सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 8, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 8

॥ श्री ॥
॥ श्री गणेशाय नम ॥
॥ श्री सङ्कष्टनाशिन्यै नमः ॥
—भूमिका—
अयि सुरसरस्वतीपरिचरणपरा शास्त्रधुरन्धरा विपश्चिद्वरा महानुभावा !
प्रथितयशस्सु तत्रभवत्सु न ह्येतत्तिरोहितं यद्वाङ्मये काव्यस्य कीदृश महित-
मास्पदमिति ।
काव्यं नाम लोकोत्तरवर्णननिपुणकविकर्म । कवेर्भावः कर्म वा काव्यमी-
दृश्या व्युत्पत्त्या कविशब्दात् "गुणवचनब्राह्मणादिभ्यः कर्मणि" चेति सूत्रेण ष्य-
ञ्प्रत्यये कृते काव्यपदसिद्धिरिति वैयाकरणी प्रसिद्धिः । कवते (वर्णयति), कौति,
कुवते (शब्दायते) वेति कविः । "कुङ्" शब्दे इति भौवादिकात्तौदादिकाद्वा
"कु" शब्दे इत्यादादिकाद्वा धातोः "अपि इ" इति सूत्रेणेप्रत्यये कृते कविपद-
निष्पत्तिरिति शाब्दिकी व्युत्पत्तिः । निरुक्ते (१२-१३-१) यास्काचार्येण
कविशब्दस्य मेधावीत्यर्थं प्रतिपाद्य 'कविः क्रान्तदर्शनो भवति कवतेर्वा' इति
व्युत्पादितम् । वैदिकनिघण्टौ (२-१४), "कवते" इति रूपं गत्यर्थकधातुषु
पठितम् । "गत्यर्थाः सर्वे ज्ञानार्थाः" इति न्यायात्कविशब्दस्य क्रान्तदर्शी मेधावी
वेत्यर्थस्संगच्छते । वैदिकनिघण्टौ (३-१५) मेधाविशब्दस्य पर्यायवाचकेषु शब्देषु
कविशब्दः पठितः । तादृशस्य कवेः कृतिः काव्यमिति पूर्वमेव प्रतिपादितम् ।
काव्यलक्षणं यथाह मम्मटभट्टः—"तद्दोषौ शब्दार्थौ सगुणावनलङ्कृती
पुनः क्वाऽपि" इति । निर्दोषं सगुणं स्फुटास्फुटालङ्कारञ्च शब्दार्थयुगलं
काव्यमिति लक्षणस्यैतस्य निष्कर्षः । श्रीमतां पुरतस्ससम्मानमुपस्थाप्यमानमेत-
द्विक्रमाङ्कदेवचरिताभिधानं पद्यरत्नं च निरवदोषाभावात्प्रसादादिगुणसहितत्वा-
दुपमाद्यलङ्कारमहितत्वाच्च स्फुटमेव काव्यकोटिमेवाऽङ्गीक्रियते ।
विश्वनाथकविराजस्य "वाक्यं रसात्मकं काव्यम्" इति लक्षणमपि प्रस्तुत-
प्रबन्धस्य वीरशृङ्गारादिरसभूषितत्वात्काव्यत्वाभ्युपगमानुगुणमेव ।
तच्च काव्यं दृश्यत्वेन श्रव्यत्वेन च भेदद्वयविभक्तम् । तत्र चाभिनेयत्वात्
दृश्यत्वस्य, प्रस्तुतकृतेः श्रव्यत्वं निर्विवादम् । तस्यचाख्यायिकाद्यनेकप्रकाराणि ।