प्रत्येकं द्विविधा दृष्टार्था अदृष्टार्थाश्च ।
दृष्टद्वारकोपकारकारित्वेन दृष्टार्थत्वम्, अदृष्टद्वारकोपकारित्वेन
चादृष्टार्थत्वं द्रष्टव्यम् । यद्यप्युभयाङ्गोपकारित्वेन चोभयत्रापि
त्रैविध्यं वक्तुमुचितं तथापि भूयस्त्वात्तद्व्यपदेश इति न्यायेन द्वै-
विध्यमेव न्याय्यम् । अन्यथा वक्ष्यमाणानामामात्यादी-
नां राजाङ्गोपकारित्वेन द्वैविध्यमपि न स्यात् । न चेष्टापत्तिः,

राजसहायेष्वमात्यलक्षणम् । १७७
उपधेयसङ्करेऽप्युपाधेरसङ्करात् । तत्र राज्याङ्गोपकारका दृष्टार्था
अमात्यसेनापतिप्रभृतयः, अदृष्टार्थाश्च वक्ष्यमाणब्राह्मणामा-
त्यप्रभृतयः । राजाङ्गोपकारकाश्च दृष्टार्थाः प्रतीहारसूदप्रभृत-
यः, अदृष्टार्थाश्च पुरोहितप्रभृतयः । एते च यथायथं स्वस्वबु-
द्धया परिच्छिद्य पृथक्पृथङ्गिरूपणीयाः । तत्रामात्याः । तत्र—
महाभारते राजधर्मे,
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
धर्मनित्यं स्थितं नीत्यां मन्त्रिणं पूजयेन्नृपः ॥ इति ।
याज्ञवल्क्येऽपि,
स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् ।
तैः सार्द्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ इति ।
स, उक्तलक्षणो राजा । मन्त्रिणः कार्याकार्यविदः । प्राज्ञान्
ऊहापोहसमर्थान्। मौलान् स्ववंशपरम्परायातान्। स्थिरान्, स्वा-
मिहितेष्वचञ्चलान् । शुचीन्, उपाधिरहितान् । प्रकुर्वीत, प्रयत्ना-
दुपाददीत । राज्यं, राजकर्म षाड्गुण्यं, तदङ्गानि स्वाम्या-
दीनि च । चिन्तयेत्, हेयोपादेयतया विचारयेत् । अथ विप्रेण,
विप्रामात्येन सह विचारयेत् । तदनन्तरं स्वयमेवार्थं साध-
कबाधकप्रमाणवत्तया निश्चिनुयात् । कल्पतरुणा नराधिप
इत्यनुवृत्तौ–सन्मन्त्रिण इति पाठो लिखितः। तेषां गुणान्तराणि
सङ्ख्यां चाह–
मनुः,
मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् ।
सचिवान् सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥
लब्धलक्षान् परिदृष्टकर्मणः ।
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ।
२३

[Page Header: १७८ वीरमित्रोदयस्य राजनीतिप्रकाशे]

विशेषतोऽसहायेन किमु राज्यं महोदयम् ॥
तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् ।
समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।
तेन सार्द्धं विनिश्चित्य ततः कार्यं समाचरेत् ॥ इति ।
राजगुणानुवृत्तौ कात्यायनोऽपि,
एतैरेव गुणैर्युक्तममात्यं कार्यचिन्तकम् ।
ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्भवम् ॥
मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः ।
राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः ॥
न तस्य वचने कोपमेतेषां तु प्रवर्तयेत् ।
यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥ इति ।
प्रियवादिनः असत्यप्रियवादिनः । मन्त्रिणो यत्र, राज्यकृ-
त्येषु, प्रियवादिनस्तत्र पार्थिवो राज्याद्धीयेत । सभ्याः प्राय-
श्चित्तादौ, तत्र धर्मात् । वैद्याश्चिकित्सायां, तत्र सुखात् । तस्य
न्याय्यस्य ।
पाराशरे,
अमात्यान्मन्त्रिणो दूतान् यथोदितपुरोहितान् ।
प्राड्विवाकं सभास्तारान् हितानारक्षकानपि ॥
इत्यादिना सप्त पञ्च वा यथोक्तगुणविशिष्टा मौला अ-
मात्याः कर्तव्याः । एकश्च राजगुणसमानगुणो ब्राह्मणोऽमा-
त्यः कर्तव्यः। एते चामात्या मन्त्रिपदव्यपदेशभाजोऽपीत्युक्तम् ।
इत्यमात्याः ।

राजसहायेषु सेनापत्यादिलक्षणम् । १७९
अथ सेनापतिः ।
तत्र मत्स्यपुराणे,
कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः ।
हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषितः ॥
निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सते ।
कृतज्ञः कर्मणां शूरस्तथा क्लेशसहो ऋजुः ॥
व्यूहतन्त्रविधानज्ञः फल्गुसारविशेषवित् ।
राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा ॥ इति ।
व्यूहतन्त्रविधानज्ञः, व्यूहाश्चक्रदण्डगरुडाद्याकाराः से-
नासन्निवेशास्तेषां तन्त्रं तत्प्रतिपादकं शास्त्रं विधानं रचनं च
तज्जानाति तादृशः ।
इति सेनापतिः ।
अथ राज्याध्यक्षः ।
गरुडपुराणे,
कुलशीलगुणोपेतः सत्यधर्मपरायणः ।
रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ इति ।
इति राज्याध्यक्षः ।
अथ रत्नपरीक्षकः ।
गरुडपुराण,
मूल्यरूपपरीक्षाकृद्भवो¹ रत्नपरीक्षकः । इति ।
रत्नजातयस्तत्परीक्षाप्रकाराश्च लक्षणप्रकाश एव निरूप-
यिष्यन्त इति नेह निरूप्यन्ते ।
इति रत्नपरीक्षकः ।
१ अत्र उत्त्वमार्षम् ।

१८० वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ प्रतीहारः ।
विष्णुधर्मोत्तरे,
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।
चित्तग्राही च सर्वेषां प्रतीहारो विधीयते ॥ इति ।
गरुडपुराणेऽपि,
इङ्गिताकारतत्त्वज्ञो धनवान् प्रियदर्शनः ।
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ इति ।
इति प्रतीहारः ।
अथ दूतः ।
मत्स्यपुराणे,
यथोक्तवादी दूतः स्याद्देशभाषाविशारदः ।
सूक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥
विज्ञाय देशं कालं च यद्धितं स्यान्महीक्षितः ।
वक्ता तस्या१पि यः काले स दूतो नृपतेर्भवेत् ॥ इति ।
गरुडपुराणेऽपि,
बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः ।
कूरो यथोक्तवादी च एष दूतो विधीयते ॥ इति ।
बुद्धिः निश्चयात्मिका । मतिः, प्रज्ञा शीघ्रग्राहिणी ।
इति दूतः ।
अथ रक्षिणः ।
मत्स्यपुराणे,
प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः ।
राज्ञा तु रक्षिणः कार्याः सदा क्लेशसहा हिताः ॥ इति ।
इति रक्षिणः ।
१ नयस्य इति मुद्रितमत्स्यपुराणे पाठः ।

ताम्बूलधार्यादिलक्षणानि । १८१
अथ ताम्बूलधारिप्रभृतीनां लक्षणानि ।
मात्स्ये,
अनाहार्यो ऽनृशंसश्च दृढभक्तिश्च पार्थिवे ।
ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥
अनाहार्यः, द्रव्यादिदानद्वारा परैरभेद्यः ।
तथा,
पुरुषस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः ।
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥
शूरश्च बलयुक्तश्च गजाश्वरथकोविदः ।
धनुर्द्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः ॥
तथा,
षाड्गुण्यविधितत्त्वज्ञो देशकालविशारदः ।
सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥
सन्धिविग्रहयानासनद्वैधीभावसंश्रयाः षाड्गुण्यं, तस्य
विधेः प्रकारस्य तत्त्वं जानाति सः ।
तथा,
निमित्तशकुनज्ञानी हयाशिक्षाविशारदः ।
हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥
बलाबलज्ञो रथिनः स्थिरदृष्टिः प्रियंवदः ।
शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥
अनाहार्यः शुचिर्दक्षश्चिकित्सितविदां वरः ।
सूपशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ॥ इति ।
अनाहार्यः परैरभेद्यः ।
सूपकारलक्षणम्--

१८२ वीरमित्रोदयस्य राजनीतिप्रकाशे
गरुडपुराणे,
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यपाचकः ।
शौचयुक्तः सदाचारः सूपकारः स उच्यते ॥ इति ।
शास्त्रज्ञः, नलभीमसुषेणादिकृतसूपशास्त्रज्ञः । “आर्द्रकं गु-
डसंयुक्तं” “ताम्रपात्रे स्थितं गव्यम्” इत्यादिनिषिद्धज्ञानाय
धर्मशास्त्रज्ञश्च ।
मत्स्यपुराणे,
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।
सर्वे महानसे धार्या नीचकेशनखा नराः ॥ इति ।
धर्माध्यक्षलक्षणम्—
गारुडे,
समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः ।
शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ इति ।
मात्स्ये,
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ।
विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥
कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ।
सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥
लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै । इति ।
गरुडपुराणे,
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः ।
सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ इति ।
मत्स्यपुराणे,
शीर्षोपेतान् सुसम्पूर्णान् शुभश्रोणिगतान् समान् ।
अक्षरान् वै लिखेद्यस्तु लेखकः स वरः स्मृतः ॥