सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 13, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 13

चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो ! महद्वंशसमाः किमन्यदगद्द्रुवोऽभूत्कलिकुञ्जरोऽयम् ॥ (३-३६)
उक्तिरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः—
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु विध्यपस्रुपाः ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ (रघुवंश ३-४५)
वचनमदं स्वप्रौढिप्रकर्षेणातिक्रामतीत्यत्र विदुषां नो विप्रतिपत्तिः ।
एवञ्चाऽन्यत्र विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थित रघुदिग्विजयवर्णनमनु-
करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे
स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्त्याऽ-
त्राऽष्टमे पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम्—
दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः ।
क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥ (५-५१)
अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना "विललापे" ति प्रयोक्तव्यत्वे
'ललापे'ति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसर्गीये
चत्वारिंशत्तमे श्लोके "अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवौ
दूषणमिदं तस्य निरङ्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याश्वानामिदं
जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाय ! पृथ्वी ।
नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ॥ (६-४९)
वर्णनं महाकविश्रीहर्षकृतमद्योलिखितं नैषधाश्ववर्णनमतिशेते ।
प्रयातुमस्माकमियं कियत्पदं परा तमम्भोभिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति ।
एवञ्च—
रयस्थितानां परिवर्त्तनाय पुरातनानामिह वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ (७-६)
इह महाकविनोत्प्रेक्षालङ्कारमाश्रित्य रवेरुदीचीगमनं येन चित्ताकर्षकविधानेन
समुपवर्णितं तत्प्रशंसनीयमेव । सप्तमे सर्गे कविना वसन्तादिवर्णनं कुर्व्वता
कमनीयं काव्यकौशलं प्रकाशितमिति दिक् ।