वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 52, कुल 237 में से
संदर्भ में पढ़ें७८ वेदस्वरूप-विमर्शः
आभोगयम् उपभोग्यं सोममिच्छन्तः यत् यदा प्र ऐतन तपश्चरितुमरण्यं
गतवन्तः । ऋभवो हि सुधन्वन आङ्गिरसस्य पुत्राः । 'ऋभुर्विभ्वावाज
इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः' (नि० ११।१६) । कुत्सो-
प्याङ्गिरसः, अतस्तेन 'मदीया ज्ञातय' इत्युक्तम् । हे सौधन्वनासः सुधन्वनः
पुत्राः तदानीं चरितस्य तपसो भूम्ना बहुत्वेन दाशुषः हवींषि दत्तवतः
सवितुः सोमाभिषवं कुर्वतः यजमानस्य गृहं तृतीयसवनाख्य मागच्छत ।
एतत्सर्वम् 'आर्भवं शंसति' (ऐ० ब्रा० ३।३०) इत्यादौ स्पष्टम् । आसमन्ता-
द्भोग आभोगः, तदर्हः आभोगयः, 'छन्दसि च' इति यः । 'यस्य' इति
लोपाभावश्छान्दसः । ऐतन, लङि मध्यमबहुवचनस्य थस्यतादेशः ।
तस्य तनबादेशः, आडागमो वृद्धिश्च ।
अत्र ऋभुदेवताः स्वपूर्वजा इति कुत्सेन ऋषिणोक्तम् । पुराणा-
दिभ्यः प्रसिद्धः कुत्सकुलस्य ऋभोत्पत्तिः । कथञ्चैतत् सर्वेषु वक्तृषु
संभवति ? तेनात्रापि वक्तृविशेष एव ग्राह्यः ।
क्वचिदेवमपि भवति—यत्र ऋषिभिर्देवतामुखेन स्ववक्तव्यविषयाः
प्रकटिताः । यथा—इन्द्रागस्त्यसंवादे वागाम्भृणीये सूक्ते देवतैव
ऋषिः । सैव तन्नास्मच्छब्दग्राह्या । ऋषेर्नाम तत्राध्ययनमेव । एवमेव
'अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरुत', 'इति शुश्रुमधीराणां येनस्त-
द्व