सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 19, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 19

( १२ )

यो महाकविः स्वग्रन्थे काव्यार्थचौर्यं निन्दति स कथं तदेव कुर्यात् ।
ईदृग्भूतानां समालोचकानां कृत एव महाकविना विल्हणेनोक्तम्
रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्ति—रहस्यमुद्राः ।
तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥ (१-२२)
एतादृशस्य महाकाव्यरत्नस्य काऽपि विशदटीका न विद्यते । चरित-
चन्द्रिकाऽभिधाना केवलमेका टिप्पणी कविहार्दभावप्रकाशनऽसमर्था । अत
एवाऽयमस्माकं टीकालेखने समारम्भः । अस्मदीयायामस्यामभिनवव्याख्यायां
रमानाम्न्यां यथामति कवितात्पर्यप्रकाशनपुरस्सरं रसध्वन्यलङ्कारच्छन्दःप्रभृतय
आलङ्कारिका विषया वंशयेन प्रतिपादिताः । तदधस्तले च हिन्दीभाषामयोऽ-
नुवादोऽपि सविस्तरं व्यक्तरूपेण न्यधायि । तत्राऽस्माभिः कियती सफलताऽ-
धिगता, विषयेऽत्र सहृदया कोविदा एव प्रमाणम् । यथोक्तं कविकुलगुरुणा
महाकविना कालिदासेन—
आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
उपयुक्तसमयाभावेन सर्गसप्तकं यावदतिसंक्षिप्तया विज्ञपाठगत्याः काश्चि-
द्विशेषता प्रकाशिताः । भागान्तरे वैशिष्ट्यान्तराणि चोपस्थापयिष्यन्त इति
धिया साम्प्रतमेतावत्तैव विरम्यते ।
सर्गसप्तकस्यः कथासारः ।
प्रथमसर्गे—
मङ्गलाचरणप्रस्तावनान्तरं प्रकृतचरितनायकचालुक्यकुलमूलपुरुषस्योत्पत्तिः
प्रदर्शिता । सा चेत्थं-जातुष्विञ्चतुर्वदने प्रात सन्ध्यावन्दनपरे सुरपतिर्धरा-
भारापनयनार्थमलौकिकपौरुषस्य कस्यचिन्महापुरुषस्याऽऽवश्यकतां निवेदयामास ।
तदनु वेधाः सन्ध्यासलिलपूर्णमात्मचुलुकमाडुलोके । तस्माच्च कमलासन-
चुलुकाल्लोभत्रयत्राणप्रवीणः सुभटः आविरासीत् । स पुरुषः पुरुहूतं ‘धृतिमान्
भव' इति प्रस्थाप्य सुरविपक्षक्षयदीक्षितोऽभूत् । तत एव चालुक्यकुलं समजनि ।
यत्र च हारीतमानव्यनामानावादिपूरुषौ बभूवतुः । तत्कुलजा युद्धदुर्धर्षा भूपाला
अयोध्यां स्ववासस्थानं चक्रुः । केविच्च विश्वविजयक्रमेण विलासितया च
दक्षिणस्यां दिशि निवासं विदधुः । किञ्चित्कालानन्तरं तैलपो नामातुलविक्रमो