वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 60, कुल 237 में से
संदर्भ में पढ़ें६४ वेदस्वरूप-विमर्शः
तेन "सूर्यमण्डलसम्बन्धेन सौरत्रिलोकीरूपाणि ब्राह्मणेऽत्र
व्याख्यातानि । सूर्यमण्डलस्थोऽग्निः सौरप्राणरूपो यो ब्रह्माण्डमभि-
व्याप्रोति यश्च सर्वेषां लोकवेददेवभूतादीनां जनकः श्रुतिभिः प्रति-
ज्ञायते सोऽत्र पुरुषपदेन यजुःपदेन श्रुतः” इत्यादिकमपास्तम् । सर्व-
स्यैतस्य प्रकरणासम्बद्धत्वात् ।
"गायत्री वा इदं सर्वभूतं यदिदं किञ्च । वाग्वै गायत्री, वाग्वा
इदं सर्वभूतं गायति च त्रायते च ।'
अत्र छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं
शब्दरूपामापादयति- 'वाग्वा इदं सर्वं भूतं गायति, अयं गौरयमश्वः
त्रायति च मा भैषीः। अत्र सर्वस्य गानात् त्राणाच्च वाचः सर्वरूपत्व-
मुक्तम् । 'असौ वाव लोको गौतमाग्निः, योषा वाव गौतमाग्निः'
(बृह०) इतिवच्च तेषु तेषु ऋगादिदृष्टिः कर्तव्या, न तत्रा भेदभ्रान्तिः
कार्या।
"वाग्वाव नाम्नो भूयसी । वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदम् । स
यो वाचं ब्रह्मेत्युपास्ते' (बृहदा०) इत्यादौ -
'एष उ बृहस्पति र्वाग्वै बृहती। एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म
तस्या एष पतिः । त्रयो लोका एत एव । वागेवायं लोको मनो
ऽन्तरिक्षलोकः प्राणोऽसौ लोकः । वागेवर्ग्यदो मनो यजुर्वेदः
प्राणः सामवेदः । वागेव देवाः, मनः पितरः, प्राणो मनुष्याः ।
'मन एव पिता वाङ् माता प्राणः प्रजा वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधा-
कारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारञ्च
वषट्कारञ्च । हन्तकारं मनुष्याः, स्वधाकारं पितरः ।
प्राणो ऋषभः, मनो वत्सः।'
सर्वथाप्येवंजातीयकैर्वाक्यैर्न कथमपि वागादीनां स्वरूपं निर्धारयितुं
शक्यम्, तेषामुपासनादिपरत्वेन तत्त्वतो वागाद्यभेदप्रतिपादने तेषां
तात्पर्याभावात् ।
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न । 'विशेषात्'
(२।३।१५) इति ब्रह्मसूत्रे सेन्द्रियस्य मनसो बुद्धेश्च उत्पत्तिप्रलयौ
वेदस्वरूप-विमर्शः ६५
विचारितौ । तत्र करणानां भौतिकत्वात् भूतोत्पत्तिप्रलयाभ्यामेव
तदुत्पत्तिप्रलयावपि व्याख्यातौ । करणानां भौतिकत्वे लिङ्गमुक्तम् -
'अन्नमयं हि सोम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्' (छा०
६।५।४) इति । भूतानां करणानाञ्च पृथग् व्यपदेशो ब्राह्मण-
परिव्राजकन्यायेन ज्ञातव्यः। यद्यपि क्वचित् 'स मनोऽसृजत तन्मन
एवासीत् । तदात्मानमेवैक्षत् स वाचमसृजत्' इति भूतक्रमात् पृथक्
करणक्रमः श्रूयते, तथापि विभक्तत्वान्मनःप्रभृतीनां कारणापेक्षायाम्
'अन्नमयमन' इति लिङ्गश्रवणादपेक्षितार्थ कथनात् विकारार्थत्वमेव
मयटो युक्तम् । इतरथा त्वनपेक्षितमेवोक्तं भवेत् । पाठक्रमादर्थक्रमो
बलीयानिति न्यायेन भूतानन्तरमेव मनःप्रभृतीनां निवेशो युक्तः ।
'तत्पूर्वकत्वाद्वाचः' (ब्र० सू० २।४।४) वाक् प्राण-मनसां
ब्रह्मप्रकृतिक-तेजोबन्नपूर्वकत्वाभिधानात् सर्वेषामेव प्राणानां ब्रह्म-
प्रभवत्वमुक्तम् ।
यच्च - "वाक्प्राणमनसां गौणी जनिराख्यायते" इति । तन्न; विकल्पा-
सहत्वात् । तथा हि--वागादीनां जीववत् अविकृतब्रह्मात्मतयाऽनुत्पत्ति-
र्ब्रह्मणस्तत्त्वान्तरतया वा ? नाद्यः; वागादीनां जडत्वेन तदनुपपत्तेः ।
नान्त्यः; तत्त्वान्तरत्वे ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाबाधात् सर्ववेदान्त-
व्याकोपाच्च ।
'भेदश्रुतेः', 'वैलक्षण्याच्च' ( ब्र० सू० १८, १९ ) इति । मनो
वाचं प्राणं तान्यात्मने अकुरुत' इत्यत्र प्राणाद्भेदेन व्यपदेशाद्वैलक्षण्यात्
प्राणाद् भिन्नतोक्ता ।
'यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोकः । अथ
यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकः ।
अथ य एष एतस्मिन् मण्डले पुरुषः सोऽग्निस्तानि यजूंषि
स यजुषां लोकः । सैषा त्रय्येव विद्या तपति .....'
प्रपञ्चस्तु सायणादिभिरुपासनापरत्वेन वर्णितः-यथा मनो ब्रह्म,
आदित्यो ब्रह्मेत्युपासनेषु मनस्यादित्ये च ब्रह्मदृष्टिः क्रियते, तथैव
मण्डले ऋगादिदृष्टिरत्र कर्तव्यत्वेन उपदिष्टा । सूर्यमण्डलार्चिः पुरुष-