विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 18, कुल 493 में से
संदर्भ में पढ़ें( ११ )
श्रीगङ्गाधरनामानं कञ्चित् विशिष्टं पण्डितं पराजितवान् । ततो भोजराज-
धानीं धारां प्राप्तः । परञ्च भोजस्य दिवङ्गतत्वात्तस्य तत्र गमनमसफलमेवाऽऽ-
सीत् । ततः स गुर्जरदेशे समागत्य सोमनाथमहादेवस्य दर्शनं कृतवान् ।
सोमनाथात्रिर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं
स कल्याणनगरं ययौ । तत्र लब्धविद्यापतिपदवीकः स षष्ठ-विक्रमादित्यस्य
चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म ।
सर्वस्वं गृह्णाति कुन्तलपतिर्गृह्णातु तन्मे पुन-
र्भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् ।
रे क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मद्मन्दिरे
हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढा ध्रियः ॥ १ ॥
अयि ! किमनिभं राजद्वारे समुद्धुरकन्धरे
कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने ।
अमररमणीलीलाव्याद्विलोचनवागुरा-
विषयपतितो न व्यावृत्तिं करिष्यति बिल्हणः ॥ २ ॥
उपर्युक्तं पद्यद्वयं काश्मीरासादित-चोरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ
एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्वं कदाचित्कं वैमनस्यं
द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनो
भवन्तीति नैतदसम्भवम् ।
श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिकं विमृश्य
महाकाव्यस्यास्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते खृष्टीय १०८५ वत्सरे
विक्रमादित्यस्य नर्मदाटटयात्राऽत्र न वर्णितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महा-
काव्यमपूर्णम् । खृष्टीय १०८५ वर्षीया घटना महाकाव्यरचनान्तरभूतेति
तस्या अत्र समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे
महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव ।
एवमेव 'इण्डियन एण्टिक्वेरी' पत्रसम्पादकस्य 'बिल्हण श्लेषालङ्कारस्य
परमोपासक इत्यादि समालोचनं, श्रीमतो द्विवेदिमहोदयस्य महाकवेरस्य प्राचीन-
कवीनामनुकरणदोषारोपणं, डा० वूह्लरमहोदयस्य चैतिहासिकघटनाऽपटुत्वेन
दूषणं सर्वमिदं समालोचनमनालोचनपूर्वकमेव । न कोऽपि निर्दोष इति विचार्यैव
महाकविना कालिदासेन कुमारसम्भवे भणित-
एकोऽहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः । इति