सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ३ )
काव्य सर्वत्र पाठ्यपुस्तकत्वेन नियोजित दृश्यते । स्वभावत एवाकिञ्चनाना
संस्कृतच्छात्राणा सम्पूर्णमहाकाव्यक्रये धनबाधा मा भूदिति धिया सप्तसर्गान्तिभागो
बुद्धया पृथक् प्रकाशित ।
अस्य महाकाव्यस्य महत्त्व किमु वर्णनीयम् । विविधच्छन्दसामलङ्काराणा
नूतनोत्प्रेक्षाणा गभीरध्वनीनाञ्चाऽऽकरेऽस्मिन् महाकाव्ये कालिदासभारव्याद्यपर-
कीर्तिमतो महाकवीना पदे पदे रमरण भवतीत्येत्काव्यानुशीलनचणाना
नाऽविदितम् । रसमाधुरीप्रवाहपरम्पराणा निधिरूपमेतन्महाकाव्य ब्रह्मास्वाद-
सहोदरानन्द समर्प्य हर्षयंत्येव पाठकान् । ऐतिहासिकमिद महाकाव्य सस्कृत-
विद्वांस ऐतिहासानभिज्ञा इति पाश्चात्याना सबलमाक्षेप दूरत एव शतधा करोति ।
ऐतिहासिके काव्ये भूगोलस्य ज्ञान सापेक्षम् । अतोऽत्र तात्कालिक-भारत-
मानचित्र प्रकाशितम् । तेन चरितनायकस्य विजययात्रासु भारते कुत्र कुत्र
गमन जातमिति छात्राणा सुस्पष्ट भवेत् ।
विद्यार्थिना सौकर्यार्थमत्र परिशिष्टेषु प्रधाननाम्नामनुक्रमणिकाऽकारादिक्रमेण
सप्तसर्गान्तर्गतश्लोकसूची सूक्तिसग्रहश्च सकलिता । तत्रैव ग्रन्थनायक ग्रन्थ-
ञ्चाऽवलम्ब्याऽद्यावत्प्रकाशिताना लेखाना पुस्तकानाञ्च सूची संयोजिता । येन
सोभाग्यात्सस्कृतछात्रेषु येषाञ्चिदस्मिन्विषये विशिष्टाध्ययने नवीनाविष्करणे
चैच्छा जागर्ति चेत्तेषामायासमन्तरेव सर्वं पूर्वजात विदित भवेत् ।
टीकालेखने श्रीमत्ता पण्डितवर्याणा श्री रामकुवेरमालवीयाना साहाय्य प्रत्येक
सर्गान्ते प्रेम्णा स्वीकृतमेवेति ते धन्यवादार्हा । श्रीमन्त पूज्यवर्येभ्य श्री बलदेवो-
पाध्यायेभ्य एम् ए साहित्याचार्येभ्यो हिन्दूविश्वविद्यालयीय-भारतीविद्यालया-
(College of Indology) ध्यापकेभ्य सहस्रशो धन्यवादा वितीर्य्यन्ते । यैर्भाषा-
टीकायामन्यत्र च यथोचितपरामर्शप्रदानेन परमनुगृहीतोऽहम् । श्री प. राज-
नारायणशर्माणो हिन्दू विश्वविद्यालयीय संस्कृतमहाविद्यालयव्याकरणविभागाध्यक्षा
धन्यवादेरभिनन्द्यन्ते । यैस्सहर्षं सर्वदय कठिनाप्रयुक्तशब्दसिद्धौ स्वानुपमशब्द-
शास्त्रज्ञानेन शब्दसिद्धिं ससाध्य महानुपकार कृत । श्रीमन्तो वटुकनाथशास्त्रि-
खिस्ते-महोदया एम् ए साहित्याचार्या राजकीयसस्कृतमहाविद्यालयसाहित्यशास्त्रा-
ध्यापका साशीर्वाद् धन्यवादानर्हन्ति । यैरामूलचूल सस्कृतहिन्दीव्याख्यासहित
लेखरूपमिद निभाल्य बहुषु स्थलेषु विशेषतोऽलङ्कारनिवेशे कविमात्रगम्यदुरूह-
विचाराणा निर्देशं कुर्वद्भिरस्य गुणाधिक्यमुत्पादितम् । विद्याधुर्य्यतो विनायक-

( ४ )
जोशीति नामधेयस्य लेखनकार्य साहाय्यमपि न विस्मरणीयम्, जगज्जनन्यनुग्रहात्
स चिरं जीयात् । प्रकाशका श्री रामकृष्णदासमहोदया साशीर्वादधन्यवादयोग्या ।
मै हिन्दूविश्वविद्यालयीयविविधकार्यभाराग्महता विलम्बेनाऽपि भवतु, चतुर्वारमपि
संशोधनार्थं प्रार्थितं प्राथमिकपत्रं (Proof) मस्थलितरूपेणाऽस्मत्सविधे संप्रेष्य
स्वकर्तव्यपरायणता प्रकटिता । धीमद्भूयो डा० जॉर्ज ब्यूह्लर, के कृष्णम्मा-
चारियर, ए बी कीथ, रामनाथ दीक्षित, महावीर प्रसाद द्विवेदी, कल्हण,
शास्तिमुरारीलाल-नागरप्रभृतिभ्यः सर्वेभ्यो मान्येभ्यो लेखकेभ्यस्तेषां पुस्तक-
हेलावलोकनेन बहुश उपकृतत्वात् धन्यवादान् समर्पयामि । अन्ये च चरित-
चन्द्रिकाटिप्पणीकारा, ये केऽपि ते भवन्तु मम हार्दिकान् धन्यवादानर्हन्ति ।
एतेषां टिप्पण्या टीकालेखने महती सहायता जातेत्यमाय निरूप्य विरमाम्यति-
विस्तरात् ।
वाराणसी
विजया दशमी
संवत् २०१४ वै०
विश्वनाथशास्त्री
भारद्वाजः
सम्पादक

॥ श्री ॥
श्री काशी हिन्दूविश्वविद्यालयकुलपतिः
श्री डा० वेणीशङ्कर झा
पीयूषप्रतिमं रसायनमिदं वाग्देवताया नवं
काव्यं विल्हणनिर्मितं विवरणं नाम्ना “रमाख्यं” दधत् ।
वेणीशङ्कर झा ! मनीषिमुकुटालङ्कार ! युष्मत्करा-
म्भोजं बिन्दतु रत्नकाञ्चनसमाश्लेषः समुन्मीलतु ॥
समर्पयिता
भारद्वाजो विश्वनाथशास्त्री

॥ श्री ॥
॥ श्री गणेशाय नम ॥
॥ श्री सङ्कष्टनाशिन्यै नमः ॥
—भूमिका—
अयि सुरसरस्वतीपरिचरणपरा शास्त्रधुरन्धरा विपश्चिद्वरा महानुभावा !
प्रथितयशस्सु तत्रभवत्सु न ह्येतत्तिरोहितं यद्वाङ्मये काव्यस्य कीदृश महित-
मास्पदमिति ।
काव्यं नाम लोकोत्तरवर्णननिपुणकविकर्म । कवेर्भावः कर्म वा काव्यमी-
दृश्या व्युत्पत्त्या कविशब्दात् "गुणवचनब्राह्मणादिभ्यः कर्मणि" चेति सूत्रेण ष्य-
ञ्प्रत्यये कृते काव्यपदसिद्धिरिति वैयाकरणी प्रसिद्धिः । कवते (वर्णयति), कौति,
कुवते (शब्दायते) वेति कविः । "कुङ्" शब्दे इति भौवादिकात्तौदादिकाद्वा
"कु" शब्दे इत्यादादिकाद्वा धातोः "अपि इ" इति सूत्रेणेप्रत्यये कृते कविपद-
निष्पत्तिरिति शाब्दिकी व्युत्पत्तिः । निरुक्ते (१२-१३-१) यास्काचार्येण
कविशब्दस्य मेधावीत्यर्थं प्रतिपाद्य 'कविः क्रान्तदर्शनो भवति कवतेर्वा' इति
व्युत्पादितम् । वैदिकनिघण्टौ (२-१४), "कवते" इति रूपं गत्यर्थकधातुषु
पठितम् । "गत्यर्थाः सर्वे ज्ञानार्थाः" इति न्यायात्कविशब्दस्य क्रान्तदर्शी मेधावी
वेत्यर्थस्संगच्छते । वैदिकनिघण्टौ (३-१५) मेधाविशब्दस्य पर्यायवाचकेषु शब्देषु
कविशब्दः पठितः । तादृशस्य कवेः कृतिः काव्यमिति पूर्वमेव प्रतिपादितम् ।
काव्यलक्षणं यथाह मम्मटभट्टः—"तद्दोषौ शब्दार्थौ सगुणावनलङ्कृती
पुनः क्वाऽपि" इति । निर्दोषं सगुणं स्फुटास्फुटालङ्कारञ्च शब्दार्थयुगलं
काव्यमिति लक्षणस्यैतस्य निष्कर्षः । श्रीमतां पुरतस्ससम्मानमुपस्थाप्यमानमेत-
द्विक्रमाङ्कदेवचरिताभिधानं पद्यरत्नं च निरवदोषाभावात्प्रसादादिगुणसहितत्वा-
दुपमाद्यलङ्कारमहितत्वाच्च स्फुटमेव काव्यकोटिमेवाऽङ्गीक्रियते ।
विश्वनाथकविराजस्य "वाक्यं रसात्मकं काव्यम्" इति लक्षणमपि प्रस्तुत-
प्रबन्धस्य वीरशृङ्गारादिरसभूषितत्वात्काव्यत्वाभ्युपगमानुगुणमेव ।
तच्च काव्यं दृश्यत्वेन श्रव्यत्वेन च भेदद्वयविभक्तम् । तत्र चाभिनेयत्वात्
दृश्यत्वस्य, प्रस्तुतकृतेः श्रव्यत्वं निर्विवादम् । तस्यचाख्यायिकाद्यनेकप्रकाराणि ।

( २ )
तत्र चाऽस्य प्रस्तुतग्रन्थस्याष्टादशसर्गनिबद्धत्वान्महाकाव्यस्य१ लक्षणान्तरसद्भा-
वाच्च महाकाव्यत्वमुररीक्रियते ।
उपजीव्यस्य कथाभागस्य भेदाच्च तत्काव्यमभिनवरुभालोचनेक्षिकया पुनर्द्वि-
प्रकारकम् । यस्योपजीव्यकथाभाग पुराणाद्गृहीतस्तत्पौराणिकमेवमेव यस्य च
काव्यस्य नूतनेतिहासस्तदैतिहासिकम् ।
एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं
महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्य रत्नष्वपि बहुष्वैति-
हासिककाव्येषु पद्यकाव्ये विक्रमाङ्कदेवचरितं गद्यकाव्ये हर्षचरितञ्चेति काव्य
द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् ।
१ महाकाव्यलक्षणं यथा साहित्यदर्पणे—
सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।
सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥
एकवंशभवा भूपा कुलजा बहवोऽपि वा ।
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥
अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ।
इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।
आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ॥
क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् ।
एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।
नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।
सन्ध्यासूर्येन्दुरजनी—प्रदोषध्वान्तवासराः ॥
प्रातर्मध्याह्नमृगया-शैलर्तुवन-सागराः ।
सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥
रणप्रयाणोपयममन्त्रपुत्रोदयादयः ।
वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।
नामास्य सर्गोपादेयकथया सर्गनाम तु ॥
श्लोकाः ३१५-३२७

प्रकृतस्य महाकाव्यस्य सर्वप्रथमं तावच्छार्मण्य (Germany) देशीयो
विद्वद्वरो डा० जॉर्ज बूह्लर महोदय स्वमित्रेण डा० एच्० याकोबीमहाशयेन साकं
राजस्थानप्रदेशे पर्यटन् १८७४ तमे खृष्टाब्दे जैसलमेरस्थित-जैनवृहज्ज्ञानकोश-
भान्डारेऽतिप्राचीनां प्रतिलिपिमासादितवान् । स च काव्यस्यास्यानितरसाधा-
रणतामाकलयन्नात्मसमुत्साहाय्येन दिवससप्तकाभ्यन्तर एवास्य प्रतिलिपिं विधाय
तस्मिन्नेव हायनान्तरे चाऽऽङ्ग्लभूमिकया समं महाकाव्यमिदं सर्वसुलभञ्चकार ।
इत्थञ्चाऽस्य महाकाव्यस्यैकस्या एव प्रतिलिपेरवाप्त्या बह्वोंऽशा अशुद्धिग्रस्ता ।
तदनन्तरं डा० रामकृष्णभाण्डारकर-वेङ्कटराममहोदयादयश्चालुक्यवंशेतिहासे
प्रकृतकृतौ विक्रमाङ्कदेवचरिते च नवन्वान्बहून्विषयान्प्रकाशपथमासादयामासु ।
एवं सत्यपि काव्यमूलरूपं तदवस्थमेव (अशुद्धिबहुलम्) आसीत् ।
कालक्रमाद्बूह्लरसंस्करणे समाप्तिमासादिते काशीस्थज्ञानमण्डलमुद्रायन्त्रालया-
न्महामहोपाध्याय-पण्डितप्रवर-गुरुवर-श्रीरामावतारशर्मणान्ना सम्पादितं प्रकृत-
महाकाव्यस्य संस्करणान्तरञ्च प्रकाशभावमानीयत । परमत्र संस्करणेऽपि पूर्व-
संस्करणाशुद्धीनां निराकरणस्य का कथा ? नवन्वान्यशुद्धयन्तराण्यपि लोचन-
पथमतिथितां प्रयान्ति, यत् सहृदयानां खेद्यते चेत् । अत्र धीमतां गुरुवर्याणां
नाऽल्पसुयोगो मनसि विचिकित्सामुत्पादयति ।
समाप्तेप्रायेदस्मिन्नपि संस्करणेऽस्य काव्यस्य महत्त्वं लोकप्रियताञ्च निरीक्ष्य
शास्त्रिमुरारिलालनागर एम्० ए० साहित्याचार्यमहोदयं परिश्रमातिशयेन
जैसलमेरवृहज्ज्ञानकोशभाण्डारात्, पुण्यपत्तनस्थ-भाण्डारकरप्राच्यगवेषणासंस्थात
(Bhandarkar Oriental Research Institute Poona), अन्यतश्च
प्रस्तुनयस्य पञ्चषड्ढस्तलिखितानि पुस्तकान्यासाद्य शुद्धपाठनिर्धारणे श्लाघ्यं
प्रयासं कृत्वा महाकाव्यमिदं काशीस्थसरस्वतीभवनत (Princess of Wales
Saraswati Bhavana Text Series) प्रकाशितम् । परञ्चात्राऽपि यत्र
तत्र सम्पादनप्रमादादपभ्रंशपाठाः पाठभेदनिर्णय प्रमादो जात इय दृश्यते यथा—
अरमदर्शितदन्तवारिणा तेन वारिनिधिराविलीकृतः ।
इत सन्ततमदस्य विधामातश्चमुश्रियतमस्य दतिनः ॥ (सर्ग ५ श्लो० १६)
इत्यत्र तेनेति पाठात्सतीति पाठः साधुतरः प्रतिभाति ।
एवमेव
हस्तद्वयोपाद्गृहीतलील-दोलागुणानां जघने वधूनाम् ।
अस्युतस्तम्नुकूलबध विश्वप्यभूद्बुद्धयसितो मनोभूः ॥ (सर्ग ७ श्लो २९)

( ४ )
इत्यत्र 'असंवृते स्रस्तदुकूलबन्धे' इत्येव पाठ समुचित ।
एवमादिस्थलानि विहाय सर्वत्र प्रस्तुतपुस्तके अस्यैव पाठ संगृहीत । नागर-
महोदयैरुपोद्घाते डा० वूह्लरमहादेयकृतैतिहासिकविषयस्य सुतरां बहुषु स्थलेषु
खण्डनं कविलिखितघटनायाश्च याथार्थ्यं साधितम् । तत्काव्यान्ते चरित-
चन्द्रिकानाम्ना जैसलमेरबृहज्ज्ञानकोशभाण्डारस्थपुस्तकाट्टिप्पणीसंग्रहो नागरमहो-
दयस्य संस्करणं सुवर्णं सुगन्धयुक्तमिवाऽकरोत् । टिप्पणोकार क इति यद्यपि
न ज्ञातं तथापि तस्य पाण्डित्यप्रकर्षो विद्योतत एव ।
तदिदं विक्रमाङ्कदेवचरिताख्यं महाकाव्यमष्टादशसर्गनिबद्धम् । तत्राऽऽद्येषु
सप्तदशसु सर्गेषु चालुक्यवंशोत्पत्तितज्जातनृपवर्णनपुरस्सरं विक्रमाङ्कदेवचरितं
प्रतिपादितम् । अन्तिमे चाऽष्टादश सर्गे महाकविरात्मवर्णनकथाप्रसङ्गे स्वाभिजनं
कश्मीरदेशं तत्पालकान्भूपालांश्चाऽवर्णयत् ।
संस्कृतसाहित्ये महाकाव्यस्याऽस्याऽसाधारणं स्थानम् । एतत्कर्ता विलक्षण-
काव्यविच्छित्ति-प्रकाशन प्रवणो विचक्षणवरोज्ज्वल्यमधुरकल्पनाचणो बिल्हणः ।
विक्रमाङ्कदेवचरितस्य प्रकाशनात्प्रागपि कविवरो बिल्हणो भारतीयमहाकविषु
प्रधानभावेन संस्मृतः । एतत्कृता १चौरपञ्चाशिका वा चौरीसुरतपञ्चाशिका
कर्णसुन्दरी नाटिका च रसिकमानसेषु हर्षोल्लासप्रकाशिका वर्तते । एवञ्च
सुभाषितसंग्रहग्रन्थेष्वपि बिल्हणविरचितानि बहूनि पद्यानि संगृहीतानि ।
सूक्तिसंग्रहणप्रवणजल्हणसंकलितायां सूक्तिमुक्तावल्यामेव बिल्हणस्याऽष्टाधिकानि
शतसंख्याकानि पद्यानि विलसितानि । किमधिकेन । प्रसादाभिधानेन गुणेन
वैदर्भी रीत्या चाऽयं महाकवि काव्यनिर्माणं कविकुलगुरो कालिदासस्य शैलीं
बिभर्ति । शार्दूलविक्रीडितस्रग्धरादिषु वृत्तेषु कवेरस्य शैली भवभूति-श्रीहर्षादि-
सदृशी दरीदृश्यते । किञ्च कविरयं तत्र तत्र स्वप्रबन्धे कालिदासादिमहाकवीनां
छायां स्ववैशिष्ट्यं सस्याप्येवाऽनुचकारेत्यधिकमस्य महत्त्वं किं निवेद्यते ।
काव्यकलेवरपीवरत्वभीत्याऽस्माभिः कृतिरियं भागद्वये कृतविभागा । तथा
च सर्गसप्तकमितोऽयं प्रथमो भागः । अथाऽत्र सर्गसप्तकं यावदस्य महाकाव्यस्य
स्तोकमालोचनमनुष्ठीयते ।
१ चौरपञ्चाशिकाया प्रथमं प्रकाशनं शार्मण्य (Germany) देशीये डा०
सॉल्फमहोदयै १८८६ खृष्टाब्दे शार्मण्यभाषाप्रथितभूमिकया सह कृतम् ।
परञ्चाऽस्य नूतनं विस्तृतं संस्करणमपेक्षितम् ।

( ५ )

इह कविर्मङ्गलाचरणानन्तरमादौ रीतिचतुष्टये—
अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती-विभ्रम-जन्म-भूमिः ।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥
इत्यनेन पद्येन वैदर्भीमेव रीतिं प्रशशंस । प्रस्तुतकृतौ कवि वैदर्भीमेव
रीतिं प्रायेण समालम्बते ।
यत्र परमरमणीयेन प्रकारेण स्वविनयवर्त्ति स्वस्य चोपजीव्यनरपतौ
निरतिशया भक्तिश्च द्योतयता महाकविना बिल्हणेनोक्तं—
गिरा प्रवृत्तिर्मम नीरसाऽपि भव्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्का मुदमभ्रसिन्धुसम्बन्धिनीं मूर्धनि धारयन्ति ॥ (१-२८)
एवञ्चास्य महाकवे श्रीहर्षेणाधस्तने पद्ये विशिष्टरूपेणाऽनुकरणं व्यधायि ।
पवित्रमत्राऽऽतनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि स्वतेविनीमेव पवित्रयिष्यति ॥ इति ।
(१-३) नैषधचरिते
निम्नस्थपद्ये कविनिबद्घप्रस्तुताहवमल्लदेवस्य—
किमश्वमेधप्रभृतिक्रियाफलैः सुतोऽस्ति चेन्नोभयलोकबान्धवः ।
ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥ (२-३४)
इत्युक्ति कीदृशी सहृदयहृदमावर्जिका, कालिदासनिवद्धवस्तुदिलीपस्य—
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंशा हि परत्रेह च शर्मणे ॥ (रघुवंशे १-६९)
इति वचनं स्वप्रौढिप्राकर्येणाऽतिशेते इत्यत्र विपश्चिद्वरा एव प्रमाणम् ।
तस्यैवाऽऽहवमल्लदेवस्यात्मजाया प्रत्यत्मजोत्पादनमनूद्य—
अपीतवेदोऽस्मि श्रुतः श्रुतागमः श्रमोऽस्ति भूपानितिहासवर्त्मसु ।
गुरुव्यवज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥ (२-३९)
आलापोऽय क्यविध प्रोढिपूर्णं आत्मविद्वासप्रकाशकश्चेत्ययमर्थो गुणग्राह-
काणा विदुषामतिरोहित । एवञ्चात्रत्यमाहवमल्लतपोवर्णनं कालिदासस्य
कुमारसम्भवस्थं पार्वतीवपोवर्णनं मनोहरविषयाऽनुहरति । ज्यायसि भ्रातरि
यतंमाने जनकपरिकल्पितं स्वीय यौवराज्यं प्रतिषेधतो विक्रमाङ्कदेवस्य—

चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो ! महद्वंशसमाः किमन्यदगद्द्रुवोऽभूत्कलिकुञ्जरोऽयम् ॥ (३-३६)
उक्तिरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः—
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु विध्यपस्रुपाः ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ (रघुवंश ३-४५)
वचनमदं स्वप्रौढिप्रकर्षेणातिक्रामतीत्यत्र विदुषां नो विप्रतिपत्तिः ।
एवञ्चाऽन्यत्र विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थित रघुदिग्विजयवर्णनमनु-
करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे
स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्त्याऽ-
त्राऽष्टमे पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम्—
दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः ।
क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥ (५-५१)
अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना "विललापे" ति प्रयोक्तव्यत्वे
'ललापे'ति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसर्गीये
चत्वारिंशत्तमे श्लोके "अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवौ
दूषणमिदं तस्य निरङ्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याश्वानामिदं
जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाय ! पृथ्वी ।
नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ॥ (६-४९)
वर्णनं महाकविश्रीहर्षकृतमद्योलिखितं नैषधाश्ववर्णनमतिशेते ।
प्रयातुमस्माकमियं कियत्पदं परा तमम्भोभिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति ।
एवञ्च—
रयस्थितानां परिवर्त्तनाय पुरातनानामिह वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ (७-६)
इह महाकविनोत्प्रेक्षालङ्कारमाश्रित्य रवेरुदीचीगमनं येन चित्ताकर्षकविधानेन
समुपवर्णितं तत्प्रशंसनीयमेव । सप्तमे सर्गे कविना वसन्तादिवर्णनं कुर्व्वता
कमनीयं काव्यकौशलं प्रकाशितमिति दिक् ।

( ७ )
इदानीमस्या धृतेस्तत्तल्लक्षणसद्भावित्वं वैशिष्ट्यमुपदर्शयितुमापातत प्रतीय-
मानदोषाभासनिरसार्थञ्च स्तोकं प्रयतते ।
प्रस्तुतपुस्तकं महाकाव्यमिति पुरस्तादुपवर्णितमेव । अस्य नायकः सृष्टै-
कादशशताब्द्यां चालुक्यसाम्राज्यतुष्टय कल्याण चालुक्यवंशोद्भूतो वीरवरो
विक्रमाङ्कदेवः । नायकलक्षणं यथा साहित्यदर्पणे—
त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही ।
दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवाञ्छेता ॥
इत्यञ्च चरितप्रणेत्रा स्वनायकस्य पूर्वोक्तगुणगणालङ्कृतत्व सम्पादनीयम् ।
एवञ्च नायकस्य भेदचतुष्टयमपि तत्रैव प्रदर्शितम् । यथा—
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ इति ।
तत्र च प्रकृतनायको विक्रमाङ्कदेवो धीरोदात्त इतीयं वार्त्ता निम्नस्थलक्षणे-
नाऽवगीयते । तद्यथा----
अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥
अविकत्थनो यथा—
गौडकामरूपकाञ्चीकेरलमलयचक्रकोटद्रविडादि—भूपाला विजित्याऽपि क-
ल्‍‍याणपुरं प्रस्थावतमानेन तेन विक्रमाङ्कदेवेन न कुत्राऽपि स्वमुखेन स्वपौरुषमुद्घो-
षितम् । प्रत्युत द्राविडदूतस्य समागमे तेन स्वपराक्रममधरीकृत्योक्तम्—
ईदृशीं गुजनतामजानता कार्मुकेण मुखरत्वमत्र मे ।
यत्कृतं किमपि तेन लज्जया भारती कथमपि प्रवर्तते ॥ (५ ५०)
एवमेव—अङ्गानि चन्दनरसादपि शीतळानि यद्वातपं वमति बाहुरयं यशोभिः ।
चालुक्यगोत्रतिलक क्व यशस्त्वदीयं ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥
(५ ८६)
इत्यादिद्राविडदूतवचोक्तौ स तूष्णीम्भूय स्थितः ।
क्षमायान् यथा—
जयकेशि-आलुपेश-द्रविड़क्षितिपति-रुद्राणीगादीन् शरणमागतान् स क्षाम्यति
स्म । ज्येष्ठे भ्रातरि सोमेश्वरे बन्धनगामनीतेऽपि—

( ८ )

वितरितुमिदमप्रजस्य सर्वं पुनरुपजातमतिः स राजपुत्रः । (६-९३)
इत्यय विषयस्तस्य क्षमावत्त्वं साधयत्येव ।
अतिगम्भीरो यथा-
उभयतः समागतयोर्द्रविडपतिसोमेश्वरसैन्ययो. स्थितौ स गाम्भीर्येण-
मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः ।
मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥ (६-६८)
महासत्त्वो यथा-
अन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यतं ततः ।
तद्भवद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥ (५-७)
विघटनमटवीमधर्धराणां विषमपथेषु विधाय लीलयैव ।
पुनरपि स जगाम तुङ्गभद्रां विरचितवन्दनमालिकां तरङ्गैः ॥ (५-२५)
इत्यादिस्थलेषु राज्ञो महासत्त्वशालित्वं प्रकटितमेव ।
स्थेयान् यथा-
प्राप्तमप्यनवपङ्कजङ्गितस्तद्दलं न सहसा जघान सः ।
अग्रतर्वधभुजोवीर्यशालिनः सङ्कटेऽप्यगहनास्तथाविधाः ॥ (५-६)
इत्यत्रोक्तमेव । पुरतः पृष्ठतश्च समागतयोर्विपक्षसैन्ययो स. स्वधृतिमव-
लम्बितवान् ।
निगूढभावो यथा-
कीदृशो शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया ।
कामुकेषु नियमक्षमोध्वते नित्यकुण्डलितकार्मुकः स्मरः ॥ (५-४८)
तथापि
अव्यवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदोरयन्निय ।
ओष्ठपुष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥ (५-५९)
इत्यनेनास्य निगूढभावकत्वं स्फुटायेव ।
दृढव्रतो यथा-
आहवमल्लदेवस्य स्वपितुर्युवराजपदग्रहणे महत्याग्रहे वर्तमानेऽपि स वैदग्ध्येन
चालुक्यवंशोऽवि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो महद्दारुसमाः किमन्यदनङ्कुशतोऽभूत्कलिकुञ्जरोऽयम् ॥ (२-३६)

( ९ )
एतादृशैर्युक्तियुक्तैर्वचनैः स्वदृढव्रतत्वं प्रकटितवानिति ।
महाकविना बिल्हणेनेत्थमेव तत्र तत्र नायकस्य धीरोदात्तत्वं प्रतिपादितम् ।
अत्रैतिहासिकतत्त्वसंरक्षणपरा डा० वूह्लरादयो विपश्चिद्वरा विप्रवदन्ति—
‘महाकविना बिल्हणेन स्वकृतावैतिहासिकं तथ्यं विलोपीकृतमिति' । वस्तुतस्त्वे-
तद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्ट्या । प्रकृतकृतिरितिहासमूलाऽपि
काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव, न
त्वितिहासतत्त्वम् । यत्त्वत्रेतिहासतत्त्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन ।
कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमृद्दिश्य—
अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ॥ (अग्निपुराणे)
एतादृश्यूक्तिः समजनि । किं बहुना, महाकवीनामेतादृशा कृते स्वनायकस्य
मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा
सा साहित्यदर्पणे—
यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ इति ।
अतएव धीरोदात्तनायकेन श्रीरामचन्द्रेण छद्मना वालिहननमनुचितमिति
धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण
व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहास-
प्रकाशितमेव तथ्यमित्यत्र वा नाम विनिगमना ? इतिहासवर्णितमपि वस्तु
वितथं विलोक्यते । यथा वङ्गेतिहासे सिराजुद्दौलाभिधानेन बङ्गाधीशेन कृष्ण-
प्रकोष्टे (Black Hole of Calcutta.) बहव आँग्लदेशाभिजना निरुद्धास्तत्र
च स्थानस्य सङ्कुचितत्वाद्वहुसंख्या उपरता अल्पा एवावशिष्टा इति यदि-
तिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिर्विद्वद्भिः साधितम् । एवंविधे
व्यतिकरे लोचनगोचरे सति प्रकृतेऽपि प्रकृतचरितनायकस्य तत्सदस्यैश्चप्रदर्शितं
वृत्तं वितथमितिहासनिर्दिष्टमेव तथ्यरूपमित्यपि सर्वतोभावेन प्रतिपादयितुं न
शक्यम् । कालान्तरे विस्तृतगवेषणानन्तरं प्रकृतकविसृष्टवृत्तस्य सत्यत्वसिद्धि-
रपि संभाव्यते । श्री नागरमहोदयैः स्वोपोद्घाते डा० वूह्लरखण्डिता यास्मिं-
दैतिहासिकघटनाः डा० वूह्लरमतखण्डनपूर्वकं सयत्नेन प्रमाणीकृता वर्तन्ते ।

( १० )
ऐतिहासिकेन विदुषा सम कवेरिय कलहवार्ता नाऽनैव पाश्चात्यदेशेऽपि
स्फुटमापद्यते । प्रतीच्यामैतिहासिकोपन्यासलेखकानागादिमो नूतनवाट (New
way.) प्रकाशक सर् वाल्टर स्काट् (Sir Walter Scott) महाशयोऽपीत्थमेव
दूषणभाजन समजति । आधुनिकानामाङ्गलेतिहासज्ञाना फ्रीमेनाभिधान कोविद
परमप्रसिद्ध । उपन्यासप्रस्तुतायामतिहासविस्मृतौ रोष प्रदर्शयता कृतिनाऽमु-
नाऽभिहित—'यूरोपदेशोद्भूते धर्मयुद्धयात्रायुगे (The age of the Crusades)
ये किमपि ज्ञातुमीहन्ते तै स्काट्कृत 'आइवान हो' (Ivanho) नाम उपन्यासो
न पाठ्य इति । अत्राऽपि समाधान पूर्ववदेव बोध्यम् । एवमेवाऽत्र कृतौ
महाकविना चरितनायकस्य तत्त्कार्यकालानाम पौर्वापर्यविपर्ययोऽकारीति
यद्द्षणमुपन्यस्त तत्रेय वार्ता—नेय कृति प्राधान्येनेतिहास प्रत्युत काव्यमेव ।
महाकविना स्वलेखनसौविध्यमाचरतेत्थमाचरितमतो नाऽत्र स उपालम्भभाजनम् ।
'शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते' । इत्युक्तेरत्र वीरोऽङ्गी रसो
यथायथमङ्गरूपाणि रसान्तराणि न बोद्धव्यानि । मङ्गलाचरणरूपे प्रथमश्लोके
कृपाणमुपवर्णयता महाकविनाऽस्य महाकाव्यस्य वीररसाधायित्व द्योतितमेव ।
अत्र सत्स्वप्यलङ्कारान्तरेषु महान्कविर्विशेषत उपमोत्प्रेक्षादृष्टान्तार्थान्त-
रन्याससमासोक्त्यनुप्रासादीन् बाहुल्येन लोचनगोचरीकरोति ।
यद्यपि स्वकृत्या कृतसुहृदयहृदयसवनन स नाऽय महाकविर्बिल्हण काश्मीरेषु
प्राप्तजन्मत्यथाप्यस्य कल्याण चालुक्य-वंशस्य षष्ठविक्रमादित्यस्य विक्रमाङ्क-
देवापरनामकस्य सभापण्डित आसीत् । भारते वर्षेऽस्य षष्ठविक्रमादित्यस्य
शासन १०२६ त ११२७ खॄष्टाब्दपर्यन्त स्थितम् ।
काश्मीरेषु प्रवरपुरम् (श्रीनगरम्) प्रधाननगरमस्ति । तस्मात्क्रोशत्रये
खोनमुखनामक ग्राम महाकविरय स्वजन्मनाऽलङ्कृतवान् । तत्र कौशिकगो-
त्रोत्पन्ना ब्राह्मणा निवसन्ति स्म । तदन्वयमेवाऽय भूषितवान् । अस्य प्रपितामहो
मुक्तिफलश पितामहो ऽराजकलश पिता च ज्येष्ठकलश आसीत् । अस्य
मातुर्नाम नागादेवीति । अस्य ज्येष्ठभ्राता इष्टरामोऽनुजश्चाऽऽनन्दनामाऽऽसीत् ।
द्वावप्येतो भ्रातरी विद्वत्तया तत्र प्रसिद्धावास्ताम् ।
काश्मीरेष्वेव ससर्ववेदशास्त्राण्यधीत्य बाणभट्ट इवायमपि विदेशान्प्रति
प्रतस्थे । मथुराया वृन्दावने च शास्त्रार्थविषयेषु पण्डितान्विजित्य क्रमश कान्य-
कुब्जत प्रयाग समाजगाम । सत काश्या डाहलाधीशस्य कर्णनृपते. सभाया

( ११ )
श्रीगङ्गाधरनामानं कञ्चित् विशिष्टं पण्डितं पराजितवान् । ततो भोजराज-
धानीं धारां प्राप्तः । परञ्च भोजस्य दिवङ्गतत्वात्तस्य तत्र गमनमसफलमेवाऽऽ-
सीत् । ततः स गुर्जरदेशे समागत्य सोमनाथमहादेवस्य दर्शनं कृतवान् ।
सोमनाथात्रिर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं
स कल्याणनगरं ययौ । तत्र लब्धविद्यापतिपदवीकः स षष्ठ-विक्रमादित्यस्य
चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म ।
सर्वस्वं गृह्णाति कुन्तलपतिर्गृह्णातु तन्मे पुन-
र्भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् ।
रे क्षुद्रास्त्यजत प्रमोद‌मचिरादेष्यन्ति मद्मन्दिरे
हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढा ध्रियः ॥ १ ॥
अयि ! किमनिभं राजद्वारे समुद्धुरकन्धरे
कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने ।
अमररमणीलीलाव्याद्विलोचनवागुरा-
विषयपतितो न व्यावृत्तिं करिष्यति बिल्हणः ॥ २ ॥
उपर्युक्तं पद्यद्वयं काश्मीरासादित-चोरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ
एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्वं कदाचित्कं वैमनस्यं
द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनो
भवन्तीति नैतदसम्भवम् ।
श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिकं विमृश्य
महाकाव्यस्यास्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते खृष्टीय १०८५ वत्सरे
विक्रमादित्यस्य नर्मदाटटयात्राऽत्र न वर्णितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महा-
काव्यमपूर्णम् । खृष्टीय १०८५ वर्षीया घटना महाकाव्यरचनान्तरभूतेति
तस्या अत्र समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे
महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव ।
एवमेव 'इण्डियन एण्टिक्वेरी' पत्रसम्पादकस्य 'बिल्हण श्लेषालङ्कारस्य
परमोपासक इत्यादि समालोचनं, श्रीमतो द्विवेदिमहोदयस्य महाकवेरस्य प्राचीन-
कवीनामनुकरणदोषारोपणं, डा० वूह्लरमहोदयस्य चैतिहासिकघटनाऽपटुत्वेन
दूषणं सर्वमिदं समालोचनमनालोचनपूर्वकमेव । न कोऽपि निर्दोष इति विचार्यैव
महाकविना कालिदासेन कुमारसम्भवे भणित-
एकोऽहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः । इति

( १२ )

यो महाकविः स्वग्रन्थे काव्यार्थचौर्यं निन्दति स कथं तदेव कुर्यात् ।
ईदृग्भूतानां समालोचकानां कृत एव महाकविना विल्हणेनोक्तम्
रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्ति—रहस्यमुद्राः ।
तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥ (१-२२)
एतादृशस्य महाकाव्यरत्नस्य काऽपि विशदटीका न विद्यते । चरित-
चन्द्रिकाऽभिधाना केवलमेका टिप्पणी कविहार्दभावप्रकाशनऽसमर्था । अत
एवाऽयमस्माकं टीकालेखने समारम्भः । अस्मदीयायामस्यामभिनवव्याख्यायां
रमानाम्न्यां यथामति कवितात्पर्यप्रकाशनपुरस्सरं रसध्वन्यलङ्कारच्छन्दःप्रभृतय
आलङ्कारिका विषया वंशयेन प्रतिपादिताः । तदधस्तले च हिन्दीभाषामयोऽ-
नुवादोऽपि सविस्तरं व्यक्तरूपेण न्यधायि । तत्राऽस्माभिः कियती सफलताऽ-
धिगता, विषयेऽत्र सहृदया कोविदा एव प्रमाणम् । यथोक्तं कविकुलगुरुणा
महाकविना कालिदासेन—
आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
उपयुक्तसमयाभावेन सर्गसप्तकं यावदतिसंक्षिप्तया विज्ञपाठगत्याः काश्चि-
द्विशेषता प्रकाशिताः । भागान्तरे वैशिष्ट्यान्तराणि चोपस्थापयिष्यन्त इति
धिया साम्प्रतमेतावत्तैव विरम्यते ।
सर्गसप्तकस्यः कथासारः ।
प्रथमसर्गे—
मङ्गलाचरणप्रस्तावनान्तरं प्रकृतचरितनायकचालुक्यकुलमूलपुरुषस्योत्पत्तिः
प्रदर्शिता । सा चेत्थं-जातुष्विञ्चतुर्वदने प्रात सन्ध्यावन्दनपरे सुरपतिर्धरा-
भारापनयनार्थमलौकिकपौरुषस्य कस्यचिन्महापुरुषस्याऽऽवश्यकतां निवेदयामास ।
तदनु वेधाः सन्ध्यासलिलपूर्णमात्मचुलुकमाडुलोके । तस्माच्च कमलासन-
चुलुकाल्लोभत्रयत्राणप्रवीणः सुभटः आविरासीत् । स पुरुषः पुरुहूतं ‘धृतिमान्
भव' इति प्रस्थाप्य सुरविपक्षक्षयदीक्षितोऽभूत् । तत एव चालुक्यकुलं समजनि ।
यत्र च हारीतमानव्यनामानावादिपूरुषौ बभूवतुः । तत्कुलजा युद्धदुर्धर्षा भूपाला
अयोध्यां स्ववासस्थानं चक्रुः । केविच्च विश्वविजयक्रमेण विलासितया च
दक्षिणस्यां दिशि निवासं विदधुः । किञ्चित्कालानन्तरं तैलपो नामातुलविक्रमो

भूपस्तद्वंशावतंसोऽभूत् । ततोऽनुपमशौर्याश्रय सत्याश्रयो नाम नरपति प्रादुर्बभूव ।
ततश्च समराङ्गणेषु मुहुर्मुहु प्राप्तजयो जयसिंह आविर्भूत । तस्माच्च त्रैलोक्य-
मल्लापरनामक आहवमल्लाभिधानो विधुतावदानो नरनायक समजायत ।
अनुपमविक्रम स नरपालश्चोलदेश मालवराजधानी धाराञ्च जिगाय ।
डाहलपतिं कर्णञ्च विवर्णं चकार । एवमेव बहुष्वाहवेषु मल्ल स आहवमल्लो
द्रविडप्रकाण्ड वीररसस्वाद्भाजनं विदधे, चोलराज्यश्रियञ्चाञ्चकषे ।

द्वितीयसर्गे—

प्रक्रान्तविक्रान्तचरित वाहवमल्लदेव सर्वा ककुभो विजित्य गुणिगण-
मण्डिता कल्याणपुरीमात्मराजधानीरूपेण विदधे । समधिगतसम्पदतिशय
पूरिताशेषमनोरथोऽपि स भूपतिस्तनयाभावेन दूयमानमानसोऽभूत् । तत
स देव्या सम विमृश्य सकलराज्यकार्यभार मन्त्रिषु विनिवेश्य तनुजाऽऽसादनार्थं
शङ्करानुष्ठाननिष्ठो बभूव । जातुचिद्दिभाते चन्द्रशेखरपरिचरणपरो नरवर स
इमामशरीरिणीं गिरमाकर्णयति स्म—"भो नरपते ! कृतं तपसा । भगवान्पार्व-
तीपतिस्त्वयि प्रसादाभिमुख संवृत्त । इय त्वदीया दयिता तनयत्रितयसमन्विता
भविष्यति । तत्रापि शिवप्रसादाद्द्वितीयस्तनयोज्ज्वललो भविता" इति ।
अनन्तर नरदेवो व्रतपारणाविधिं विदध । ततश्च शुभ मुहूर्ते देवी सुतमेक-
मसूत, यो नाम्ना सोमेश्वर संवृत्त । ततो माङ्गलिकेऽह्ने अन्य देव्या गर्भतो
लोकोत्तर-गुणगणसमलङ्कृत समस्तशुभलक्षणलक्षित शिवप्रसादीकृतो द्वितीय-
स्तनय समजति । निरतिशयहर्षप्रकर्षपरवशो महाराजश्चाऽऽत्मजस्य जातकर्मादि-
सस्कार सम्पादयामास ।

तृतीयसर्गे—

नवप्रसूत प्रभूतशुभलक्षणपूरितो राजसुत आख्यया विक्रमाङ्कदेव इति
ख्यातिमभजत् । स च बालोऽनितरसाधारणगुणवान्बाल एव प्रादर्शयद्रूपेण्व
मातापितरौ प्रमोदमेदुरमानसौ । अचिरेणैव समयन विक्रमादित्यो विक्रमाङ्क-
देवापरनामा समधिगतसमस्तविद्य संवृत्त । अत्रान्तरे नराधिपस्य जयसिंह-
नामकस्तृतीयस्तनयोऽपि समजायत । अथ राजा प्रतापेनाऽऽदित्यसन्निभो द्वितीयम-
प्यद्वितीयं विक्रमादित्याभिध तनूज यौवराज्यालब्कृत कर्तुमीयष । ज्येष्ठे
भ्रातरि स्थितेऽपि स्वयोवराज्याभ्युपगमे महदनौचित्य पश्यन्नार्येोग्युचितपटु स

( १४ )

उक्तिविशेषैर्मुहुर्मुहुराग्रहग्रहग्रहिं स्वपितरं न्यषेधत् । इत्यञ्च सोमेश्वर सोम-
देवापरनामधेय एव यौवराज्यपदभाग्जायत। वस्तुतस्तु विक्रमाङ्कदेव एव राज्यधु-
राज्योढुं धोरपि भारमादिकमठो भूमिशेषयोरिव विशेषरूपेण वभार । तदनन्तरं
पितुराज्ञया सर्वत्र रणोत्सवेषु विजयमवाप । एवञ्च स चोलाञ्जगाय,
स्वशरणागतं मालवाधीशं निष्कण्टकं राज्ये समस्थापयत् । बहवो भूपाला
कन्यकाप्रदानच्छलतोऽस्य सर्वस्वदानं चक्रुः ।

चतुर्थसर्गे—

विक्रमाङ्कदेवो दिग्विजय्यार्थं प्रयाणमकरोत् । तद्गजा मलयं मलयजरहि-
तमकुर्वन् । स केरलदेशं जीवितेशदेशं प्रापयत् । तद्भयात्सिंहलभूपालस्तच्छरणं
जगाम । एवञ्च विक्रमाङ्कदेवो गाङ्गकुण्डपुरं चोलदेशं च जिगाय । वेङ्गि-
भूपालं चक्रकोटपतिञ्च स निर्वीयं चकार । एवञ्चापराक्रान्तो महाविश्रान्तो
विक्रमाङ्कदेवः कृतकार्यं सन्निवार्यदैवगत्या स्वदेशप्रत्यावर्तनकाले बहुविधान्यप-
शकुनानि प्रत्यक्षीचकार । ततश्च स तच्छान्त्यर्थं सर्वस्वदानमालोच्य कृष्णा-
नदीतटे विशश्राम । तस्मिन्नेव समये कल्याणपुरात्समायातो दूत एतादृशीमभव्यां
वार्तामश्रावयत्—“राजकुमार ! भवज्जनको भावत्कं पाण्ड्यचोलसिंहल-
भूपालविजयं समाकर्ण्याऽमन्दमानन्दसन्दोहमन्वभूत् । परं नियतिदुर्गतिपरवशः
स दाहज्वराभिभूत्या दक्षिणापथत्रिपथगां तुङ्गभद्रां प्राप्य सुवर्णदानपूर्वकं कण्ठदध्ने
तन्तोये प्रविश्य चन्द्रशेखरपुरं प्रययौ” इति । इत्यञ्चाऽकाण्ड एव जनककैलाश-
वासमाकर्ण्य परितप्तः स भृशं परिदेवयामास । अथ स सस्थितस्य तातस्योत्तर-
क्रिया यथाविधि विधाय सत्वरमग्रजालोकनोत्कण्ठया कल्याणप्रयाणमुद्दिश्य
जगाम ॥

तत स कियद्भिरपि दिवसैः कल्याणपुरीं समासाद्याऽग्रे समागतेनाऽग्रजन्मना
सम्मानितस्तेनैव समं समानसक्लेशं नरेशप्रासादं विवेश । तदनु तावुभावकृत्रि-
माभिप्रियं प्रणयवृत्तिभिः कतिचिद्वासरानापयताम् । गुणगणज्येष्ठोऽपि स
ज्यायांसं तातप्रतीकाशं भ्रातोद्ध्य समीक्ष्य समर्पयामास च तस्मै दिग्विजयोपार्जितं
समस्तं वस्तुजातम् । ततश्चानिवार्यया भवितव्यतया सोमेश्वरो दुर्विनयोपरोऽ-
भूयेन च स भूपो विमले चालुक्यकुले कलङ्करूपो बभूव । यदा विक्रमादित्य
आत्मनोऽग्रजस्य दुराग्रहं निराकर्तुं न शशाक, तदाऽन्यच्छोभीत्या भेरीरवेण
श्रवणविवरं भिन्दन्कल्याणपुराद्विनिर्ययौ ॥

( १५ )

पंचमसर्गे—

विक्रमादित्य कल्याणपुरत्यागसमये स्वाग्रजात्सङ्कटमाशङ्क्य नयविनयोपेत
जयसिंहापरनामधेय स्वानुज सिंहदेवमपि निनाय। अथैतद्वृत्तमसहमानश्चा-
लुक्येश्वर सोमेश्वरो विक्रमादित्यस्य पृष्ठत पुष्कल बल व्यसंजयत्। ततश्च
निर्बंधप्रहरणपर तद्बलनिवहन्नपि महाविक्रमो विक्रमश्चूर्णित चकार। उत्तुङ्ग-
शक्ति स तुङ्गभद्रा प्राप, युद्धेच्छया चोलसम्मुखवर्ती च बभूव। एव च स
कञ्चित्काल यावद्दनवासमण्डलमध्युवास। स्वबलवाद्यनिनादैर्मलयदेशभूभुजा-
मात्मपूर्वविक्रम स्मारयन्विक्रम पुरत उच्चचाल। तस्मिन्नेवान्तरे कोङ्गणदेश-
नरेशो जयकेशी प्रार्थितादप्यधिक धन तस्मै समर्पयामास। आलुपपालकश्च
तदन्तिके रणचापल त्यक्त्वा समृद्धिं चाऽगात्। तत स रणेच्छया चोलांश्चचाल।
विक्रमबलाऽतिक्रमाऽक्षमश्चोलभूपाल सन्ध्यर्थं स्वसन्देशहर विक्रमान्तिक
प्राहिणोत्। स दूतो विक्रम बहुश स्तुत्वा चोलभूपालो भवते स्वकुमारी समर्प-
यितुमिच्छती' ति निवेदयामास। विक्रमोऽपि तत्प्रार्थनामभ्युपगच्छंस्तुङ्गभद्रानदी-
तटमगात्। तत्रश्चोलपति स्वकन्या विप्राय समर्पितवान् ररक्ष चैव
विक्रमबलाक्रमणाच्चोलाऽञ्चलाम्।

षष्ठसर्गे—

अथ चोलपति कन्यादानान्तर जामातुरभ्यनुज्ञा समवाप्य चचाल। ततो
विक्रमादित्य किञ्चित्कालाऽन्तर दैवहतकतया दुर्विलसिताद्रणाङ्गण चोलपते
सुरलोकप्रयाणमाकर्णयत्। परिदेवनादनु स चोलराजकुमारे धियमभिषक्तु
काञ्ची प्रति समुच्चचाल। तत्र च विक्रमादित्य विलोक्य काञ्चीकामिन्यो
बहुविधा शृङ्गारचेष्टाश्चक्रू। ततश्च स दुष्टवर्गं क्षयतेजस विधाय चोलेन्द्र-
निर्माणित गङ्गाकुण्डपुर प्रययौ। तत्र च स परिपन्थिसैन्यनिधनपूर्वक चोल-
राजकुमार राजपदमभिरोप्य मासमपर्यन्त तत्राऽवस्थाय भूयोऽपि तुङ्गभद्रा यव्राज।
दिष्टाऽनिष्टतया कतिपयदिदिवसेषु गतेषु राजिगाऽभिधान वेङ्गिनाथ प्रकृति-
विरोधहतस्य तस्य निकृष्टश्यालकस्य राज्यमपजहार। कुटिलमतिरसौ राजिग
पुनर्विक्रमाक्रमणायोद्युध्य विक्रमाग्रज सोमेश्वर स्वसहायकमकृत। ततो
विक्रमादित्य राजियवधार्थ कृतप्रयाणे सति सोमेश्वरस्तस्य पृष्ठ त्वरिततरमुपागत।
अग्रजेन सम समरकरण परमकल्म मन्वानो विक्रमोऽश्रुपूर्णनयन उद्यतो न बभूव,
युद्धनिराकरणार्थं बहून्यनुभववचनानि च तत्पार्श्वे विससर्ज। इत्थ च समरा-
नुद्यत निद्रापरस्य च भगवत्प्रमथेश्वर शान्त्यर्थपरिरक्षणार्थं युद्धतत्पर चकार।

( १६ )
ततश्च रोमहर्षणो रणः प्रवृत्ते । किमपर द्रविडपतिराकुलमतित्वेन पलायितः
सोमदेवश्च बन्धनागारे न्यविशत । ततश्च विक्रमस्तुङ्गभद्रा जगाम । अग्रजाय
राज्य वितरितु कृतमति स शङ्करेण भूयोऽपि न्यषेधि । इत्थ चाऽनिच्छया
स प्रतापाऽतिशयेन राजसिंहासनमारुरोह, स्वानुगतमनुज च वनवासमण्डला-
खण्डल चकार ।
सप्तमसर्गे—
अथाऽसौ निर्वापितचोलप्रतापो विक्रमादित्य कल्याणपुर प्रविवेश । अत्रान्तरे
शृङ्गारवधूर्मानिकेतनसखियो वसन्त आविर्बभूव ।। वसन्तर्तोरभिनव-कल्पनो-
त्प्रेक्षाकृतवर्णनेनैव सप्तमोऽय सर्ग समाप्तिमगात् । इति
राज्ञो विक्रमाङ्कदेवस्य सम्बन्धे यानि पुस्तकानि लिखितानि ये च लेखाः
प्रकाशितास्तेषा सूची परिशिष्टे निबद्धा । एभिर्विक्रमाङ्कदेवविषये बहुज्ञातं
भवति । परन्तु विक्रमाङ्कदेवसूनुना विदुषा सोमेश्वर-तृतीयेण, येनाऽभिलषि-
तार्थचिन्तामणिर्मानसोल्लासापरनामको ग्रन्थो व्यरचि¹, तेन विक्रमाङ्काभ्युदयाख्य
चम्पूकाव्यमपि विरचित यस्य हस्तलिखित पुस्तक पट्टनस्थजैनभाण्डारे वरीवर्ति ।
परञ्च पुस्तकमेतत् खण्डितमिति महद्दुःखास्पदम् । अन्यथा तदाधारेण
समालोचकाना कवेर्वेतिहासिकादिक मत साधु दुष्ट वेति निर्णय सुतरा सारल्येन
सम्भाव्य. स्यात् । तत्पुस्तकावलोकनेन तत्र समाप्ति—सूचन पार्श्वतोऽवलोक्याऽ-
नुमातु शक्यते यदस्य पुस्तकान्तरमपि कुत्रचिदवश्यं भवेदिति । आशासे
यद्भविव्यत्काले कोऽपि गवेषणाकुशलो विद्वान् पुस्तकान्तरमस्याऽवाप्य प्रकाश्य च
साधुवादाँल्लभतेति ।
अन्ते चाऽस्मिन्पुस्तकेऽस्मत्कृता प्रकाशनयन्त्रजाता वा ये दोषा गुणग्राहकाणां
विदुषा लोचनपथे समागच्छेयुस्ते मर्षणीवास्तेषाञ्च सूचनयाऽनुग्राह्योऽय जन
इति सदर्भञ्जमभ्यर्थनम् ।
यतो—
गच्छतस्स्खलन क्वापि भवत्येव प्रमादतः ।
हसन्ति दुर्जनास्तत्र समादधति सज्जनाः । इति ।
—शुभ भूयात्—
¹ सोलंकियो का प्राचीन इतिहास पृष्ठ १२५-१२६ ।

॥ श्रीः ॥
शुद्धिपत्रम्
अशुद्धम् शुद्धम् पृष्ठे पंक्तिः
बहुष्वमत्स्यैरद्यापि बहुष्वमत्स्यैरद्यापि १० ११
प्रन्यायकत्वेन प्रत्यायकत्वेन १२ २३
मतं न कतुं न १३ २७
मत्सूक्तिरत्नाति मत्सूक्तिरत्नानि १५ २६
अन्वप अन्वयः १५ २५
बृहदिक्षूणां बृहद्यूनां १६ २५
कण्ठवि कण्ठवि २४ १२
निसृतानीत्यर्थः निःसृतानीत्यर्थः २५ ६
विख्यात अस्तीति विख्यातोऽस्तीति २५ १०
परवह्या परब्रह्म २६ १८
इत्यादिरमरः इत्यमरः २७ २८
यददर्शनं यददर्शनं ३० १०
शुन्दरस्त्रीत्वेन सुन्दरस्त्रीत्वेन ४१ १४
पार्थिवेन्नृपैः पार्थिवैर्नृपैः ४८ २
धीपेऽपि दीपेऽपि ४८ २१
द्विड्विपक्षाहिता द्विड्विपसाहिता ५२ २३
निवारणादृतया निवारणादुद्धृतया ५४ ७
शङ्ग एव शङ्ख एव ५७ १९
शङ्गरूपी शङ्खरूपी ५७ २६
तिर्कीतिधाराम् पतिकीर्तिधाराम् ६८ २७
॥०१॥ ॥१०॥ ९५ २१
बान्तिवारिभिः कान्तिवारिभिः ९८ २
पितृणामपनेतु पितॄणामपनेतु ११२ ६
ध्योत्रयप्रमायिनि ध्योत्रयप्रमाथिनी ११३ १४
गोद म गोद में ११४ १७
दप्यसहम् दुष्यसहम् ११९ १