वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
६८ | वेदस्वरूप-विमर्शः
प्रसादाद्विशिष्टज्ञानेन स्तुतिं प्रयुङ्क्त इति विवक्षितम्, तदा देवता-
प्रसादात् प्राप्तेन मन्त्रेण स्तुतिं प्रयुङ्क्ते इत्येव ग्रहणमुचितम् ।
यदुक्तम्—"न कामना पुरुषविशेषस्यैव भवति । तेन ईश्वरप्रोक्तता
अपौरुषेयता च नोपपद्यत इति । तन्न; कामनायाः पुरुषविशेषाश्रयत्वे-
ऽपि कामपूरकस्तुतिनिर्मातृस्य तदधीनत्वात् । दृश्यन्तेऽद्यापि तत्तत्-
कामनया स्वतःसिद्धैरन्यनिमित्तैर्वा वैदिकैस्तान्त्रिकैश्च मन्त्रैस्तास्ता
देवताः स्तुवन्तः सकामा जनाः ।
बौद्धार्हतादितन्त्रेष्वपि निष्कामबुद्धादिनिर्मिता मन्त्राः सकामै-
स्तत्तत्कामनया प्रयुज्यन्ते । नहि सकामानां स्तावकत्वे स्तुतिवचनान्यपि
तन्निर्मितानीति निश्चेतुं शक्यते ।
अत एव 'एवमुच्चावचैरभिप्रायैर्मन्त्रदृष्टयो भवन्ती'त्येवोक्तम्, न
तु मन्त्रकृतय इति । ऋषीणामभिप्रायैर्मन्त्रदर्शनं भवति । व्याख्यत-
ञ्चैतद् दुर्गाचार्येण—
'एवमनेन प्रकारेण उच्चावचैराभिप्रायैः बहुभिः अथवा प्रकृष्टौ
प्रकृष्टमध्यमैर्मन्त्राभिव्यक्तिनिदानभूतैः ऋषीणां दृष्टयो भवन्ति,
मन्त्रदर्शनानि भवन्ति । विद्यमानानामेव मन्त्राणामृषयो येन
केनचिन्निमित्तेन निदानभूतेन हर्ष-शोक-निन्दा-प्रशंसादिना
मन्त्राणां द्रष्टारो भवन्ति, न तु कर्तार इत्यभिप्रायः ।'
तदेवम् अनादिमन्त्राणामृषयो द्रष्टारो न कर्तार इति ।
तास्त्रिविधा ऋचः—परोक्षकृताः, प्रत्यक्षकृताः आध्यात्मिकाश्च ।
ऋच एव आंतवरामविहितार्थाः, न तथा यजूंषि । तासु विदितासु तानि
विदितानि भवन्ति । परोक्षकृताः ऋचः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते,
प्रथमपुरुषैश्च आख्यातस्य । यथा —
'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रमिद्गाथिनो...' इत्यादिरप्रत्यक्ष-
कृताः मध्यमपुरुषयोगात् । त्वमिति चैतेन सर्वनाम्ना—'त्वमिन्द्र बला-
दधिचिन इन्द्रसृधी जहि' इति । क्वचित् प्रत्यक्षकृताः स्तोवारः, परोक्ष-
कृतानि च स्तोतव्यानि—'माचिदन्याद्विशंसत सख्या अभि प्र गायतोष-
प्रेत । कुशिकाश्चेतयध्वम्' इति ।
वेदस्वरूप-विमर्शः | ६९
उत्तमपुरुषेण युक्ता आध्यात्मिक्यो यथा—
'अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सञ्जयामि शश्वतः ।
मां हवन्ते पितरं न जन्तवो अहं दाशुषे विभजामि भोजनम् ॥' इति ।
वसुनः = धनस्य, पूर्व्यः = प्रथमः पतिः, साम्प्रतमप्यहमेव पतिः ।
अहमेव च शत्रुभ्यः सकाशात् समस्तानि धनानि जयामि, शश्वतो
नित्यकालमेव । किञ्च—मामेव ह्वन्ते = आह्वयन्ति, पितरं न = पितर-
मिव तासु तासु आर्त्तिषु, जन्तवो मनुष्याः । किञ्च—अहमेव दाशुषे =
दत्तवते हवींषि यजमानाय विभजामि, यथार्हं भोजनं धनमित्यर्थः ।
शपथाभिशापयोः उदाहरणम्—'अद्यामुरीय यदि यातुधानो
अस्मि...' इति । वशिष्ठः किल राक्षसमित्यभियुक्तः । सोऽनया ऋचा
शपथं प्रतिपेदे, परञ्चाभिशशाप—
'अद्यामुरीय यदि यातुधानोऽस्मि, यदि वायुस्ततप पूरुषस्य ।
अधा सबीरैर्दशभिर्वियूया यो मा मोघं यातुधानेत्याह ॥'
(ऋ० सं० ७ । १०४ । १५)
अद्यैवाहं म्रिये यदि यातुधानः स्याम् । यदि वाम आयुः ततप तप्तवा-
नहं कस्यचिदपि पुरुषस्य । अथ यदि पुनरयातुधानमेव मां सन्तं यो
मोघमनृतं यातुधानस्त्वमित्याह, स वीरैः दशभिः वियूयाः वियुज्यता-
मित्यभिशापः ।
अथापि परिदेवना कस्मात् ? चिद्भावात् ।
'सुदेवो अद्य प्र पतेदनावृत् परावतं परमा गन्तवा उ ।
अधाशयीत निर्ऋतेरुपस्थेऽथैनं वृका अद्युः ॥'
(ऋ० सं० १० ९५ । १४ ।)
पुरूरवस आर्षं स शोभनो देवः स्यात् योऽद्य तथा प्रियया वियुक्त
अद्यैवा भृगुप्रपातम् अनावर्त्तमानः प्रपतेत । पतितश्च दूराद्दूरतरं गच्छेत् ।
अथ गत्वा शयीत । मृतः सन् निर्ऋतेर्भूमेरुपस्थे उपरि । अथैनं ताम-
वस्थामापन्नं वृका विकर्त्तारश्च शृगालाद्य रवसा रभस्वन्तो वेगवन्तः
देवविमान! So the mantra originally had "देवमानेव" but the compositor set "देवयाने"!
Wait, look at "देवयाने": could that 'या' be 'मा'?
If it's 'मा', then what is 'ने'?
Wait! Could it be "देवमानेव"?
Look:
Letter 1: दे
Letter 2: व
Letter 3: या (has no loop at bottom left, unlike 'मा' which has a clear loop). Wait, but sometimes 'मा' in this font has a small loop?
Letter 4: ने
Is there a 'व' after 'ने'? No, it directly goes to 'चित्रम्'!
Wait, is the 4th letter 'ने'? Or 'त'? No, it has an e-matra: 'ने'.
So it says "देवयाने चित्रम् ॥'"! We must transcribe what is printed.
Wait, look at line 17:
(ऋ० सं० १० । ११७ । १०)
Wait, Rigveda 10.107.10, but the book prints:
(ऋ० सं० १० । ११७ । १०) - it printed ११७ instead of १०७! We transcribe what's printed:
(ऋ० सं० १० । ११७ । १०)
Line 18:
दक्षिणा नाम प्रजापतेर्दुहिता, तया सूक्तमात्मनः स्तुतिसंबद्धं दृष्टम् ।
Line 19
७२
वेदस्वरूप-विमर्शः
तदपि निःसारम्; 'एतत्सूक्तं प्रतिबभौ' इति सूक्तप्रतिभान-
स्यैव स्पष्टतया वर्णनात् । 'मन्त्रदृष्टयः', 'सूक्तं प्रतिबभौ', 'ऋषिर्दर्शनात्'
इत्यादीनि मन्त्र-सूक्त-दर्शन-प्रतिभानबोधकानि निरुक्तवचनानि
दृष्ट्वाऽपि येषां हृदि मन्त्राणां कृतकत्वशङ्का भवेत्, तेषां समाधान-
मपि दुश्शकमेव । अत्र सूक्तप्रतिभानं मन्त्रदर्शनञ्चोक्तम्, न तु
सूक्तार्थप्रतिभानम् मन्त्रार्थदर्शनं वोक्तं न वा सूक्तमन्त्रादिनिर्माणम् ।
न चेश्वरनिर्मिते अपौरुषेये वा सूक्ते तदितिहासगाथामिश्रणा
संभवात् तन्निर्मितत्वकल्पनं युक्तम् ; ईश्वरप्रदत्ते सूत्रार्थभानेऽपि
तत्सम्भवस्य तुल्यत्वात् । यदि च सूत्रार्थप्रतिभाने तत्सम्भवस्तदा
सूत्रेऽपि तत्सम्भवे बाधोभावः समान एव । सर्वत्र हि वेदे फलवन्नि-
श्चितार्थबोधकत्वेन प्रामाण्यम् । गाथेतिहासाख्यायिकादीनामपि तत्रैव
स्वारस्यात्, 'सर्वे वेदा यत्पदमामनन्ति', 'आम्नायस्य क्रियार्थत्वात्'
इत्यादिश्रुतिसूत्रेभ्यः ।
यदपि—"साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृत-
धर्मेभ्य उपदेशेन मन्त्रान् संप्रादुः, उपदेशाय ग्लायन्तोऽवरे बिल्म-
ग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं वेदाङ्गानि च । विल्मं भिल्मं
भासनमिति निरुक्तबलेन ऋषीणां धर्मसाक्षात्कारः, तत्कृताश्च वेदमन्त्राः"
इति प्राहुः । तदपि न सम्यक् ; निरुक्तवचनस्य अन्यथाऽर्थोपपत्तेः ।
तदुक्तं तट्टीकाकृता दुर्गाचार्येण—'ऋषन्त्यमुष्मात् कर्मण एवमर्थवतः
मन्त्रेण युक्तादमुना प्रकारेण एवंलक्षणः फलादिपरिणामो भवतीत्यृषयः,
ऋषिर्दर्शनात् इति वक्ष्यति' (नि० २ । १ ।) । तदेतत्कर्मणः साक्षात् फल-
विपरिणामदर्शनमौपचारिक्या वृत्त्योक्तं साक्षात्कृतधर्माण इति । नहि
धर्मस्य दर्शनमस्ति । अत्यन्तापूर्वो हि धर्मः ।
ननु कथमेवं धर्मशब्दस्य वेदोऽर्थो गृह्यत इति चेत् ? यथा 'सूक्तं
प्रतिबभौ, मन्त्रदृष्टय' इत्यादिषु सूक्तमन्त्रादिशब्दानां सूक्तार्थ-मन्त्रार्थ-
ग्रहणं भवद्भिः क्रियते, तथैवेतद्वेहि । इह तु ब्राह्मणप्रामाण्यमपि वक्ष्यते
इत्यधिकम् । ननु साक्षात्कृतधर्माणं श्रवणमन्तरेणैव मन्त्राणां तपोबलेन
वेदस्वरूप-विमर्शः
७३
साक्षात्कारः, तेऽवरेभ्यः शक्तिहीनेभ्यः श्रुतर्षिभ्य उपदेशेन शिष्यो-
पाध्यायिकया वृत्त्या मन्त्रान् सम्प्रादुः सम्प्रत्तवन्तः ।
ऋषीणां तपोमाहात्म्यात् उपदेशमन्तरेव वेदादेव संशयविपर्ययादि-
राहित्येन कर्मतत्फलयोः कार्यकारणभावावबोधः । निश्चयाश्रयं साक्षा-
त्कारवदेव संशयादिरहितत्वेन साक्षात्कार उच्यते ।
अन्यैस्तु यागादिमात्रफलं सुखादिकमेव धर्मपदेन लक्षणया उच्यते ।
तस्यैव साक्षात्कारः संभवति, न धर्मस्य ।
अन्यैस्तु धर्मपदेन धर्मावबोधकस्य वेदस्यैव ग्रहणमिष्यते । अत्रार्थे
ब्राह्मणमपि—'तद्यदेनांस्तपस्यमानान् स्वयम्भु ब्रह्माम्यनार्षत् । तदृषीणा-
मृषित्वम् ' मन्त्रसाक्षात्कर्तृत्वेनैव ऋषित्वम् ।
एवं साक्षात्कृतधर्मभिरसाक्षात्कृतधर्मेभ्यो मन्त्रदानम् । अथ तेऽपि
उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं
वेदाङ्गानि च कथं नामोपदिश्यमानमेते शक्नुयुर्ग्रहीतुमित्येवमर्थमधिकृत्य
ग्लायन्तः खिद्यमानास्तेष्वनुगृह्णन्तस्तदनुकम्पया तेषामायुषः सङ्कोच-
मवेक्ष्य कालानुरूपाञ्च ग्रहणशक्तिं बिल्मग्रहणाय इमं ग्रन्थं वेदं
वेदाङ्गानि समाम्नातवन्तः ।
कथं पुनः समाम्नासिषुरित्याह—वेदं तावदेकं सन्तमतिमहत्त्वाद् दुर-
ध्येयमनेकशाखाभेदेन समाम्नासिषुः सुखग्रहणाय व्यासेन समाम्नात-
वन्तः । तद्यथा—एकविंशतिधा बाह्वृच्यमेकशतमध्वर्यवं सहस्रधा साम
नवधा आथर्वणम् । वेदाङ्गानि च व्याकरणमष्टाधा निरुक्तं चतुर्दशधे-
त्येवमादि । एवं समाम्नासिषुर्भदेन ग्रहणार्थम् ।
कथं नाम भिन्नान्येतानि शाखान्तराणि लघूनि सुखं गृह्णीयुरेते
शक्तिहीना अल्पायुषो मनुष्या इत्येवमर्थं समाम्नासिषुः—बिल्मं भिल्मं
वेदानां भेदनम् । भेदो व्यासः भासनमिति । अथवा भासनमेव बिल्म-
शब्देनोच्यते । वेदाङ्गविज्ञानेन भासते प्रकाशते वेदार्थ इत्यत इदमुक्तं
बिल्ममिति ।
एवमेव 'ऋषिर्दर्शनात्' (२ । ११) इत्यत्राप्युक्तम् । पश्यति ह्यसौ
सूक्ष्मानप्यर्थान् स्तोमान् ददर्शेत्यौपमन्यव आचार्यो मन्यते । ब्राह्मणञ्चात्र
वेदस्वरूप-विमर्शः (पृष्ठ ७४)
भवति-'तद्यदेनांस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यनार्षत् स्वयम्भु अकृतक-
मभ्यागच्छत, अनधीतमेव तत्त्वतो ददृशुस्तपोविशेषेण । एवमुच्चावचै-
रभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ती'ति (७।३) निरुक्तोक्तव्याख्याने दुर्गा-
चार्येणोक्तम् । विद्यमानानामेव मन्त्राणामृषयो येन केनचिन्निमित्तेन
निदानभूतेन हर्ष-शोक-निन्दा-प्रशंसादिनाभन्मन्त्राणां द्रष्टारो भवन्ति, न तु
कर्त्तार इत्यभिप्रायः ।
यदप्युक्तम् - " 'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामा-
ण्यात्' इत्यत्र गोतमेनोक्तं यथाफलसिद्धिं दृष्ट्वा स्थालीपुलाकन्यायेन
चायुर्वेदस्य प्रामाण्यं भवति, तथैव वेदानार्माप वात्स्यायनेन तदेव
[
७६ वेदस्वरूप-विमर्शः
यद्युक्तम्-
'रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥'
(ऋ० ३ । ३३ । ५)
अस्यार्थः-हे सुजला नद्यः मन्मधुरवचनैः शीघ्रगमनान् मुहूर्तार्थं
विश्राम्यताम् । कुशिकस्य पुत्रोऽहं स्वात्मरिरक्षिषया मनीषाऽनुसारेण
प्रार्थये इति । मन्त्रस्यास्य ऋषिर्नदीः स्तौति । निरुक्तकृता चाख्यान-
मिदमुक्तम् । विश्वामित्रो पैजवनः सुदासस्य राज्ञः पुरोहित आसीत् । स
राज्ञः सकाशात् बहूनि धनान्यादाय शतद्रु-विपाशवसङ्गममुपाययौ ।
तरणमार्गमनालक्ष्य नदीस्तुष्टाव । पूर्वं प्रत्याख्याय पश्चात् ताभिर्मार्गो
दत्तः । अत्रापि अस्मच्छब्दार्थैः कुशिकपुत्र एव, न सर्वे उच्चारयितारः ।
एवम्-
[L1
७८ वेदस्वरूप-विमर्शः
आभोगयम् उपभोग्यं सोममिच्छन्तः यत् यदा प्र ऐतन तपश्चरितुमरण्यं
गतवन्तः । ऋभवो हि सुधन्वन आङ्गिरसस्य पुत्राः । 'ऋभुर्विभ्वावाज
इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः' (नि० ११।१६) । कुत्सो-
प्याङ्गिरसः, अतस्तेन 'मदीया ज्ञातय' इत्युक्तम् । हे सौधन्वनासः सुधन्वनः
पुत्राः तदानीं चरितस्य तपसो भूम्ना बहुत्वेन दाशुषः हवींषि दत्तवतः
सवितुः सोमाभिषवं कुर्वतः यजमानस्य गृहं तृतीयसवनाख्य मागच्छत ।
एतत्सर्वम् 'आर्भवं शंसति' (ऐ० ब्रा० ३।३०) इत्यादौ स्पष्टम् । आसमन्ता-
द्भोग आभोगः, तदर्हः आभोगयः, 'छन्दसि च' इति यः । 'यस्य' इति
लोपाभावश्छान्दसः । ऐतन, लङि मध्यमबहुवचनस्य थस्यतादेशः ।
तस्य तनबादेशः, आडागमो वृद्धिश्च ।
अत्र ऋभुदेवताः स्वपूर्वजा इति कुत्सेन ऋषिणोक्तम् । पुराणा-
दिभ्यः प्रसिद्धः कुत्सकुलस्य ऋभोत्पत्तिः । कथञ्चैतत् सर्वेषु वक्तृषु
संभवति ? तेनात्रापि वक्तृविशेष एव ग्राह्यः ।
क्वचिदेवमपि भवति—यत्र ऋषिभिर्देवतामुखेन स्ववक्तव्यविषयाः
प्रकटिताः । यथा—इन्द्रागस्त्यसंवादे वागाम्भृणीये सूक्ते देवतैव
ऋषिः । सैव तन्नास्मच्छब्दग्राह्या । ऋषेर्नाम तत्राध्ययनमेव । एवमेव
'अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरुत', 'इति शुश्रुमधीराणां येनस्त-
द्व
" "ता"...
Look at the first character:
It has 'व' with 'य' = व्य!
Then 'व'!
Then 'स्था'!
Then 'पि'!
Then 'ता'!
"व्यवस्थापितादोषाणाञ्च"!
Wait, let's look:
व्य (vya) - व (va) - स्था (stha) - पि (pi) - ता (tā) - दो (do) - षा (ṣā) - णा (ṇā) - ञ्च (ñca)!
Wait, why would it be "व्यवस्थापितादोषाणाञ्च"? Or "व्यवस्थापितानां दोषाणां च"?
Wait, does it have an anusvara over ता? No.
Does it say: "उपस्थापितानां"?
Let's look closely at line 13:
'आख्या प्रवचनादि'त्यत्र
Wait, Sutra is: "आख्या प्रवचनात्" (Purva Mimamsa Sutra 1.1.30: "आख्या प्रवचनात्")!
In Mimamsa Sutra 1.1.30: "आख्या प्रवचनात्" (names like Kathaka, Kauthuma are due to teaching/recitation, not authorship).
Swami Karpatri writes:
'आख्या प्रवचनात्' (or प्रवचनादि) इत्यत्र...
Wait, in the text:
'आख्या प्रवचनादि'त्यत्र
Then:
Look at the first letter after space:
Here is the complete, line-by-line transcription of the provided image into pure, clean Markdown in Unicode Devanagari:
Left Page
तत्प्रसादस्य निर्हेतुकत्वे सर्वत्र प्रसङ्गात् , तपोधोगादिहेतुकत्वे तु तेनैव
तेषामतीन्द्रियार्थज्ञानलाभसंभवाच्च । किञ्च-भवतां वेदस्य प्रामाण्य-
मार्षार्योक्तत्वेन । ऋषीणामाप्तत्वम ईश्वरप्रसादजज्ञानेन । परमेश्वर-
तत्प्रसादसिद्धिश्च वेदेन चेत् चक्रकप्रसङ्गः । न च स्वतन्त्रेणानुमानेन
तत्सिद्धिः ; तत्र बाधादिदोषस्य उक्तत्वात् । तत्सिद्ध्यावपि तदनुग्रहजं ज्ञानं
तन्त्रादिमूलभूतं कुरान-बाइबिलादिमूलभूतं वेदमन्त्रमूलभूतं चेत्यत्र विनि-
गमनाविरहात् तदसिद्धेः ।
यदप्युक्तम् – “ज्ञानं नेन्द्रियग्राह्यम्, तस्य स्वतःप्रकाशत्वात् । न च पुरुष-
प्रयत्नसाध्यम्; तस्य श्रुतिषु नित्यत्वश्रवणात्, पञ्चदश्यादिग्रन्थेषु सयुक्ति
स्पष्टमुपपादितत्वाच्च । तस्मात् तद्धरौपेयमेवे”ति । तदप्युपहासास्पदम् ;
नैयायिकवैशेषिकैश्च ज्ञानस्यानित्यत्वाभ्युपगमात् । न च नैयायिकादि-
मतमग्राह्यमिति वाच्यम् ; तथारवे तन्मतरीत्या अलौकिकज्ञानस्यापि
असिद्धत्वात् । किञ्च-वेदपौरुषेयत्वसिद्धये योगजसामर्थ्यातिशयसाधनाय
गुणवद्वक्तृकत्वेन शब्दप्रामाण्यसिद्धये च नैयायिकादिमताश्रयणम्,
ज्ञाननित्यत्वसिद्धये च वेदान्तमताश्रयणमिति अर्धजरतीयमेव ।
किञ्च-“यथा शब्दनित्यत्वेऽपि न वेदस्य नित्यत्वम्, तथात्वे रघुवंशादि-
शब्दानामपि नित्यत्वापत्तिरि”त्यादिकमुक्तम् । तथैव ज्ञाननित्यत्वेऽपि
वेदस्य न नित्यत्वम् , अन्यथा बौद्धाद्यागमानामपि तथात्वापत्तिः
किं न तर्क्यते ? वृत्त्यात्मकस्य ज्ञानस्य अनित्यत्वं तु स्पष्टमेव ।
यदप्युक्तम् – “ईश्वरप्रसादजे ज्ञाने न पुरुषप्रयत्नापेक्षे”ति । तदप्य-
सङ्गतम् ; पुरुषप्रयत्नानपेक्षारणे सर्वस्यापि तदापत्तेः। ईश्वरप्रसादजमपि
ज्ञानं प्रयत्नजन्यमेव । अन्यथा प्रसादजत्वानुपपत्तेः । अनादित्वसमर्थन-
मपि निष्प्रमाणकमेव । यदि प्रतिकल्पमेवंविधज्ञानस्य ऋषिभिः प्रणी-
यत्वात् प्रवाहरूपेण ज्ञाननित्यत्वमास्थीयते तदा प्रतिकल्पं स्पष्टमुक्त-
त्यात् ऋषिभिर्मन्त्रदर्शनमेव कुतो नास्थीयते ? यद्यनादिशब्दे परिदेवन-
वक्तृविरोपोल्लेखादिकं न संभवति, तदा वरुज्ञानेऽपि तत्समानमेव ।
यदपि – “वागात्मकस्य वेदस्य अकृतकत्वबोधिकानाम ‘वाचा
विरूपनित्यया’, ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा’, ‘आदौ
Right Page
वैदमयी दिव्या यतः सर्वाः प्रवृत्तयः' इत्यादिश्रुतिस्मृतीनाम् अर्थान्तरपरत्व-
सुपवर्णितमि”ति । तदपि न सङ्गतम्; तदसंभवस्य उक्तत्वात् ।
यदुक्तम्-“यदि वै प्रजापतेः परमस्ति वागेव तत् ( शतपथब्राह्मणे
३ । १ । ३ । ११ ) इति वाजसनेयशृतौ श्रुतां वाचमुपलक्ष्यैव तन्न
नित्यत्वप्रतिपादनम् । न च सा वागियमेवेति सुधा भ्रमितव्यम्; तस्याः
सर्वलोकात्मकतया त्रैलोक्यात्मकतया सूर्यात्मकतया च अन्यत्र बहुधा
श्रयमाद्यत्वात् । तथा हि-‘वागेवेदं सर्वम्’ ( ऐतरेय ), ‘त्रयं वै विद्या
ऋचो यजूंषि सामानि । इयमेवर्क् अन्तंरिक्षमेव यजूंषि द्यौः
सामानि ।’ ‘तद्वा एतत्सहस्रं वाचः प्रजातम् । हे इन्द्रस्तृतीये तृतीयं विष्णोः
ऋचश्च सामानि च । तेजसो वै तत् तेजोऽजायत । यदृचश्च सामाश्चेन्द्रः ।
इन्द्र इति ह्येतं तमाचक्षते च एष तपति स हैष भर्ता' इति पुरश्चारणश्रुतिः
त्रैलोक्यात्मकत्वमाचष्टे । 'संवत्सर एवाग्निः । तस्य वा एतस्य वागेवो-
पनिषत् । सा वा एषा वाक् त्रेधा विहिता ऋचो यजूंषि सामानि ।
तेनाग्नित्रेधा विहितः । सा या वाक् असौ स आदित्यः । मह्णलमन्वेवर्क्ः
अर्चिः सामानि पुरुषो यजूंषि । अथैतद् भूतम् । यदेतदर्चिर्र्दीप्यते ।
इयं तत्पुष्करपर्णम् । यदेतन्मण्डलं तपति तन्महदुक्थम् ।’ एतदभि-
प्रायेणैव ‘तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे’ ( ऋ० सं०
१० । ९० । ९ ) इति ऋग्यजुःसामां यज्ञप्रभवत्वमाख्यायते” इत्यादि ।
तदपि न सङ्गतम्; उक्तश्रुतीनामन्यार्थत्वात् । तथा हि-यदि वै
प्रजापतेः परमस्ति वागेव तदिति नानेनापि वचनेन शब्दात्मक-
वाग्व्यतिरिक्त-भूतभौतिकोपादानभूतं किमपि नित्यं तत्त्वान्तरं विव-
क्षितम् । न च प्रजापतेः परत्त्वादेव तत् कल्पयितुं शक्यम्; अव्यक्तशन्द-
ब्रह्माद्यवस्थापि परत्वोपपत्तेः, तत्रैव शतपथे सिद्धान्ते शाखान्तरीयवत-
परत्वस्य खण्डितत्वाच्च । तथा हि-
'तद्वैके वाच उत्तममालभन्ते । यदि वै प्रजापतेः परमस्ति
वागेव । तदैतद्वाचमुज्जयाम इति तद्वदन्तः । तदु तथा न कुर्यात् ।
८४ वेदस्वरूप-विमर्शः
सर्वं वा इदं प्रजापतिः। यदिमे लोकाः यदिदं किञ्च सा।
यदैव लोको वाग्वदति तद्वाचमुज्जयति । तस्मात् तन्नाद्रियेत ।'
( शतपथ ३ । १ । ३ । ३ )
अयमभिप्रायः केचित् सप्तदश-प्राजापत्यपशूनामन्ते वाग्दैवत्यं पशु
मामनन्ति । तत्र चोपपत्तिं वदन्ति । तेषां पक्षं निरसितुमनुवदति - तद्धैके
वाच इति । 'वाच उत्तममेके' इति कात्यायन-श्रौतसूत्रमप्यत्र अनुकूलम् ।
एके शाखान्तरीया वाचे वाग्देवतायै उत्तममन्ते कर्तव्यत्वात् चरमं तम्
आलभन्ते । नहि प्रजापतेः परम् उत्कृष्टं पूर्व-भावि किञ्चिदप्यस्ति,
यदर्थं पशुरालभ्यते । यद्यस्ति, वागेव अस्ति, तस्या अव्यक्तशब्दब्रह्मत्वेन
पूर्वमवस्थानात् । ता उज्जयामः साधयामः इति बुद्ध्या वाग्दैवत्यः पशु-
रालम्भनीय
६६ वेदस्वरूप-विमर्शः
रित्कायाः कस्याञ्चित्सुन्दतौ अनुपयोगात् । ‘वागेवेदं सर्वम्’ इत्यादिकमपि
वाच्यवाचकभेदाभिप्रायेण द्रष्टव्यम् । ‘ओमित्येतदक्षरमिदं सर्वं
तस्योपव्याख्यानं भूतं भवद्भविव्यदिति सर्वमोङ्कार एव । यच्चान्यत्
त्रिकालातीतं तदप्योङ्कार एवे’ति माण्डूक्यश्रुतेः, ‘यदिदमर्थजातमभि-
धेयभूतं तस्याभिधानाव्यतिरेकात्, अभिधानञ्च ओंकाराइयतिरेका-
दोङ्कार एवेदं सर्वमिति शाङ्करभाष्याच्च ।
यदुक्तम्-“रूपिद्रव्यस्य चक्षुषा यावत् स्वरूपमुपलभ्यते सा ऋक् ।
यावद् दूरं तद् द्रष्टुं शक्यते, तदन्तिमं मण्डलं साम । अनयोर्मध्ये यावन्त-
स्तद्द्रव्यसंसक्ताः प्राणास्तद् यजुः । एवमेव इन्द्रियान्तरग्राह्येषु पदार्थे-
ष्वप्यनुसन्धेयमिति वितानवेदा” इति । तन्न; अस्याः कल्पनाया
निर्मूलत्वस्य उक्तत्वात्, रसस्पर्शादीनामिन्द्रियग्राह्याणां दूरत्वाभावेन
तत्र साम-यजुषोरभावापत्तेश्च ।
‘प्रजापतिर्लोकानभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयीविद्या संप्रा-
स्रवत् । तामभ्यतपत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रा-
स्रवन्त भूर्भुवः स्वरिति । तान्यभ्यतपत् । तेभ्योऽभितप्तेभ्य
ओंकारः संप्रास्रवत् । तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ-
ण्णानि एवमोङ्कारेण सर्वा वाक् सन्तृण्णा । ओंकार एवेदं सर्वम् ।’
( छान्दोग्य० २ । २३ । २ )
अत्र सर्वसारत्वेन ओङ्कारस्य सर्वरूपत्वमुक्तम् । तस्यापि वागभि-
व्यङ्ग्यत्वात् वाग् रूपत्वाच्च वागेवेदं सर्वं सुपपद्यते । प्रजापतिर्विराट्
कश्यपो वा लोकानुद्दिश्य तेषु सारजिघृक्षया अभ्यतपत् ध्यानं
कृतवान् । ततः सारभूता त्रयीविद्या संप्रास्रवत् प्रजापतेर्मनसि
प्रत्यभात् । तस्यास्तिस्रो व्याहृतयः, ताभ्यः प्रणव इति श्रुत्यर्थः ।
‘एषां भूतानां पृथिवी रसः, पृथिव्या आपो रसः, अपामोषधयो रसः,
ओषधीनां पुरुषो रसः, पुरुषस्य वाग् रसः, वाच ऋग् रसः, ऋचः साम
रसः, साम्नो वाक्ः’ इत्यादि सर्वरसरूपत्वमुक्तम्, सर्वभूतरसरूपत्वा-
दपि सर्वरूपत्वं वाचः सङ्गच्छते ।
वेदस्वरूप-विमर्शः ८७
'प्रजापतिर्लोकानभ्यतपत् । तेषां तप्यमानानां रसान् प्रावृह-
दग्निं पृथिव्याः वायुमन्तरिक्षादादित्यं दिवः ।' छा० ४।१७।१ )
अत्रापि सारजिघृक्षया ध्यानलक्षणं तपश्चचार, तेषां रसान् सार-
रूपान् प्रावृहत् उद्धृतवानित्यर्थः ।
'एतास्तिस्रो देवता अभ्यतपत् । तासां तप्यमानानां रसान्
प्रावृहदग्नेऋचो वायोर्यजूंषि सामान्यादित्यात् ।'
ततोऽपि सारं रसं त्रयीं विद्यां जग्राह इत्यर्थः । अग्निवाय्वादित्यसार-
रूपत्वादेव ऋगादीनामग्न्यादिभ्य उत्पत्तिर्वर्णिता ।
'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥'
इत्यस्य मनुवचनस्याप्ययमेवार्थः । एतेन "ऋक्प्रतिपाद्यत्वेन अग्ने-
ऋग्जनकत्वमित्युक्तिः परास्ता; प्रत्यक्षातिरिक्तस्थले विषयस्य प्रमा-
हेतुत्वानुपपत्तेः ।
'त्रयी वै विद्या-ऋचो यजूंषि सामानि । इयमेवर्गाऽस्याः ह्यर्चति
योऽर्चति स वागेवर्ची वाचा ह्यर्चति योऽर्चति सोऽन्तरिक्षमेव
यजूंषि द्यौः सामानि । सैषा त्रयी विद्या सोम्येऽध्वरे प्रयुज्यते ।'
( शतपथ ४ । ५ । ६ । ७ )
अत्रापि 'अस्या ह्यर्चति' इत्यर्चत्कारणत्वात् इमा ऋच उक्ताः ।
ऋक्शब्दे पृथिव्याञ्च शब्दस्य व्युत्पत्तिं दर्शयति । पृथिव्यां कारणत्वा-
नुपपत्तेरधिकरणत्वं दर्शितम् । शब्दात्मिकायामस्यां ह्यर्चतीति पृथिवी-
त्वेन स्तूयते । एवं वाचार्चति । अत्र सर्वत्र केनचिद्योगेन पृथिव्यां
वाचि ऋग्दृष्टिः, अन्तरिक्षे यजुर्दृष्टिः, दिवि च सामदृष्टिः क्रियते ।
'तद्वा एतत्सहस्रं वाचः प्रजातं द्वे इन्द्रस्तुतीये तृतीयं विष्णु-
र्ऋक्च सामानि चेन्द्रो यजूंषि विष्णुः । तस्मात् सदस्पृक्-
सामाभ्यां कुर्वन्ति । ऐन्द्रं हि सदः ।'
एतदर्थस्तु हरिस्वामिभिरुक्तः — तदेतत् त्रयीविद्यात्मकं सहस्रं बहु-
त्वं वाच आध्यात्मिकायाः प्रजातम् = वागिन्द्रियाणामग्न्यादीनामभि
८८ वेदस्वरूप-विमर्शः
व्यक्तिः। अधियज्ञियायाश्च शब्दमात्रात्मिकाया ऋगादेः प्रजातं विशेष-
विकासादिकेत्युपचर्य वाचा गायत्र्याविति छन्दांसि प्रजातम्।
तस्यास्य सहस्रस्य वाचः प्रजातम्। द्वे तृतीये द्वौ विभागौ, इन्द्र एकम्,
तृतीयं विष्णुरित्यधिदैवम् । इन्द्राविष्ण्वोर्हि तौ शब्दशेषावित्यर्थः।
ऋचश्च सामानि चेन्द्र इति विभागात्तावद्धनम्। तस्मात्सदसीति
यस्माद् दृष्टो नैव इन्द्रस्तस्मात् ताभ्यां सदसि स्तोत्रादिकं कुर्वन्ति।
ऐन्द्रं हि इन्द्रस्य स्वभूतं सदः, स्वायतने युक्तं स्तोत्रम् । वेदसिद्धस्यैव
चायं सदसिकरणस्यानुवादो वक्ष्यमाणमिथुनोपोद्घाताथंम् !
अत्रापि वाक्शब्देन आध्यात्मिकी वाक् स्पष्टमुक्ता। नात्र भूत-
भौतिकोपादानलक्षणा काचिदुक्ता । तस्या ऋगादीनामभिव्यक्तिः,
तेषु च इन्द्रा
३० वेदस्वरूप-विमर्शः
'यदेतद् गम्यते वाच ऋक् सामात्मिकाया सदसश्च यजुरात्म-
कस्य तिरोहितमिदं मिथुनं चर्य्याते । एतद्धार्थ्यमानाः परि-
श्रयन्ति । तद्वा एतत्सद्ः परिश्रयन्ति एतस्मै मिथुनाय तिर इवेदं
मिथुनं चर्य्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति ।
तस्मात् यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येवद्रवत
आग एव कुर्व्वाते । तस्मादद्वारेण सदः प्रेक्षमाणं ब्रूयान्मा
प्रेक्षथा इति । यथा ह मिथुनं चर्य्यमाणं पश्येदेवं तत् । कामं
द्वारेण । देवकृतं हि द्वारम् ।'
एवमेव हविर्द्धानं परिश्रयन्ति ... 'तद्वा एतद्वृषा साम योषा-
मृचं सदस्यध्येति । तस्मान्मिथुनादिन्द्रो जातस्तेजसो वै तत्
तेजो जातम्, यदृक्श्च साम्नश्चेन्द्रः । इति ह्येतमाचक्षते य
[L1
ि? No, म सि- wait, is itपृष्ठमसि? Wait, look at मand thenसि: Wait, look at मसिinअग्निचयनविधानस्य: the सhas a left curve. Here, afterम, there is सिorभि? Wait, अपां पृष्ठमसिis the famous mantra for the lotus leaf (puṣkara-parṇa) in Agnicayana: "अपां पृष्ठमसि..." (Śatapatha Brāhmaṇa 7.3.2.14: 'अपां पृष्ठमसि' इति पुष्करपर्णमुपदधाति). Wait, in the print: is it'अपां पृष्ठमसि'ति? Let's look at the character: पृ ष्ठ म सि ’ तिWait, there isम, then सि! The सिis slightly merged withमor justमसि! Yes, 'अपां पृष्ठमसि'ति`!
Line 57:
पर्णमुपधाय तस्योपरि अग्नेश्चयनं कर्तव्यम् । तेन तदात्मकेऽमृते अर्चि-
Line 58:
र्मये आदित्ये अयमुपासिता स्वीयमात्मानं वेदत्रयरूपं चित्याग्निरूपं
Line
६४ वेदस्वरूप-विमर्शः
तेन "सूर्यमण्डलसम्बन्धेन सौरत्रिलोकीरूपाणि ब्राह्मणेऽत्र
व्याख्यातानि । सूर्यमण्डलस्थोऽग्निः सौरप्राणरूपो यो ब्रह्माण्डमभि-
व्याप्रोति यश्च सर्वेषां लोकवेददेवभूतादीनां जनकः श्रुतिभिः प्रति-
ज्ञायते सोऽत्र पुरुषपदेन यजुःपदेन श्रुतः” इत्यादिकमपास्तम् । सर्व-
स्यैतस्य प्रकरणासम्बद्धत्वात् ।
"गायत्री वा इदं सर्वभूतं यदिदं किञ्च । वाग्वै गायत्री, वाग्वा
इदं सर्वभूतं गायति च त्रायते च ।'
अत्र छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं
शब्दरूपामापादयति- 'वाग्वा इदं सर्वं भूतं गायति, अयं गौरयमश्वः
त्रायति च मा भैषीः। अत्र सर्वस्य गानात् त्राणाच्च वाचः सर्वरूपत्व-
मुक्तम् । 'असौ वाव लोको गौतमाग्निः, योषा वाव गौतमाग्निः'
(बृह०) इतिवच्च तेषु तेषु ऋगादिदृष्टिः कर्तव्या, न तत्रा भेदभ्रान्तिः
कार्या।
"वाग्वाव नाम्नो भूयसी । वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदम् । स
यो वाचं ब्रह्मेत्युपास्ते' (बृहदा०) इत्यादौ -
'एष उ बृहस्पति र्वाग्वै बृहती। एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म
तस्या एष पतिः । त्रयो लोका एत एव । वागेवायं लोको मनो
ऽन्तरिक्षलोकः प्राणोऽसौ लोकः । वागेवर्ग्यदो मनो यजुर्वेदः
प्राणः सामवेदः । वागेव देवाः, मनः पितरः, प्राणो मनुष्याः ।
'मन एव पिता वाङ् माता प्राणः प्रजा वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधा-
कारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारञ्च
वषट्कारञ्च । हन्तकारं मनुष्याः, स्वधाकारं पितरः ।
प्राणो ऋषभः, मनो वत्सः।'
सर्वथाप्येवंजातीयकैर्वाक्यैर्न कथमपि वागादीनां स्वरूपं निर्धारयितुं
शक्यम्, तेषामुपासनादिपरत्वेन तत्त्वतो वागाद्यभेदप्रतिपादने तेषां
तात्पर्याभावात् ।
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न । 'विशेषात्'
(२।३।१५) इति ब्रह्मसूत्रे सेन्द्रियस्य मनसो बुद्धेश्च उत्पत्तिप्रलयौ
वेदस्वरूप-विमर्शः ६५
विचारितौ । तत्र करणानां भौतिकत्वात् भूतोत्पत्तिप्रलयाभ्यामेव
तदुत्पत्तिप्रलयावपि व्याख्यातौ । करणानां भौतिकत्वे लिङ्गमुक्तम् -
'अन्नमयं हि सोम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्' (छा०
६।५।४) इति । भूतानां करणानाञ्च पृथग् व्यपदेशो ब्राह्मण-
परिव्राजकन्यायेन ज्ञातव्यः। यद्यपि क्वचित् 'स मनोऽसृजत तन्मन
एवासीत् । तदात्मानमेवैक्षत् स वाचमसृजत्' इति भूतक्रमात् पृथक्
करणक्रमः श्रूयते, तथापि विभक्तत्वान्मनःप्रभृतीनां कारणापेक्षायाम्
'अन्नमयमन' इति लिङ्गश्रवणादपेक्षितार्थ कथनात् विकारार्थत्वमेव
मयटो युक्तम् । इतरथा त्वनपेक्षितमेवोक्तं भवेत् । पाठक्रमादर्थक्रमो
बलीयानिति न्यायेन भूतानन्तरमेव मनःप्रभृतीनां निवेशो युक्तः ।
'तत्पूर्वकत्वाद्वाचः' (ब्र० सू० २।४।४) वाक् प्राण-मनसां
ब्रह्मप्रकृतिक-तेजोबन्नपूर्वकत्वाभिधानात् सर्वेषामेव प्राणानां ब्रह्म-
प्रभवत्वमुक्तम् ।
यच्च - "वाक्प्राणमनसां गौणी जनिराख्यायते" इति । तन्न; विकल्पा-
सहत्वात् । तथा हि--वागादीनां जीववत् अविकृतब्रह्मात्मतयाऽनुत्पत्ति-
र्ब्रह्मणस्तत्त्वान्तरतया वा ? नाद्यः; वागादीनां जडत्वेन तदनुपपत्तेः ।
नान्त्यः; तत्त्वान्तरत्वे ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाबाधात् सर्ववेदान्त-
व्याकोपाच्च ।
'भेदश्रुतेः', 'वैलक्षण्याच्च' ( ब्र० सू० १८, १९ ) इति । मनो
वाचं प्राणं तान्यात्मने अकुरुत' इत्यत्र प्राणाद्भेदेन व्यपदेशाद्वैलक्षण्यात्
प्राणाद् भिन्नतोक्ता ।
'यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोकः । अथ
यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकः ।
अथ य एष एतस्मिन् मण्डले पुरुषः सोऽग्निस्तानि यजूंषि
स यजुषां लोकः । सैषा त्रय्येव विद्या तपति .....'
प्रपञ्चस्तु सायणादिभिरुपासनापरत्वेन वर्णितः-यथा मनो ब्रह्म,
आदित्यो ब्रह्मेत्युपासनेषु मनस्यादित्ये च ब्रह्मदृष्टिः क्रियते, तथैव
मण्डले ऋगादिदृष्टिरत्र कर्तव्यत्वेन उपदिष्टा । सूर्यमण्डलार्चिः पुरुष-
An exact, line-by-line transcription of both pages:
[पृष्ठ ६६]
६६ वेदस्वरूप-विमर्शः
त्रयस्य अधिदैवाधियज्ञाध्यात्मपरत्वेनार्थ उच्यते । तत्र चयनगतमहदुक्थं
( महत् पूज्यम् उक्थम् बृहतीसहस्ररूपेन प्रसिद्धो हौत्रे शस्त्रविशेषः
महाव्रतं क्रतुविशेषः ) । 'अथ महाव्रतमिन्द्रो वृत्रं हत्वा महानभवत्
यन्महानभवत् तन्महाव्रतस्य महाव्रतत्वम्' (ऐ० आ० १।१।१)। अग्निः =
अग्न्याुपलक्षितसर्वदेवात्मकोऽग्निः), त्रयं क्रमेण मण्डलार्चिःपुरुषत्वेन
उपासनीयम् । अर्थात् महोक्थमहाव्रताग्निषु मण्डलार्चिःपुरुषदृष्टिः
कर्तव्या। एवमेवाधियज्ञम् । चयनगत-रुक्म-पुष्करपर्ण-हिरण्यपुरुषाणां
मण्डलादित्रयरूपेण उपासनम् । रुक्मादिश्चयनं तु श्रुतिसूत्रादिषु स्पष्टम् ।
'हिरण्यगर्भ' इति मन्त्रेण पुरुषमुपदधाति । अपां पृष्ठमसि पुष्
पृष्ठ ६८
'एतमृग्वेदमभ्यतपन्त्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं
रसो जायते ।'
कर्मणि प्रयुक्ता ऋचः पुष्पस्थानीयं कर्म अभ्यतपन् । ऋग्भिर्मन्त्रैः
शाखाद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं भवति । पुष्पाणीव
भ्रमरैराचूष्यमाणानि । कोऽसौ रसो यो मधुकाराभितापनिःस्रुत
इत्युच्यते ? यशो विश्रुतत्वं तेजो दीप्तिः इन्द्रियवीर्यं इन्द्रियैरवैकल्यं
वीर्यं बलम् अन्नाद्यञ्च येनोपयुज्यमानेन अह्रन्यहनि देवानां स्थितिः
स्यात् । एष रसोऽजायत यागादिक्रतूनाम् कर्मणः ।
'तदुद्यन्नरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतद्यदादित्यस्य रोहितं
रूपं तदेवादित्यमभितः पार्श्वतः पूर्वभागं सवितुराश्रितवत् अमुष्मिन्ना-
दित्ये सञ्चितं कर्म
Wait, look at the repha: the repha is above the third letter?
No, above the second letter: र्व.
Then the third letter is 'म' with something? Or is it 'र्भ'?
Wait, look at line 52:
न च प्राणस्यैव ऋगादित्वेन सर्वार्भतोपपद्यते इति वाच्यम् ;
Wait, why did I type "सर्वार्भतोपपद्यते" in the draft? Because looking at it superficially:
स - र्वा - र्भ - तो - प - प - द्य - ते.
Wait, look closely: is that 'सर्वमतोपपद्यते'?
Wait, what if it is "सर्वमुपपद्यते"?
Is there a 'तो'? Yes, definitely 'तो' (to) is there: त with o-matra.
Wait, before 'तो', what is the letter?
It is 'र्भा' or 'र्भ' or 'म'?
Wait, could it be "सर्वं तत उपपद्यते"?
No, let's look at: स (sa) र्व (rva with anusvara: सर्वं) ?
Wait! "सर्वं तत उपपद्यते"?
Look at the letters:
- स
- र्व with anusvara or repha? It has a repha.
- Then a letter with a vertical stroke
ऋग्वेदादेः न किञ्चिदन्यत् स्वरूपं विहायते । प्राणस्य अवान्तरकारणत्वे
सत्यपि सर्वकारणत्वानुपपत्तेश्च । तेन शालग्रामे विष्णुबुद्धिवत् मनो-
ऽन्नादित्यादिषु ऋगादिबुद्धिर्युक्ता ।
प्रकृतिविकारभावेन सामानाधिकरण्ये विकारोपमर्दबुद्धिरपि जायते ।
'आदित्यं ब्रह्मेत्युपासते यो वाचं ब्रह्मेत्युपासते यः सङ्कल्पं ब्रह्मेत्युपासते'
इत्यादौ तु शुक्तिकां रजतं प्रत्येतीतिवत् ब्रह्मणि आदित्याध्यासो भवति ।
न केवलमादित्यस्यैव ऋक्तत्वादिकम्, किन्तु वागादीनामपि ऋक्तत्वा-
दिकमुक्तमेव । न ह्यत्र मुख्याभेदाभिप्रायेणायं सामानाधिकरण्यप्रयोगः ।
आदित्यादीनां ततो भिन्नत्वेन प्रसिद्धत्वात् । नहि ब्रह्मण इव ऋगादीनामपि
सर्वात्मकता सम्भवति, येन आदित्यादीनां प्रकृतिविकारभावेन सामाना-
धिकरण्यं युज्येत । न च प्राणस्य सर्वकारणत्वात् सर्वरूपत्वं सम्भवति,
ब्रह्मण एव सर्वकारणत्वावधारणात्— 'तेन तं बृहस्पतित्युद्गीथमुपासाञ्चक्रे,
एतमु एव बृहस्पतिं मन्यते वाग्धि बृहती तस्या एष पतिः'
(छा० १ । ३ । ११) ।
'इयमेव ऋग्, अग्निः साम । तदेतस्यामृच्यध्यूढं साम । तस्मा-
दृच्यध्यूढं साम गीयते । इयमेव साग्निरमस्तत्साम ।' ऋचि पृथिवीदृष्टिः
कार्या, सामन्यग्निदृष्टिः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं
तथैतौ पृथिव्यग्नी ।
भाष्यम्— 'कथमियमेव पृथिवी सा साम नामार्कशब्दवाच्या,
इतरार्थशब्दवाक्योऽग्निः । तदेतत्पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्व-
मापन्नम् । तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यं संश्लिष्टमृक्-
सामनी इव । तस्माच्च पृथिव्यग्न्योर्ऋक्सामत्वमित्यर्थः ।
'अन्तरिक्षमेवर्क् वायुः साम" । द्यौरेवर्क् आदित्यः साम" ।'
इत्यादौ एवमेव आदित्यस्य रूपेष्वपि ऋगादिबुद्धिर्विहिता । 'अथ
यदेतदादित्यस्य शुक्लं भाः सैवर्क् । अथ यन्नीलं परः कृष्णं
तत्साम । तदेतदेतस्यामृच्यध्यूढं साम" । नक्षत्राण्येवर्क्, चन्द्रमाः
साम" ।' एवमेव 'वागेवर्क्..., इत्यादिषु सर्वत्र चैवमुपासनार्थमेव
सामानाधिकरण्योपदेशो विशेषः ।
'ऋक सामयोः शिल्पेस्थः' (शुक्लयजु० ४।६) 'ऋक्सामे वै देवेभ्यो
यज्ञार्थं तिष्ठमाने कृष्णरूपं कृत्वाऽपक्रम्य तिष्ठतामेष वा ऋचो वर्णो यच्छुक्लं
कृष्णानि यन्मेध्यं साम्नो यत् कृष्णम्' (तै० ६।१।३) तत्साम्नो रूपमुक्तम् ।
अत्र ऋक्सामभिमानिन्यौ देवते देवानां यज्ञार्थं स्थिते सत्यौ केनापि
निमित्तेन कृष्णमृगरूपं कृत्वा देवेभ्यः पलाय्य दूरे कुत्राप्यतिष्ठताम् ।
नात्र वस्तुतः शुक्लरूपस्य ऋक्त्वं तद्भेदप्रसिद्धिविरोधात् । 'ऋचो
नामारिषं यजूंषि नामारिषं सामानि नामारिषं ये अग्नयः पाञ्चजन्याः अस्यां
पृथिव्यामधि.....' (शुक्ल यजुः ० १८ । ६७) अनेन मन्त्रेण यजमान
आत्मनि वेदत्रयात्मकत्वं सम्पादयति । नात्रापि यजमानस्य ऋगादिनेकत्वं
वस्तुभूतम् । तथैव 'ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं
प्रपद्ये' इत्यत्रापि ऋगाद्यभेदेन दृष्टेषु वागादिष्वेव प्रपत्तिर्ज्ञेया ।
'आयुर्यज्ञेन कल्पताम्.........स्तोमश्च यजुश्च ऋक् च साम च
बृहच्च रथन्तरम्' (शुक्लयजुः ० १८ । १६) इत्यादिनापि स्तोम-
यजुरादीनां यज्ञकृप्तिरपि भावनार्थैव ।
'यस्मिन्नृचः सामयजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥'
इत्यत्रापि मनसः स्वास्थ्ये त्रयीस्फूर्त्तेः संस्काररूपेण मनस्येव ऋगादयः
सन्निहिता भवन्ति । अत एव 'अन्नमयं हि सोम्य मनः' इत्यत्र मनसः
स्वास्थ्ये वेदोच्चारणशक्तिः प्रतिपादिता । 'प्रजानां सर्वं चित्तं ज्ञानं मन-
स्येव तन्तुषु पट इव ततम्' अत्रापि शब्दात्मका एव ऋगादयो बोध्याः ।
सर्वथाऽपि 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा' इत्यादौ
उपदिष्टा वाक् शब्दराशिरूपा वेदत्रय्येव । 'शब्द इति चेन्नातः प्रभवात्
प्रत्यक्षानुमानाभ्याम्', 'अत एव च नित्यत्वम्' इत्यादिसूत्रैस्तस्या एव
भगवत्पादादिभिर्नित्यत्वसाधनात् । सूत्रेण सर्वस्य शब्दप्रभवत्वं साध्यते,
तेन शब्दस्यैव नित्यत्वं स्पष्टमुक्तम् । शब्दात्मिकाया एव वाचः सम्प्रदाय-
प्रवर्त्तनरूप उत्सर्गः । तस्या एव वाचो 'वाचा विरूपनित्यया' इति मन्त्रे-
णापि नित्यत्वमुक्तम् । न चात्र भूतभौतिकोपादानभूतरूपाया वाचो
यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति मूलपाठ प्रस्तुत है:
[पृष्ठ १०४]
नित्यस्योक्तिः; तस्यः सुष्टुतिसाधनत्वासम्भवात् । शब्दात्मिकयैव वाचा
सुष्टुतिः प्रसिद्धा ।
'तस्यै नूनमभिद्यवे, वाचा विरूपनित्यया । वृष्णो चोदस्व सुष्टुतिम्'
एतदर्थस्तु—हे विरूप नानारूपैत्तन्नामक महर्षे त्वं तस्मै अभिद्यवेऽभिगत-
दीप्तये वृष्णे वर्षकाय अग्नये नित्यया उत्पत्तिरहितया वाचा सुष्टुतिं
नूनमिदानीं चोदस्व स्तुहि । विरूप एवास्य षोडशर्चस्य द्रष्टा । अतः
ऋषिरात्मानमेव ब्रवीति, यजमानो वा होतारम् ।
एतेन—'तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि
जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।' (ऋ० सं० १०।६०।६, यजुः० २१।७ )
इत्यादिमन्त्रैश्च प्रसिद्धानामेव ऋक्सामयजुषां यज्ञपदवाच्यात्पर-
मेश्वरादेव आविर्भाववर्णनम् । तस्यैव निःश्वासरूपेणापि प्रसिद्धानाम्
ऋग्वेदादीनामेव प्रादुर्भाववर्णनम् ।
यच्च —"अव्ययपुरुषकला रूपा नित्या मनप्राणवाचः प्रकृतिसम्ब-
न्धेन पुनरपरेश रूपेण प्रादुर्भवन्ति । सोऽयं प्रादुर्भावः सर्वहुन्नामका-
द्यज्ञात् भवति । छन्दांस्यत्र तत्तत्पदार्थानां मर्यादाबन्धः । सर्वस्य पदार्थ-
जातस्य नाभौ केन्द्रे यः प्रजापतिः प्रादुर्भवति तस्य निःश्वासभूता
अथात् केन्द्रमभितो वितता इमा ऋगादिरूपा वाच उच्यन्ते । प्रथमः
प्रजापतिः स्वयम्भूरित्याख्यायते । तथा चोक्तं मनुना—
'ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥' इति ।
एतत् स्वयंभू-मण्डलमृग्यजुः सामेति त्रयीमयम् । अत एव ब्रह्मणः
प्रादुर्भूता वेदा ब्रह्मरूपा एव, ऋगादीनां कार्यब्रह्मास्वरूपानतिरेकात् ।
इत एव स्वयम्भूमण्डलात् व्याख्यातपूर्वा वेदत्रयी सर्वत्र जगति प्रसरति,
ऋग्यजुःसामान्येव स्वयम्भूमण्डलम्य मनोताः । यस्मान्मण्डलाद्ये प्राणा
प्रसरन्ति, सर्वैश्चोपजीव्यन्ते, ते 'मनोता' उच्यन्ते । एवं तिस्र एता
ऋगादिरूपा वाच एव स्वयम्भूमण्डलमुत्पादयन्ति । एतद्वाह्यमेव
स्वयम्भूमण्डलम् । तदनु च तस्मान्मण्डलादिमा एव अंशरूपेण
[पृष्ठ १०५]
निष्क्रम्य अन्यत्र गच्छन्तीति निःश्वासभूता एता उक्ताः । प्राणो हि
शरीरारम्भकः शरीरधारकः । स एव चांशरूपनिःश्वासरूपतामापद्य
शरीराद्बहिर्गच्छतीति निःश्वाससादृश्यम् ।
'एवं वा अरे अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरसः इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राणि
अनुव्याख्यानानि व्याख्यानानि' (बृह० २।४।१०) इत्यत्र महाभूतपदेन
प्रजापतिरेवेष्टव्यः, तस्य प्रतिपाद्यमानात्मब्रह्मस्वरूपानतिरेकात् । यदि
तत्र ऋगादिपदेन प्रसिद्धा विज्ञानरूपा ग्रन्थरूपा वा वेदा गृह्यन्ते, तदा तु
महद्भूतपदेन प्रक्रान्तः शारीर आत्मैव गृहीतुमुचितः, ब्रह्मानतिरेकात्
शारीराद्यात्मन एव विज्ञानघनात् निःश्वासरूपेणानवरतं विज्ञानानां
वृत्त्यात्मकानां प्रादुर्भावदर्शनात्, वेदादिग्रन्थानामपि तत एव प्रवृत्तेः ।
ईश्वरप्रेरितं वेदादिविज्ञानमस्य शरीरस्यान्तः प्रविशति । ततश्च सर्वजन-
बोध्यतामाप्नुवद्वाग्रूपेण निष्क्राम्यतीति निःश्वाससादृश्यम् । अत एव
श्लोकसूत्रव्याख्यानानुव्याख्यानादीनामपि महाभूतनिःश्वसितत्वमुच्य-
मानमाञ्जस्येन उपपद्यते तेषामपि शारीराद्यात्मनः प्रादुर्भावात् ।
यत्तु- 'श्लोकसूत्रादिकं सर्वमन्त्रोक्तं ब्राह्मण एवान्तर्भवती'ति मतम्,
तत्त तत्तद्वेदब्राह्मणानामपि तद्वेदस्वरूपत्वान्तर्भावात् ऋग्यजुःसामपदैरेव
ब्राह्मणानामपि सङ्ग्रहणात् नातीव समञ्जसं प्रतीयते । अत एव 'इमे वेदा
निर्मिता' इति गोपथश्रुतिरपि सङ्गता स्यात् । तदित्थं वेदानामीश्वरस्व-
भावाद् ईश्वरनिःश्वसितत्वप्रवादश्च युक्त्या समर्थितः ।
शरीरे द्विविधाः क्रिया दृश्यन्ते—( १ ) इच्छाजन्याः, ( २ ) इच्छां
विनैव स्वतः प्रवर्तमानाश्च । तत्र श्वासादिकं स्वतःप्रवर्तमानावन्तर्भवति ।
तेनेदमपि विवक्ष्यते यद् इमा ऋग्यजुःसामाख्या वाचः प्रजापतेः
स्वत एव यज्ञप्रक्रियया प्रादुर्भवन्ति, न त्विच्छया उत्थाप्यन्ते । यथा
हि निःश्वासेनैव मनुष्यजीवनस्य परिचयः, तथैताभिर्वाग्भिरेव प्रजापतेः
परिचयः, स्वतः प्रजापतेरतीन्द्रियत्वात् । महतो भूतस्यात्मनोऽपि
वृत्त्यात्मकैर्ज्ञानैरेव परिचयः इत्यादि सादृश्यमुन्नेयम् ।
पृष्ठ १०६
सर्वस्मिंश्च ब्रह्माण्डे मुख्यः प्रजापतिः सूर्यः । तत इमे ऋगादिवेदाः
पुनः पुनः प्रादुर्भवन्ति । अत एव सूर्यप्रभवत्वमुक्तमेषाम् । इमे च
ऋग्गाथा गायत्रीमातृका वेदा इत्युच्यन्ते वैदिकपरिभाषायाम्" इति ।
तदेतत्सर्वमपि अविचारितरमणीयम् ; 'शास्त्रयोनित्वात्', 'शब्द
इति चेन्नान्तः प्रभवात्' 'अत एव च नित्यत्वम्' इत्यादिसूत्रादिविरोधात् ।
तथा हि—शङ्करभगवत्पादैरन्यैश्च भाष्यकारैः शास्त्रयोनित्वादिति शास्त्रस्य
ऋग्वेदादेः परमात्मप्रभवत्वेन परमेश्वरस्य सार्वज्ञ्यसिद्ध्या 'जन्माद्यस्य
यतः' इति जगज्जन्मादिकारणत्वं समर्थितम् । तदुक्तम्—
'महत ऋग्वेदादेः शास्त्रस्यानेकविद्योपबृंहितस्य प्रदीप-
वत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । नही-
दृशस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । ......' यद्यद्विस्तरार्थं शास्त्रं
यस्मात्पुरुषविशेषात् सम्भवति, यथा व्याकरणादि पाणिन्यादे-
र्ज्ञैकदेशार्थमपि ततोऽधिकतरविज्ञान इति प्रसिद्धं लोके ।
किमुत वक्तव्यमनेकशाखाभेदभिन्नस्य सर्वज्ञानाकरस्य
अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवद्यस्मान्महतो भूता-
द्योनेः सम्भवः, तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्व-
शक्तिमत्त्वञ्च" इति ।
न ह्यत्र वाक्प्राणमनसामुत्पत्तिर्वर्णिता, 'जन्माद्यस्य यतः' इत्यनेनैव
तदुक्तत्वात् । न वात्र अवान्तरकारणस्य प्रजापतेः सकाशात् शास्त्रस्य
उत्पत्तिर्विवक्षिता, परमकारणस्यैव प्रक्रान्तत्वात् । 'अस्य महतो भूतस्य'
इत्यत्रापि परमात्मन एव वेदादिकारणत्वमुक्तम् ।
ननु तत्र विज्ञानात्मन एव प्रक्रमः, 'आत्मनस्तु कामाय सर्वं प्रियं
भवती'त्यादिषु पति-जाया-पुत्र-वित्तादिकं हि भोग्यभूतं जगदात्मार्थतयैव
प्रियं भवतीति प्रियसंसूचितस्य भोक्तुरेव उपक्रमात् 'इदं महद्भूत-
मनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विन-
श्यति न प्रेत्यसंज्ञास्ति' इति प्रकृतस्यैव विज्ञानभावेन कथनात् 'विज्ञा-
तारमरे केन विजानीयात्' इति कर्तृवचनेन तस्यैवोपसंहाराच्चेति चेन्न ।
पृष्ठ १०७
वाक्यान्वयाधिकरणे बादरायणेन प्रकरणस्यास्य परमात्मप्रकरणत्वाव-
धारणात् 'अमृतत्वस्य तु नाशास्ति' इति याज्ञवल्क्यादुपश्रुत्य 'येनाहं
नामृता स्यां किमहं तेन कुर्याम्' इत्यमृतत्वमाशासानाया मैत्रेय्या
अमृतत्वसाधनोपदेशात् ।
न च परमात्मविज्ञानादन्यत्र अमृतत्वं सम्भवति ; 'तमेव विदित्वाति-
मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इतिश्रुतेः, 'आत्मनो वा अरे दर्शनेन
श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्'ति आत्मविज्ञानेन सर्वविज्ञानं
चोक्तम् । अत्र आत्मशब्देन परमात्मग्रह एवोपपद्यते, सर्वकारणब्रह्म-
विज्ञानेनैव सर्वविज्ञानाय 'तदनन्यत्वमारम्भणशब्दादिभ्यः' ( ब्रह्मसूत्र )
इत्यादिषु प्रतिपादनात् । न चात्र औपचारिकं सर्वविज्ञानं सङ्गतम् ;
'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' इत्यादौ चात्मनोऽन्यत्र स्वातन्त्र्येण
लब्धसद्भावं ब्रह्माक्षत्रादि जगत् पश्यन्तं तदेव ब्रह्माक्षत्रादिकं पराकरोतीति
भेददृष्टिमपोद्य 'इदं सर्वं यदयमात्मे'ति सर्वस्य वस्तुजातस्य दुन्दुभ्यादि-
दृष्टान्तैरात्माव्यतिरेकप्रतिपादनात् । प्रियसंसूचितस्य द्रष्टव्यत्वसङ्कीर्तनेन
आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीत्यस्याः प्रतिज्ञायाः 'सिद्धि-
रित्याश्मरथ्यः, उत्क्रमिष्यत एवं भावादित्यौडुलोभिः, अवस्थितेरिति
काशकृत्स्नः' इत्यादिसूत्रैरयमर्थो भाष्ये विशदः ।
न च परमात्मनः पुराणेतिहासश्लोकसूत्रादीनां कुतो निर्माणसम्भवः,
तेषां तत्तदृषिकर्तृत्वनिश्चयादिति वाच्यम्; पुराणादिपदैः ब्राह्मण-
विशेषाणामेवोत्पत्तेर्भगवत्पादैर्व्याख्यातत्वात् । तथा हि—
'ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इति चतुर्विधं मन्त्र-
जातम् । इतिहास इति उर्वशीपुरूरवसोः संवादादिः ।
'उर्वशी हाप्सरा' इत्यादिब्राह्मणमेव । पुराणम् 'असद्वा इदमग्र
आसीत्' इत्यादि । विद्या देवजनविद्या सोऽयमित्याद्याः ।
उपनिषदः 'प्रियमित्येतदुपासीते'त्याद्याः । श्लोका ब्राह्मण-
प्रभवा मन्त्राः 'तदेते श्लोका' इत्यादयः । सूत्राणि वस्तुसङ्ग्रह-
वाक्यानि यथा 'आत्मेत्येवोपासीते'त्यादीनि, अनुव्याख्यानानि
मन्त्रविवरणानि । व्याख्यानानि अर्थवादाः•••• •••इत्यष्टविध