विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 9, कुल 493 में से
संदर्भ में पढ़ें( २ )
तत्र चाऽस्य प्रस्तुतग्रन्थस्याष्टादशसर्गनिबद्धत्वान्महाकाव्यस्य१ लक्षणान्तरसद्भा-
वाच्च महाकाव्यत्वमुररीक्रियते ।
उपजीव्यस्य कथाभागस्य भेदाच्च तत्काव्यमभिनवरुभालोचनेक्षिकया पुनर्द्वि-
प्रकारकम् । यस्योपजीव्यकथाभाग पुराणाद्गृहीतस्तत्पौराणिकमेवमेव यस्य च
काव्यस्य नूतनेतिहासस्तदैतिहासिकम् ।
एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं
महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्य रत्नष्वपि बहुष्वैति-
हासिककाव्येषु पद्यकाव्ये विक्रमाङ्कदेवचरितं गद्यकाव्ये हर्षचरितञ्चेति काव्य
द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् ।
१ महाकाव्यलक्षणं यथा साहित्यदर्पणे—
सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।
सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥
एकवंशभवा भूपा कुलजा बहवोऽपि वा ।
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥
अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः ।
इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ।
आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ॥
क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् ।
एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।
नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।
सन्ध्यासूर्येन्दुरजनी—प्रदोषध्वान्तवासराः ॥
प्रातर्मध्याह्नमृगया-शैलर्तुवन-सागराः ।
सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥
रणप्रयाणोपयममन्त्रपुत्रोदयादयः ।
वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।
नामास्य सर्गोपादेयकथया सर्गनाम तु ॥
श्लोकाः ३१५-३२७