उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
३-१६] उत्तररामचरितं ६३
लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥
सीता—भअवदि तमसे अयं दाव ईरिसो जादो । दे उण ण जाणामि
कुसलवा एत्तिपण कालेण केरिसा संवुत्तेत्ति । भगवति तमसे अय तावदीदृशो
जातः । तौ पुनर्न जानामि कुशलवावेतावता कालेन कीदृशौ संवृत्ताविति ।
तमसा—यादृशोऽय तादृशौ तावपि ।
सीता—ईरिसी अहं मन्दभाइणी जाए ण केवलं णिस्सहो अज्जउत्त-
विरहो पुत्तविरहो वि । ईदृशह मन्दभागिनी यस्या न केवलं निःसह आर्य-
पुत्रविरहः पुत्रविरहोऽपि ।
तमसा—भवितव्यतेयमीदृशी ।
सीता—किंवा मए पसूदाए जेण तारिसवि मह पुत्तआणं ईसिणिरल-
कोमलधवलदसणुंजलकवोलं अणुपद्धमुद्धकाअलीविहसिदं णिवद्धकाअसि-
खण्डअं अमलमूहपुण्डरीअजुभलं ण परिचुम्बियं अज्जउत्तेण । किं वा मया
प्रसूतया येन तादृशमपि मम पुत्रकयोरीषद्विरलकोमलधवलदशनोज्ज्वलंक-
पोलमनुबद्धमुग्धकाकलीविहसितं निबद्धकाकशिखण्डकमलमुखपुण्डरीकयुगलं
न परिचुम्बितमार्यपुत्रेण ।
पुनस्तेन ॥ लीलोत्खातमृणालेति ॥ १६ ॥ यत् यस्मात्कारणात् । छे-
देषु भङ्गेषु । कवलार्थरूपदानविभागेषु इति यावत् । 'छेदो विभजने भङ्ग-
व्वदौ' इति मङ्कटः । पुष्यच्च तत् पुष्करे इत्याग्रे वासितं सजात-
वासम् । कामं यथेप्सितम् । विरामे विश्रान्तिसमये 'विश्रान्तौ च विरामे'
इति नन्दी । अनरालं अवक्रम् ॥ १६ ॥ भगवति तमसे अयं तावदीदृशो
जातः । तौ पुनर्न जानामि एतावता कालेन कीदृशौ संवृत्ताविति । ईदृशस्मि
मन्दारिक्किनी (मन्दभागिनी ३) यस्या न केवलं निस्सह आर्यपुत्रविरहः, पुत्रविर-
हश्च । किं वा मया प्रसूतया यस्या मम पुत्रयोस्तादृशमीषद्विरलद्गलितधवल-
दशनोज्ज्वलितकपोलमनुबद्धमुग्धकाकलीहासितस्योज्ज्वलं मुखपुण्डरीकं न चु-
म्बितमार्यपुत्रेण । विरलं यथा तथा फुल्लप्रलिते प्रसादसूचको धवलशब्दः ।
'प्रसादे तु धवलता' इति समयपद्धतिः । काकलीतुरुनिहासितमिति
विवेकः । 'काकली तु कले सूक्ष्मे ध्वनौ' इत्यमरः । 'मुखस्य दर्पणान्जेन्दुपु-
१ 'सम्पादिता' घ. २ 'लीलातपत्रम्' घ. ३ 'दसाणुबद्धमज्जन' (दशानुबद्धमज्जन) न.
६४ उत्तररामचरितं [३-१८
तमसा—अस्तु देवताप्रसादात् ।
सीता—भगवदि तमसे एदिणा अवच्चमेसुमरणेण उस्ससिदपण्डुद-
त्थणी दांणि वच्चाणं पितुणो संणिहाणेण खणमेत्तं संसारिणीम्हि संवृत्ता ।
भगवति तमसे एतेनापत्यसम्मरणेनोच्छ्वसितप्रस्रुतस्तनी इदानीं वत्सयोः पितुः
संविधानेन क्षणमात्रं संसारिण्यस्मि संवृत्ता ।
तमसा—किमत्रोच्यते । प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य । परं चैत-
दन्योन्यसंश्लेषणं पित्रोः।
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरकोऽयमपत्यमिति बध्यते ॥ १७ ॥
वासन्ती—इतोऽपि देवः पश्यतु ।
अनुदिवसमवर्धयत् प्रिया ते
यमचिरनिर्गतमुग्धलोलबर्हम् ।
मणिमुकुट इवोच्छिखः कदम्बे
नदति स एष वधूसखः शिखण्डी ॥ १८ ॥
सीता—( सकौतुकस्नेहास्रम् ) एसो सो एसो सो । एष स एष सः ।
न्दरीकादय' इति शृङ्गारमञ्जरी । अस्तु इति युज्यतमित्यनेनानुग्रहः ।
भगवति तमसे एतेनापत्यसम्मरणेन उच्छ्वासितप्रस्रुतस्तनी इदानीं वत्सपितु-
स्सन्निधानेन क्षणमात्रं संसारिण्यस्मि सवृत्ता । उच्छ्वसितं उद्भूतं प्रस्रुतं
स्रव ययोस्तादृशौ स्तनौ यस्या । वत्सयोः कुशलवयोः । पितुः निजभर्तुः
रामस्येत्यर्थः । एतेन कपिना निजं द्राविडत्वमाविष्कृतमिति बोध्यम् । क्षणेवि-
क्ये प्रमादः । क्षणेति साधु । क्षणस्य अङ्ग्यादिगणे पठितत्वात् । प्रसवः
सन्तान । स्नेहस्य प्रेम्ण । प्रकर्षः उत्कर्ष । पर्यन्तः अवधि यस्य ।
प्रसदिति प्रसव इत्यभिधेयं अपत्यमित्यर्थ । परं उत्कृष्टं वक्तुमशक्यमिति
भावः । पित्रोः संश्लेषणं सुरतारम्भकं उपगूहनमिति यावत् ॥ तदेव विशि-
नष्टि— ॥ अन्तःकरणतत्त्वस्येति ॥ १७ ॥ दम्पत्योः तरुणस्त्रीपुरुषयोः ।
अन्तःकरणमिति यत्तत्त्वं इन्द्रियं तस्य स्नेहेन प्रेम्णा सह संश्रयात्
संमेलनाद्धेतोः । अयमनुभवसिद्धः । आनन्दस्य ग्रन्थिः बीजं तस्य रेक-
रैचनं तदेवापत्यमित्यर्थ । तथा च दम्पत्योरन्त करणप्रेमपूर्वसभोगस्खलित-
आनन्दरस एवापत्यमिति भाव । 'तत्त्वं तु ब्रह्मण इन्द्निये' इति, 'ग्रन्थिः
पर्वेणि बीजे च' इति, 'उत्सर्गो रेकरेचने' इति हारावलीकपिलविक्र-
मार्काः ॥ १७ ॥ अनुदिवसमवर्धयदिित ॥ १८ ॥ यं शिखण्डिनम्।
१ 'ताणं अ' क-च; 'ताणं च' घ. २ 'प्रसृष्ट' ब. ३ 'घटयते' न. ४ 'अल-
ङ्गसमदताण्डवोल्लसत्वान्तषदमचिरोद्गतमुग्धलोलबर्हः' घ-द.
३-२१ ] उत्तररामचरितं ६५
रामः—मोदस्व वत्स मोदस्व ।
सीता—एव्वं होदु । एवं भवतु ।
रामः—भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः-
प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या ।
करकिसलयतालैर्मुग्धया नर्त्यमानं
सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९ ॥
हन्त तिर्यञ्चोऽपि परिचयमनुरुध्यन्ते ।
कतिपयकुसुमोद्गमः कदम्बः
प्रियतमया परिवर्धितोऽयमासीत् ।
सीता—(निरूप्य सास्रम् ।) सुट्ठु पच्चहिआणिदं अज्जउत्तेण । सुष्ठु
प्रत्यभिज्ञातमार्यपुत्रेण ।
रामः—स्मरति गिरिमयूर एष देव्याः
स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥
वासन्ती—अत्र तावदासनपरिग्रहं करोतु देवः ।
(राम उपविशति ।)
वासन्ती—
नीरन्ध्रबालकदलीवनमध्यवर्ति
कान्तासखस्य शयनीयशिलातलं ते ।
अत्र स्थिता तृणमदार्द्रदृशो यदेभ्यः
सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥
मनेति ध्वनिः । मकुटेनि भ्रान्तः पाठः । 'अमकुडादिषु' इति प्राकृतव्याकरणे
वररुचिज्ञासनाद् मुकुटेति साधुः । शिखावला कदम्ब्ये नीपवृक्षे ॥ एष स
वत्सेति मयूरं प्रति संबोधनम् ॥ भ्रमिषु कृतपुटेति ॥ १९ ॥ भ्रमिषु
भ्रमणेपु । कृतपुटान्तः नेत्रकोशान्तरे यासां मण्डलानां मण्डलाकारैर्हि-
ण्डानाम् । आवृत्तिः पौनःपुन्यं तादृशं यच्चक्षुः नेत्रं तेन सह प्रचलिता
कम्पिता या चतुला चतुरा भ्रूः तस्याः ताण्डवैः दृष्टिरूपैः नर्तनैः कर-
गेन । एकपदमेतत् । त्वां मण्डयन्त्या भूषयन्त्या । आवृत्तीति चतुरिति
च पदद्वयं विशेषणविशेष्यरूपं कर्म । ताण्डवैर्मण्डयन्त्येति वार्थः ॥ अनुरु-
ध्यन्ते अनुवर्तन्ते । यमेतिध्वनिः । सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । देव्याः
इतीदं मातृः स्मरतीतिवदुपपन्नम् ॥ कतिपयकुसुमेति ॥ २० ॥ यतः
यस्माद् ॥ २० ॥ नीरन्ध्रबालेति ॥ २१ ॥ प्रथमचरणमेकपदम् । 'तृणाया-
१ 'कृतचक्षुः' घ, 'मण्डलावृत्ति चक्षु.' ग. २ 'य आसीद्' घ-च. ३ 'दत्त-
ऽनेन कदली०' क-घ-च. ४ 'वनगोचरैस्स्मः' म-टी
रामः-इदं तावदशक्यमेव द्रष्टुम् । ( इत्यन्यतो रुदन्नुपविशति । )
सीता-सहि वासन्दि किं तुए किदं अज्जउत्तस्स मह अ एवं दंसअ-
न्तीए। हद्धी हद्धी । सो जेव्व अज्जउत्तो तं जेव्व पञ्चवटीवणं सा जेव्व
पियसही वासन्दी दे जेव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुद्देसा दे
जेव्व जादणिव्विसेसा मिगपक्खिपादवा सा जेव्व चाहम् । मह उण मन्द-
भाइणीए दीसन्तं वि सव्वं जेव्व एदं णत्थि त्ति सा ईरिसो जीवलोअस्स
परिणामो संवुत्तो। सखि वासन्ति किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शय-
न्त्या । हा धिक् हा धिक् । स एवार्थपुत्रस्तदेव पञ्चवटीवनं सैव प्रियसखी
वासन्ती त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशास्त एव जातनिर्वि-
शेषा मृगपक्षिपादपा सैव चाहम् । मम पुनर्मन्दभाग्योया दृश्यमानमपि सर्वमे-
वैतन्नास्तीति तदीदृशो जीवलोकस्य परिणाम संवृत्त' ।
वासन्ती-सखि सीते कथं न पश्यसि रामभद्रस्यावस्थाम् ।
नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं
सततमपि नः स्वेच्छादृश्यो नवो नव एव यः ।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥
सीता-पेक्खामि सहि पेक्खामि । प्रेक्षे सखि प्रेक्षे ।
तमसा-पश्यन्ती प्रियं भूयाः ।
सीता-हा देव्व एसो मए विणा अहं वि एदेण विणेत्ति सिविणेवि
वनगोचरा' इति कपिला । ततः अनन्तरम् । हरिणकैः बालहरिणै । न
विमुच्यते स्म न विमुक्ता ॥ २१ ॥ वासन्ति किं त्वया कृतं आर्यपुत्राय
ममैतद्दर्शयन्त्या । हा धिक् हा धिक्, स एवार्थपुत्र, तदेव पञ्चवटीवनम्,
सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः,
त एव जातनिर्विशेषा मृगपक्षिण । मम पुनर्मन्दभागिन्याः दृश्यमानमपि
सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामस्संवृत्त । एतत् शिलातल-
मित्यर्थ । जातः निर्विशेषः अस्मतसाधारण्य येषु । निर्भया इति भाव ॥
नवकुवलय इति ॥ २२ ॥ ददत् वितरन् । ददन् इति वोडपि यन्नाम ।
विकलानि असमर्थानि करणानि इन्द्रियाणि यस्य । परि अन्तर्बहिश्च ।
तथापि स्वभावादिति शेष ॥ २२ ॥ पश्यामि सखि पश्यामि । प्रियं प-
श्यन्ती भूयाः इत्यन्वय । हा दैव एष मया विना अहमपि एतेन विनेति
१ 'परिवत्तो' ( परिवर्त्त: ) क-घ-च. २ 'कुवलयदल' क-घ-म. ३ 'ददौ'
घ-म. ४ 'ते' च-प्र. ५ 'नव नवमेव य.' घ-छ. ६ 'पाण्डुः सोय'-
घ-घ. ७ 'पश्य प्रिय भूय:' न.
३-२४] उत्तररामचरितं ६७
केण मंमाविदं आसी । ता मुहुत्तमेत्तं जम्मन्ररादो विअ लद्धेदंसणं बाहस-
लिलन्तरेपु पेक्खामि दाव वच्छलं अज्जउत्तम् । (इति पश्यन्ती स्थिता ।)
हा देव एप मया विना अहमन्येतेन विनेति स्वप्नेपि केन सम्भावितमासीत् ।
तन्मुहूर्त्तमात्रं जन्मान्तरादिव लब्धदर्शनं बाष्पसलिनान्तरेषु प्रेक्षे तावद्वत्सल-
मार्यपुत्रम् ।
तमसा-(परिष्वज्य साश्रम् ।)
विलोलितमतिपूरैर्बाष्पमानन्दशोक-
प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा ।
स्रपयति हृदयेशं स्नेहनिष्यन्दिनी ते
धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥
वासन्ती-ददतु तरवः पुष्पैर्घ्यं फलैश्च मधुश्च्युतः
स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
कलमरिरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः
पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥
रामः-एहि सखि वासन्ति मन्वितः स्थीयताम् ।
वासन्ती-(उपविश्य साश्रम् ।) महाराज अपि कुशलं कुमारलक्ष्मणस्य ।
स्वप्नेऽपि केन संभाविनासीत् । तत्सन्मुहूर्तमपि जन्मान्तरतोऽपि लब्धिस-
रणीयदर्शनं बाष्पसल्लिनान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम् । केन संभा-
वितं न केनापीत्येकोऽर्थः । केन ब्रह्मणा संभावितमित्यन्योऽर्थः । 'शे
ब्रह्मा' इत्येकाक्षरः । सलिलानामन्तरेषु अमृतप्तिदृशासु । 'अन्तर प्रा-
गभावादौ' इति ससारार्त. ॥ विलोलितमतिपूरैरिति ॥ २३ ॥ विलोलितं
विशेषेण तरङ्गितम् । आनन्दशोकाभ्यां दर्शनपरित्यागजन्मभ्यामित्यर्थः ।
पक्ष्मला पक्ष्मनिबिडा उत्ताना चासौ दीर्घा । 'निम्नं गभीरं गम्भीरमुत्तानं
तद्विपर्यये' इत्यमरः । हृदयेशं रामम् । 'मधुरमङ्गलः' इति रत्नमाला ।
'कुल्या कृत्रिमा सरित्' इत्यमरः ॥ २३ ॥ ददतु तरवः पुष्पैश्चेति
॥ २४ ॥ मधूनि च्युतानि एभ्यस्तैः फलैः । 'अर्धंयुष्फलादिभिः' इति
स्मृतेः । आमोदानां परिमलानां प्रायो भूमा येषु । अविरलं सान्द्रम् ।
१ 'अनुत्दृदंसना' ध., 'दुल्लहदंस०' न. २ 'तुष्पलोत्तान' च-घ. ३ 'र-
ड्ढ' घ-व. ४ 'रत्युत्कण्ठाः' प-घ.
६८ उत्तररामचरितं [ ३-२६
रामः—( अश्रुतिमभिनीय । )
करकमलवितीर्णैरम्बुनीवारशष्पै-
स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् ।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि
द्रव इव हृदयस्य प्रस्तरोद्भेदयोग्यः ॥ २५ ॥
वासन्ती—महाराज ननु पृच्छामि अपि कुशलं कुमारलक्ष्मणस्येति ।
रामः—( आत्मगतम् । ) अये महाराजेति निष्प्रणयमामन्त्रणपदं
सौमित्रिमात्रे च बाष्पस्खलिताक्षरः कुशलप्रश्नः । तया मन्ये विदित-
सीतावृत्तान्तेयमिति । ( प्रकाशम् । ) भद्रे कुशलं कुमारस्य ।
वासन्ती—( रुदती । ) अयि देव १किं परं दारुण एवासि ।
सीता—सहि वासन्दि किं तुमं एव्वंवादिणी होसि । पिओरहो क्खु
सव्वस्स अज्जउत्तो विसेसदो मह पिअसहीए । सखि वासन्ति किं त्वमेवंवा-
दिनी भवसि । पूजार्हः खलु सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः ।
वासन्ती—त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
तामेव शान्तमथवा किमिहोत्तरेण ॥ २६ ॥
( इति मूर्च्छति । )
तमसा—६स्थाने बाष्पनिवृत्तिर्मोहश्च ।
रज्यत्कण्ठाः । फलं मधुरस्फुटं यथा तथा फणन्तु ॥ २४ ॥ करक-
मलवितीर्णैरिति ॥ २५ ॥ अम्बुभिः तरुशकुनीन् वृक्षविहङ्गान् । नी-
वाराः तृणधान्यानि । तेषां शष्पैः बालतृणैः कुरङ्गान् इति क्रमालङ्कारः ।
शष्पैरिति ध्वनिरप्यतिशिरकर इति भावः । अत एव-'गङ्गाप्रपातान्तनिषूढ-
शष्पम्' इति ईश्वरकृष्णमिश्रः । विकारः ममता । प्रस्रवः इत्युपचारः ।
उद्भेदः उदयः ॥ २५ ॥ अपरमिति ध्वनिः ॥ सखि वासन्ति किमिति त्व-
मेववादिनी । पूजार्हं खलु सर्वस्यार्यपुत्र, विशेषत पुनर्मम प्रियसख्याः ॥
त्वं जीवितं त्वमसीति ॥ २६ ॥ जीवितं जीवः । द्वितीयं स्त्रीरूपकम् ।
कौमुदी आनन्दयिनी । अमृतं अमरत्वसाधनम् । 'वपुष्यवयवे त्वङ्गम्'
इति नन्दी । अत्र त्वच्छब्दानयमधिकम् । मुग्धां मूढां च तामेव लब्ध्वा-
१ 'अनाकर्णनम्' न. २ 'प्रस्रवोद्भेद' न. ३ 'किमिति' च; 'किमिति दा-
रुणो दारुणः' घ. ४ 'पूआरहो' (पूजार्हः) नं. ५ 'किमतः परेण' न.
६ 'स्थाने...मोहश्च' इत्येतद्रामवाक्यमिति च-घ.
३-२८ ] उत्तररामचरितं ६९
रामः—सखि समाश्वसिहि समाश्वसिहि ।
वासन्ती—( समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ।
सीता—सहि वासन्दि विरम विरम । सखि वासन्ति विरम विरम ।
रामः—लोको न मृष्यतीति ।
वासन्ती—कस्य हेतोः ।
रामः—स एव जानाति किमपि ।
तमसा—विरामोपालम्भः ।
वासन्ती—अयि कठोर यशः किल ते प्रियं
किमपयशो ननु घोरमतः परम् ।
किमभवद्विपिने हरिणीदृशः
कथय नाथ कथं बत मन्यसे ॥ २७ ॥
सीता—तुमं जेव्व सहि वासन्दि दारुणा कठोरा अ जा एव्वं अज्जउत्तं
पदिउत्तं पदीवेसि । त्वमेव सखि वासन्ति दारुणा कठोरा च यैवमार्यपुत्रं
प्रदीप्तं प्रदीपयसि ।
तमसा—प्रजय एवं व्याहरति शोकश्च ।
रामः—सखि किमत्र मन्तव्यम् ।
प्रस्तैकेहायनकुरङ्गविलोलदृष्टे-
स्तस्याः परिस्फुरितगर्भभरालसायाः ।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा
क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥ २८ ॥
नसांनि भावः ॥ २६ ॥ स्थाने युक्तम् । निवृत्तिः कुण्ठनम् । चतुर्थचरणं
पूरयति–शान्तमिति । गतमित्यर्थः । अतः त्यागादपि । अन्याय्यं न्या-
यादपेतम् । सखि वासन्ति विरम विरम । कस्य हेतोः केन हेतुनेत्यर्थः ।
‘विस्मृतं कस्य हेतोः’ इति मुद्राराक्षसः । लज्जावशात् किमपीत्युक्तम् ॥
अयि कठोर यश इति ॥ २७ ॥ कठोर इति संबोधनम् । अतः पत्नी-
त्यागात् । किं चरितमिति शेषः ॥ २७ ॥ त्वमेव सखि वासन्ति दारुणा
कठोरा च या एवं विप्रलपन्ती पर्यात्तं विप्रलापयसि । विप्रलापवन्तं करोषीति
यावत् । अय्यउत्तं इति शेषः । आर्यपुत्रमित्यर्थः । विप्रलापो विरोधोक्तिः,
पर्यात्तं यथेप्सितम् ॥ प्रस्तैकहायनेति ॥ २८ ॥ एकहायनः । एकव-
त्सर इत्यर्थः । तृतीयचरणेन विरहपाण्डिमा । कव्याद्भिः राक्षसैः । विक्षे-
१ ‘तत्कस्य’ घ-च. २ ‘टचित्तसमुपा’ घ-च. ३ ‘पडवन्तं पढावेसि’
( प्रलपन्तं प्रलापयसि ) न. ४ ‘मुग्ध’ च-प.
७० उत्तररामचरितं [३-३०
सीता-अज्जउत्त धरामि एसा धरामि । आर्यपुत्र प्रिये एषा प्रिये ।
रामः-हा प्रिये जानकि क्वासि ।
सीता-हद्धी हद्धी । अण्णो विअ अज्जउत्तो पमुक्तकण्ठं रोइदि ।
हा धिक् हा धिक् । अन्य इवार्यपुत्रः प्रमुक्तकण्ठं रोदिति ।
तमसा-वत्से सांप्रतिकमेवैतत् । कर्तव्योनि खलु दुःखितैर्दुःखनिर्व्वा-
पणानि ।
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥ २९ ॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
प्रियाशोको जीवं कुसुममिव घर्मो म्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ-
स्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥
रामः-कष्टं भो कष्टम् ।
येन तृप्ता ॥ २८ ॥ धरामि आर्यपुत्र धरामि । जीवामीत्यर्थः । 'द्वौ मासा-
वहं धरामि दिने दिने' इति बोधायनरामायणे ॥ हा धिक् हा धिक् अन्य
इवार्यपुत्र प्रमुक्तकण्ठं प्ररुदितः । प्रकृष्टं अधिकं रुदितं अस्य । अन्य इवा-
र्यपुत्र इति ध्वनि । सांप्रतं इदानीम् । तत्सम्बन्धि सांप्रतिकं योग्यमिति-
यावत् । 'त्रिषु सांप्रतिकं योग्यं' इति विक्रमार्कः । एतन् प्ररुदितम् ।
निर्वापणानि प्रमार्जनानि ॥ पूरोत्पीडे तटाकस्येति ॥ २९ ॥ पूरैः
उत्पीडे उत्पीडने सति परीवाहः जलनिर्गमः । शोकेन क्षोभे सती-
त्यर्थः । 'प्रलापोऽनर्थकं वचः' इत्यमरः ॥ २९ ॥ बहुप्रकारं कष्टं यस्मिन्
स जीवलोकः मर्त्यभुवनम् ॥ तदेवोपपादयति-इदं विश्वं पाल्यमिति
॥ ३० ॥ विश्वं जगत् । विधिवत् यथाराजधर्मम् । पाल्यं रामेणेति
शेषः । अभियुक्तेन अभितो युक्तेन न्यायकरणात् । उचितेनेत्यर्थः । जीवं
असुधारणम् । रामस्येत्यनुषङ्गः । त्यागं तव सीताया इति बोध्यम् । असु-
लभ इति तस्यैव अनर्थमूलकत्वादिति भावः । तत् तस्मात् । उच्छ्वास
इति दुःखातिशयतः । 'श्वासो महानुच्छ्वास' इत्यमरशेषः ॥ उच्छ्वासोऽस्तु
रुदिते किं फलमत आह-न्विति । रुदितं लाभो हि । तथा च रुदिते
कृते दुःखस्य न्यूनतैव लाभो हि इति भावः ॥ ३० ॥ भो इति मनःप्रति
१ 'निर्धारणानि' न. २ 'अवधार्यते' न. ३ 'रामभद्रस्य यस्य' क ४ 'बहुतर'
क-घ-च. ५ 'म्लमयति' घ-च.
३-३३ ] उत्तररामचरितं ७१
दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा-
त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥
सीता—एवं णेदं । एवं निवेदम् ।
रामः—हे भवन्तः पौरजानपदाः ।
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत-
स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता ।
चिरपरिचितास्ते ते भावाः परिद्रवयन्ति मा-
मिदमशरणैरद्याक्रन्दैः प्रसीदत रुद्यते ॥ ३२ ॥
वासन्ती—( स्वगतम् । ) अतिगम्भीरमापूरणं मन्युसम्भारस्य । ( प्र-
काशम् । ) देव अतिक्रान्ते धैर्यमवलम्ब्यताम् ।
रामः—सखि किमुच्यते धैर्यमिति ।
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः ।
प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥
सबोधनम् ॥ दलति हृदयमिति ॥ ३१ ॥ 'दलति स्फुटति' इति माठरः ।
उद्वेगः तीव्रता । विकलं अवयवभूतम् । मोहं मूर्च्छां । चेतनां ज्ञप्तिम् ।
अन्तर्दाहः अवाङ्मुखसन्तापः । तनूं भस्मसात् भस्माधीनम् न करोति ।
विधिः दैवम् । जीवितं जीवम् । अत्र तुशब्दः पादपूरणे ॥ ३१ ॥ एव-
मेतद् सत्यमिति भावः ॥ न किल भवतामिति ॥ ३२ ॥ स्थानं वासः ।
ततः तस्मात् । नातिशोचिता किञ्चिच्छोचितेति यावत् । अपिस्संभा-
वनायाम् । पूरणे इति केचित् । ते ते विविधाः । 'भावाः सञ्चारिणः क्रियाः'
इति वामनः । परि परितः द्रवयन्ति आर्दीकुर्वन्तीति यावत् । अस्मा-
भिरिदमिति भवद्भिः श्रूयमाणं यथा तथैत्यर्थः । प्रसिद्धमिति केचित् । अशर-
णमगतिकम् । रुद्यते प्रसीदत रोदनाय किल भवद्भिरेवावकाशो निर्मित
इति भावः ॥ ३२ ॥ मन्युसंभारस्य दैन्यसामग्र्याः । आपूरणं पूर्ति ।
अतिक्रान्ते गते सतीत्यर्थः । कार्ये इति शेषः ॥ देव्या शून्यस्येति ॥ ३३ ॥
'संवत्सरो वत्सरश्च परिवत्सरः' इति द्विरूपः । नाम देव्या इति शेषः ।
गानास्या इति वा पाठः । रामो न जीवतीति न जीवत्येवेत्यर्थः । चकारः
१ 'शोकोद्वेगात्' न, 'गाढोद्वेगः' टी. २ 'तथा द्रवयन्ति' न, 'परिस्पन्दन्ति'
.घ. ३ 'मद्याप्येवं' व-घ. ४ 'अवधूतः शोकसंभारस्य' व-घ, 'मन्युभारस्य' न.
५ 'तुत दीर्यते' घ.
७२ उत्तररामचरितं [३-३६
सीता-मोहिदम्हि एदेहिं अज्जउत्तवअणेहिं । मोदितास्म्येतैरायंपुत्र-
वचनैः ।
तमसा-एवमेव वत्से ।
नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः ।
एतास्ता मधुनो धाराः क्ष्योतन्ति सविषास्त्वयि ॥ ३४ ॥
रामः-अयि वासन्ति मया खलु
यथा तिरश्चीनमलातशल्यं
प्रत्युप्तमन्तः सविषश्च दंशः ।
तथैव तीव्रो हृदि शोकशनु-
र्मर्माणि कृन्तन्नपि किं न सोढः ॥ ३५ ॥
सीता-एव्वं ह्मि मन्दभाइणी पुणोवि आभासभारिणी अज्जउत्तस्स
एवमस्मि मन्दभागिनी पुनरप्यायासकारिणी आर्यपुत्रस्य ।
रामः-एवमतिनिष्कंपस्तम्भिमान्तःकरणस्यापि मम संस्तुतवेत्तप्रिय
वस्तुदर्शनाद्दुर्वारोयमवेगः । तथाहि
हेलोल्लोलक्षुभितकरणोज्जृम्भणस्तम्भनार्थे
यो यो यत्नः कथमपि मया धीयते तं तमन्तः ।
भित्त्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार-
स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥
पूरणे । नैष इति वा पाठः ॥ ३३ ॥ मोदितेवार्यपुत्रस्य प्रियवचने. ॥ नैताः
प्रियतमा इति ॥ ३४ ॥ शोकदारुणतया नैताः प्रियतमाः । अत्र भ-
ङ्ग्यन्तरेण निदर्शनमाह-एता इति । यद्यपि मधुनो धाराः । तथापि
सविषाः क्ष्योतन्ति गलन्तीत्यर्थ ॥ ३४ ॥ धैर्यमवलम्बितमेव मयेत्याह-
यथा तिरश्चीनमिति ॥ ३५ ॥ सविषः विषेण सहित अप्रदेशो यस्य
सन् । सविषाप्रदेश । तिर्यग्भवं तिरश्चीनम् । अलातशल्यं अङ्गारा-
प्तसंबन्धलोहाग्रं यथा अन्तः आत्मनि प्रत्युप्तम् । अत्र सविषत्वं तिरश्ची-
नत्वमलाताग्निसंबन्धश्च बाधानिश्चयद्योतनायोक्त इति सूक्ष्मदृष्टिभिरूह्यम् ।
तथैव हृदि तीव्रः तीक्ष्ण. न सोढः किं सोढ एवेत्यर्थ ॥ ३५ ॥ एव-
मस्मि मन्दभागिनी । अहं पुन पुन. आयासकारिण्यार्यपुत्रस्य । संस्तुताः
परिचिताश्च ते वर्गा वृक्षादीनां वर्गा. । 'संस्तव स्यात्परिचय' इत्यमर । 'सं-
स्तुता नुता.' इति कोपि बभ्राम ॥ हेलोल्लोलेति ॥ ३६ ॥ हेलया लीलया ।
१ 'दन्त.' न. २ 'अतिगूढ' न. ३ 'संस्तुतवहुतर' घ, 'संस्तुतप्रियव-
स्तु०' न. ४ 'अपायमावेग' न-च. ५ 'लोलोल्लोल' क-घ-च, 'हेलेल्लोल'
टी. ६ 'करणो०' प-टी. ७ 'समाधीयते' न. ८ 'हित्वा हित्वा' भ.
३-३७ ] उत्तररामचरितं ७३
सीता—एदिणा अज्जउत्तस्स दुव्वारदारुणारम्भेण दुक्खसंखोएण परिमु-
सिअणिअदुक्खं किंपि पमुदं मे हिअअं । एतेनार्यपुत्रस्य दुर्वारदारुणारम्भेण
दुःखसंक्षोभेण परिमुषितनिजदुःखं किमपि प्रमुग्धं मे हृदयम् ।
वासन्ती—( स्वगतम् ।) कष्टमभ्यापन्नो देवः । तदन्यतः क्षिपामि
तावत् । ( प्रकाशम् ।) चिरपरिचितानिदानीं जनस्थानभागानवलोकनेन
मानयतु देवः ।
रामः—एवमस्तु । ( इत्युत्थाय परिक्रामति । )
सीता—संदीवेण जेव्व दुक्खस्स पियसहीए विणोदणोआओ त्ति तक्केमि ।
संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि ।
वासन्ती—( सकरुणम् ।) देव देव
अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरनिन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७॥
सीता—दारुणासि वासन्ति दारुणासि। जा एदेहिं हिअअमम्मँगूढसह-
ंसंधट्टेहिं पुणो पुणोवि मं मन्दभाहिणीं अज्जउत्तं अ संदावेसि । दारुणासि
वासन्ति दारुणासि । या एतैर्हृदयमर्मगूढशल्यसंघट्टनैः पुन पुनरपि मां मन्द-
भागिनीमार्यपुत्रं च सन्तापयसि ।
करणानां इन्द्रियाणाम् । प्रतिहतः विहत रयः वेग यस्य स । सोय-
सेति जातावेकवचनम् । ओघः प्रवाहः ॥ ३६ ॥ आर्यपुत्रस्य एतेन दुर्वार-
दारुणारम्भेण दुःखसंक्षोभेण प्रमुषितनिजदु खमपि किमपि प्रमुग्ध्यमिव मे
हृदयम् । किमपि अनिर्वचनीयम् । प्रकर्षेण मुग्ध मूढम् । अभ्यापक्तः
आपुत्कण्ठित । कष्टमझा कृच्छ्रमुदी प्राप्तवान्ध । आभोगः परिपूर्णता ।
सन्दीपनमेव दुःखस्य प्रियसख्या विनोदनोपाय इति मन्यये ॥ अस्मिन्नेव
लतागृहे इति ॥ ३७ ॥ 'विमनायित साधुर्मनायित' इति नन्दी ।
अञ्जलिरिति कथनं कवेरचातुर्यम् । यैश्चाजनक्रियमाणोऽयं विलासः न तु
कुलरांगना संप्रदाय । कदाचिदपराधे सति सदा पादपीडनमेवारभयन्ति-
१ 'अनापन्नः' न-टी. २ 'सन्देबणाइ' (सन्दीपनानि) व-प्र. ३ 'पि-
यसही विनोद...त्ति मण्णेदि' (प्रियसखी विनोदनोपाय इति मन्यते) य-प्र.
४ 'मम्मूग्गूढडिअभट्टहं' भ (मर्मोद्घाटितशल्य) ।
७ उ०
७४ उत्तररामचरितं [३-३८
रामः-अयि चण्डि जानकि इतस्ततो दृश्यस इवै नानु कम्पसे ।
हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ३८॥
(इति मूर्च्छति।)
सीता-हद्धी हद्धी पुणोवि पमूढो अज्जउत्तो। हा धिक् हा धिक् पुन-
रपि प्रमूढ आर्यपुत्र ।
वासन्ती-देव समाश्वसिहि समाश्वसिहि ।
सीता-अज्जउत्त म मन्दभाइणि उद्दिसिअ सअलजीवलोभमङ्गलांधा
रस्स दे वारंवार संसइदजीवितदारुणो दसापरिणामो त्ति हा हदम्हि।
(इति मूर्च्छति।) आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्गला-
धारस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि।
तमसा-वत्से समाश्वसिहि समाश्वसिहि । पुनस्त्वत्पाणिस्पर्श एव
सञ्जीवनोपायो रामभद्रस्य।
तराम्, इत्युभयितरत्न । अलैरित्यनैदिकघण्टापथमन्थ (१) विशेषज्ञ
प्रमाणम् ॥ ३७ ॥ या एतैर्हृदयमर्मगूढशल्यपट्टनै पुन पुनरपि मा मन्दभा
गिनीमार्यपुत्राय स्मरयति ॥ हा हा देवि स्फुटतीति ॥ ३८ ॥ हाहेति
वीप्सायाम् । देहशब्देनाङ्गानि लक्ष्यन्ते । तेषां बन्धः परस्परसम्बन्धः । ध्वं-
सते ध्वस्तो भवति । अविरलज्वालं यथा तथा । 'मनस्यात्मनि चान्त
स्स्यात्' इति रत्नमाला । तमसि भ्रमे । अन्धे गाढे सति । सीदन् ह्रिष्य
मान । 'विधुरो दीन' इति शब्दार्णव । आत्मा देह । 'मूर्तिर्देह त्रि-
प्वात्मा' इति हलायुध । अन्त मनसि । कत्त पश्यामीति दीक्षिताः ।
मोह मूर्च्छा । विष्वक् अभित । स्थगयति पुष्ठयतीति केदार । मामिति
शेष । 'निमित्तार्थेऽपि च क्व' इति शब्दमाला ॥३८॥ हा धिक् हा धिक् पुन-
रपि प्रमूद आर्यपुत्र । आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्ग
लाधारजन्मलाभस्य ते संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि ।
संशयितं सम्जातसंशय जीवितं यस्मिन् दशापरिणामे । स चासौ दा-
१ 'दृश्यसे नानु०' ग, 'दृश्यसे एव' घ २ 'अविरत' ग-घ ३ 'मह-
त्तिजग्मलाइस्स' ( महत्त्थदामहामस्स ) ग, 'मङ्गलाधारजन्मलाभस' टी.
३-३९] उत्तररामचरितं ७५
वासन्ती-कथमद्यापि नोच्छ्वसिति। हा प्रियसखि सीते क्वासि सम्भाव-
यात्मनो जीवितेश्वरम्।
( सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति । )
वासन्ती-दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः ।
रामः-आलिम्पन्नमृतमयैरिव प्रलेपै-
रन्तर्वा बहिरपि वा शरीरधातून् ।
संस्पर्शः पुनरपि जीवयन्नकस्मा-
दानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥
( आनन्दनिमीलिताक्ष एव ) सखि वासन्ति दिष्ट्या वर्धसे ।
वासन्ती-देव कथमिव ।
रामः-सखि किमन्यत् । पुनः प्राप्ता जानकी ।
वासन्ती-अयि देव रामभद्र क्व सा ।
रामः-( सशंमुखमभनीय । ) पश्य नन्विर्य पुरत एव ।
वासन्ती-अयि देव किमिति मर्मच्छेददारुणैरेभिः प्रलापैः प्रियसखी-
दुःखदग्धामपि मां पुनर्मन्दभाग्यां दहसि ।
सीता-ओसरिदुं इच्छम्मि । एसो उण विरसंभावसोम्मसीदलेण
अज्जउत्तप्फंसेण दीहदारुणं वि झत्ति संदावं हरन्तेण वज्जलेवोव्वेलिव्वदो
रणः । दशा अवस्था । जीवितेश्वरं भर्तारम् । ध्वनिञ्च । 'जीवितेशः
प्रिये यमे' इत्यमरः ॥ आलिम्पन्निति ॥ ३९ ॥ आ समन्तात् प्रकृष्टाय
ते लेपाः । वाशब्दार्थेः । 'इवार्थेचार्थयोर्वा स्यात्' इति कपिल्लः । अपि-
रेश्ः साकल्य पुनरुक्तौ । शरीरधातूनित्यर्थः । 'श्लेष्मादि रसस्त्रादि महा-
भूतानि तद्गुणाः । इन्द्रियाण्यश्नबहिरिति शब्दयोनिष धातव' इत्यमरः ।
सः पूर्व कृतः । प्रसिद्धो वा । 'अकस्मात् सहार्थे ( सहसार्थे ? ) स्यात्'
इति कपिलः । 'अकस्मान्' इति महाराष्ट्राः । आनन्दाद्धेतोः । न विद्यते
परः यस्माद् अपरः तं मोहं पारवश्यम् । 'मोहो मूर्च्छापारवश्यतमोनैष्ट्य-
भ्रमादिषु' इत्यगस्त्यः । अकस्मात् अहेतुकादानन्दान्दिति केचित् । तन ।
स्पर्शस्यैव सुटनहेतुत्वात् ॥ ३९ ॥ इतोऽपसरणं कर्तुमिच्छामि । एष पुनश्चि-
रप्रणयसम्भावसौम्यशीतलेन आर्यपुत्रस्पर्शन दीर्घदारुणमपि झटिति सन्ता-
१ 'मएसिविइ सुन्दोमि' क-च-घ. २ 'विरम्यासभामारमोन्न' ( विरच्याय-
संभारमोम्य ) न; 'विरणायस्वभाव०' टी. ३ 'उठाहअन्तेण' ( उल्लाघयता )
म-टी. ४ 'लेपोत्तरो' ( लेपोत्तरः ) न-टी.
७६ उत्तररामचरितं [ ३-४०
विअ सिज्जन्तजीसहविअदिरथो घेत्तव्वसीलो अवसो णिअ मे हत्थो । अपसत्तुं-
मिच्छामि । एष पुन चिरसङ्गावसौम्यशीतलेन आर्य्यपुत्रस्पर्शेन दीर्घदारुणमपि
- झटिति सन्ताप हरता वज्रलेपोपनिबद्ध इव स्तिर्य्यति सद्विपर्य्यस्तो वेपनशी-
लोऽवश इव मे हस्त ।
रामः—मयि कुतः प्रलापाः ।
गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः
सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः ।
सीता—अज्जउत्त मो जेव्व दाणि सि तुमं । आर्य्यपुत्र स एवेदानी-
मसि त्वम् ।
रामः—स एवायं तस्यास्तुहिननिकरोपम्यसुभगो
मया लब्धः पाणिललितलवलीकन्दलनिभः ॥ ४० ॥
पमुहापयना वज्रलेपोपबद्ध इव स्तिचरस्वेदनिस्सहो विप्रलप्धवेविर अवस-
मिक्षो मे हस्त. । आर्यपुत्रविषवे स्पर्शेन वज्रलेपेन उपनद्धः यद्व इव
स्थित । वज्रलेपेति कवनमतिदार्घ्यसूचनाय । स्वेदः निस्सहः दुस्सह
येन । स्सियदित्यत्र 'स्वध्या वछना' इति जलम् । बहुकालाविषावाप्तिप्र
लब्धो वभितधासी चेविरः सास्थिरभावात् कम्पनशील इत्यर्थ । देसी-
योऽय शब्द । अवंसजितः सम्मीष्टत । प्रेमवशादिति भाव । अचे
त्युपसर्गो रक्षणया अवधानवाचक ॥ गृहीतो यः पूर्वमिति ॥ ४० ॥
धरतीति धर कङ्कणस्य धरः । सुधाना सूतिर्यस्मात् । चन्द्रस्य पादैः
किरणै अमृतं जलम् । तद्वत् शिशिरैः शीते । 'शैत्यं हि यत्स्या प्रकृ-
तिर्जलस्य' इति ईश्वरकृष्णमिश्र. । 'पय कीलालममृतम्' इति । 'अमृत
जलं' इति च अमरनन्दिनी । परिचितः कृतपरिचय इत्यर्थ । एतेन
पाणिम्सजीवन इति व्यज्यते । आर्यपुत्र स एवेदानीमसि त्वम् । तदि-
तरेति-तस्या भीताया, इतर स्पर्शकारणात्पाणेरन्य । तस्य हस्तस्य ।
औपम्येन दृष्टान्तेन सुभगः मनोहर । 'स्यादौपम्य तु दृष्टान्त' इति
शाश्वतः । 'अनौपम्या रम्याम्' इति भगवत्पादाः । अत्र तस्या इति
कथने उभयन चारिताय्यत् पुनस्तदितरेति कथन कवेरचातुर्य्यरूढ प्रमाद ।
'कन्दलः कन्दगोल' इति कषिल । तस्याः पाणिः मया लब्ध. अथेति
१ 'त्सियन्मेदनि सह' टी. २ 'चिर सेच्हाससी' क-प-च. ३ 'तदि-
तरकरीपम्य' न-टी.
( इति गृह्णाति । )
सीता—हद्धी हद्धी । अज्जउत्तप्फंसमोहेदाए पमादो क्खु मे संवृत्तो ।
हा धिक् हा धिक् । आर्यपुत्रस्पर्शमोहितायाः प्रमादः खलु मे संवृत्तः ।
राम—मयि चापम्नि आनन्दनिमीलितेन्द्रियः स्फारस्तेन परवानस्मि ।
तन् तावदेनां धारय ।
वासन्ती—कष्टमुन्माद एव ।
( सीता ससम्भ्रमं हस्तमाक्षिप्यापसर्पति । )
राम—हा धिक् प्रमादः ।
करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः ।
परिमुषितप्रकम्पी करान्मम स्विद्यतः स्विद्यन् ॥ ४१ ॥
सीता—हद्धी हद्धी । अज्जवि अत्थावत्थयदिएमिदमुद्धपुष्णन्तणअणो ण
पव्वववारेइ अत्ताणअं । हा धिक् हा धिक् । अद्याप्यवस्थायितस्तिमितमूढ-
पूर्णनयना न पदव्यवसायावलात्मानम् ।
तमसा—( सस्नेहकौतुकस्मितं निरूप्य । )
सस्वेदरोमाञ्चितकम्पिताङ्गी
जाता प्रियस्पर्शसुखेन वत्सा ।
मरुन्नवाम्भःप्रविधूतसिक्ता
कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥
क्षेपे ॥ ४० ॥ हा धिक् आर्यपुत्रस्पर्शमोहितायाः प्रमादः संवृत्तः । 'सदो
ईमव सन्त्रादि माधवम् नतनीडनम् । पत्यारुत्व तपनन्दरस्कूर्तिरुन्मादवा
स्त्रिया ॥ इति काव्यदीपिकायाम् । उन्माश्वनिववेत्रम । करेति
॥ ४१ ॥ जडः शिशिरः ॥ ४१ ॥ हा धिक् अवयस्थितस्तिमितभूषणाननं
रिखलेवेद्म न पर्वव्यवपादान्यात्मानम् । स्तिमितः निश्चलः । निरूप्यं दृष्ट्वा ॥
सस्वेद्रोमाञ्चितेति ॥ ४२ ॥ मरुता पवनेन प्रविधूता नवाम्भसा
सिक्केति कर्म । व्यर्थोऽपि प्रगन्दः पादपूरकः । कदम्बयष्टिः शापशाखा ।
'विभक्तारः कोरकाणि' इति भावप्रयोगात् स्फुटानि कोरकाणि यस्या इति
केचित् । तन्न, यथा जलधरपटल इत्यादिवत् कोरकाथीत्वसाधु कोरका पाठ-
स्यायेव साधु । अत एव 'कोरकः पुमान्' इति, 'समूहे षण्डं न ना' इति
च त्रिवेषशारदावलिठनामलिङ्गानुशासने भावत्पादानुग्रहानुकृभैरमर-
सिंहोऽमणीत् ॥ ४२ ॥ अनईं ववणं न्तेने नमनाञ्जन स्नापितासि ।
७८ उत्तररामचरितं [ ३-४२
सीता-(स्वगतम्।) अम्महे अवसेण एदेण अत्ताणएण लज्जाविदम्हि
भयवँदीए तमसाए। किं ति क्खु एसा मण्णिस्सदि एसो परिवादो एसो
अहिसङ्गो त्ति। [अहो अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया।
किमिति स्विदेषा मंस्यत एष परिवाद एषोऽभिषङ्ग इति ।
रामः-(सर्वतोऽवलोक्य।) हा कथं नास्त्येव। नन्वकरुणे वैदेहि।
सीता-सच्चं अकरुणह्नि जा एव्वंविहं तुमं पेक्खन्ती जीवेमि जेव्व।
[सत्यमकरणास्मि यैवम्विधं त्वां प्रेक्षमाणा जीवाम्येव ।
रामः-क्वासि देवि प्रसीद। न मामेवंविधं परित्यक्तुमर्हसि।
सीता-अयि अज्जउत्त विव्वरीअं विअ एदं । [अयि आर्यपुत्र विप्रतीप-
मिवैतत् ।
वासन्ती-देव प्रसीद प्रसीद। स्वेनैव लोकोत्तरेण धैर्येण सस्तम्भया-
तिभूमिं गतमात्मानम्। कुतोऽत्र मे प्रियसखी।
रामः-व्यक्तं नास्त्येव कथमन्धया वासन्त्यपि तां न पश्येत्। अपि खलु
स्वप्न एष स्यात् । न चास्मि सुप्त । कुतो रामस्य निद्रा। सर्वथा स एवेष
भगवाननेकवारपरिकल्पनानिर्मितो विप्रलम्भ पुन पुनरनुबध्नाति माम्।
किमेषा शास्यति । एष परिवाद एषोऽभिषङ्ग इति । अम्महे खेदादिषु ।
अवशं पराधीनत्वम् । लज्जापिता लज्जां प्रापिता । एव मस्येत्यर्थ ।
मुणिस्सदीत्यत्र 'शे मुण' इति गुणादेश । परिवादः अपवाद । 'अभि-
षङ्गः अभिनिवेश' इति धरणि । अकरुणतरास्मि या एवंविधमपि त्वां
पश्यन्ती जीवाम्येव । पश्यन्त्येव जीवामीति च चमत्कार ॥ अयि आर्यपुत्र
विप्रतीपमिवैतत् । एतत् प्रेमेति शेष । विशेषेण प्रतीपं प्रतिकूलम् । तथा च
परित्यागे कृते एव पुन प्रेमानुसरणमनुचितमिति भाव । अतिभूमिं मर्या-
दापरपारमिति यावत् । प्रियसखी सीता । अन्यथा सा यदि स्यात् कथं
न पश्येदिति योज्यम् । सर्वथा प्रकारेण । अनेकवारं असकृत् परि-
कल्पनानि सङ्कल्पविकल्पादीनि यस्मिन् स । 'विप्रलम्भस्तु वञ्चना' इति
नानार्थः । विप्रलम्भस्य भगवानिति विशेषण माहात्म्यापादकम् । अत
एव 'भगवति निद्रे दयस्व'इति भट्टाचार्याः । विप्रलम्भ शृङ्गारविशेष इति
केचित् । विप्रयोग इत्यन्ये । उभे अपि क्षमञ्जसे ॥ 'मए एव्वं विप्पलद्धो'
इत्युत्तरवाक्यविरोधात् । मयैव दारुणया एवं विप्रलब्ध आर्यपुत्र । विप्र-
१ 'मुणिस्सदि' ( शास्यति ) टी. २ 'परिवाद ' टी. ३ 'विवरीद' ( विपरीत ) -
क-घ-च. ४ '°भूमिगतविप्रलम्भन्' क-घ-च.
द्वितीय अङ्क: दण्डकारण्य प्रवेश (आत्रेयी संवाद)
३-४३ ] उत्तररामचरितं ७९
सीता—मए जेव्व दारुणाए विप्पलब्धो अज्जउत्तो । मयैव दारुणया वि-
प्रलब्ध आर्यपुत्रः ।
वासन्ती—देव पश्य पश्य
पौलस्त्यस्य जटायुषा निघटितः कार्ष्णायसोऽयं रथ-
स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः ।
खङ्गच्छिन्नजटायुपक्षतिरिनः सीतां चलन्तीं वह-
न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्त्यादरिः ॥ ४३ ॥
सीता—(सखेदम्) अज्जउत्त तादो वावादीअदि अहं वि अवहरि-
जामि । हा परित्ताहि । आर्यपुत्र तातो व्यापाद्यते अहमप्यपह्रिये । तस्मात्प-
रित्रायस्व ।
रामः—(सावेगमुत्थाय) आः पाप तातप्राणसीतापहारिन् क्व यासि ।
वासन्ती—अयि देव राक्षसकुलप्रलयधूमकेतो किमद्यापि ते मन्यु-
विषय ।
सीता—अम्मो अहं वि उब्भमन्तम्हि । अहो अहमप्युद्भ्रान्तास्मि ।
रामः—अन्यै एवायमधुना विपर्ययो वर्तते ।
लब्धः वञ्चित पातिव्रत्यंमादिनेति भाव । 'विप्रलब्धस्तु वञ्चित' इत्यमरः ॥
अन्यतो दर्शयन्ती मनो विनोदयति-देवेति ॥ पौलस्त्यस्य जटायुषेति
॥ ४३ ॥ पौलस्त्यस्य रावणस्य । कृष्णाजोनय कार्ष्णायसः कृष्णायस्स-
म्बन्धी वा । कृष्णं नीलं य चत् अय लोह तद्विकार इति वा । कार्ष्णायस
इति कथन दाढ्यौतिशयसूचकम् । पिशाचानामिव वदनानि येषा ते । कङ्कालैः
शरीरास्थिभि । शेषाः अतिशयेन कृशा इति यावत् । अत एव नलेन तावदेन
एव बलिन इति परीक्ष्य ऋतुपर्णस्य रथे ह्रस्वतरा वाजिन योजिता इति
महाभारते । खराः वेगादिषु तुरहाधिकाः । 'खपर' इति महाराष्ट्राः ।
जटायोः पक्षतिः पक्षमूलम् । 'जटायुवत्पक्षिरथो न गन्य.' इति बोधाय-
नरामायणे । चलन्तीं कम्पमानाम् । अन्ततः सात्मनि । व्यापृता
स्फुरन्ती विद्युत् यस्य । द्यां आकाशम् । अरिः रावण ॥४३॥ हा आर्यपुत्र
तातो व्यापाद्यते । तातो जटायु. । व्यापाद्यते हन्यते । अहमपि अवहरि-
जामि अपह्रिये । अपहृता भवामीत्यर्थ । परित्तायस्व परित्रायस्व । सावेगः
झंझानातिशय. । प्रलयो नाशो । धूमकेतुः उत्पातविशेषः । हे तव मन्योः
कोपस्य विषयः गोचर । अरिरित्यनुषज्यते । अहो उद्भ्रान्तास्मि । विपर्ययः
१ 'दरनेनै' ब-घ. २ 'वलन्दो' ब-घ. ३ 'गन्तव्यांवु' क-घ-च.
४ '०केनो अद्यापि' घ-घ. ५ 'अन्यथै एवायमधुना प्रमादो वर्तते' ब-घ.
८० उत्तररामचरितं [ ३-४५
उपायानां भावादविरतविनोदव्यतिकरै-
र्विमर्दैर्धीराणां जगति जनितात्यद्भुतरसः ।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत्
कथं तूष्णीं सह्यो निरवधिरयं त्वप्रतिविधः ॥ ४४ ॥
सीता—णिरवहित्ति हा हदम्हि मन्दभाइणी । निरवधिरिति हा हतास्मि
मन्दभागिनी ।
रामः—हा कष्टम् ।
व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा
प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे ॥ ४५ ॥
सीता—बहुमण्णाविद्म्हि तं पुव्वविरहं । बहुमानितास्मि तं पूर्ववि-
रहम् ।
रामः—सखि वासन्ति दुःखायैव सुहृदामिदानीं रामस्य दर्शनम् । कि-
मथिरं स्वा रोदयिष्यामि । तदनुजानीहि मां गमनाय ।
ब्यास ॥ उपायानां भावादिति ॥ उपायानां सामादीनां चतु-
र्णाम् । भावात् अविरतं सन्ततम् विनोदव्यतिकराः कौतुक-
व्यापारा येषु । 'विनोद कौतुके हास्ये' इति, 'व्यापारे मुदि सम्बन्धे योगे
व्यतिकरे' इति नामार्णवशब्द्रार्णवौ । विमर्दैः सङ्ग्रामैः । रिपुघातः
अवधिः अवसानं यस्य । 'वृथार्थेऽपि तूष्णीम्' इति रभसः । 'परित्याग-
वियोगान्तपाता प्रविलयास्तु ता' इति केदारः ॥ ४४ ॥ निरवधिरिति हा
हतास्मि । पूर्ववियोगापेक्षया आधुनिकवियोगस्य वैलक्षण्यमाह ॥ व्यर्थं यत्र
कपीन्द्रेति ॥ ४५ ॥ यच्छब्दन्रयेण प्रलय परामृश्यते । अविषये
अगोचरे । तत्र तस्मिन् प्रविलये इति शेषः । यनेति पञ्चधा वक्तव्ये त्रिधा
कथनं प्रक्रमभङ्गः । 'न स्थातुं न पलायितुं यतितु नोन्मीलितुं नो हातुं निज-
जीवितं प्रभवति' इति लीलाधरप्रयोग इव अनुग्राह्य । केचिदविषये इति
पाठमाश्रित्य य इत्यध्याहारमुररीचक्रु । तत् कुरीकन्दितमिव परिहास्यम् ।
यनेति प्रायपाठ, प्रतीतस्य प्रातिकूल्यात् । अभिनयमधिरूम् ॥ ४५ ॥
१ 'अविरल' न. २ 'व्यतिकर' घ. ३ 'जनितवरुदत्यद्भुत०' न. ४
'वतु' न. ५ 'तु प्रक्षिप्त' न, 'निरन्तरिदानीं तु विरह.' घ. ६ 'जाम्ब-
वतो न यत्र' न ७ 'अविषय' घ. ८ 'बहुमानिदिम्हि पुव्वविरहे' न.
३-४५ ] उत्तररामचरितं ८१
सीता-( सोद्वेगमोहं तन्वनानाष्टिद्य) भअवदि तमसे गच्छदि दाणि
अज्जउत्तो । ( इति मूर्च्छति ) भगवति तमसे गच्छतीदानीमार्यपुत्रः ।
तमसा-वत्से समाश्वसिहि समाश्वसिहि । नन्वावामायुष्मतोः कु-
शलवयोर्वर्षवर्धनमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः ।
सीता-भअवदि पसीद । खणमेत्तं वि दाव दुल्लहदंसणं जणं पेक्खामि ।
भगवति प्रसीद । क्षणमात्रमपि तावद्दुर्लभदर्शनं जनं प्रेक्षे ।
रामः-अस्ति चेदानीमश्वमेधाय सहधर्मचारिणी मे ।
सीता-( सोकम्पम् ) अज्जउत्त का । आर्यपुत्र का ।
रामः-हिरण्मयी सीताप्रतिकृतिः ।
सीता-( सोच्छासाश्रुम् । ) अज्जउत्तो दाणिं सि तुमं । अम्महे उक्खा-
त्तिदं दाणिं मे परित्त्यागलज्जाशल्यं अज्जउत्तेण । आर्यपुत्र इदानीमसि त्वम् ।
अहो उत्खातमिदानीं मे परित्यागलज्जाशल्यमार्यपुत्रेण ।
रामः-तत्रापि तावद्वाष्पदिग्धं चक्षुर्बिनोदयामि ।
सीता-धण्णा सा जा एव्वं अज्जउत्तेण बहुमण्णीअदि जा अ अज्जउत्तं
विणोदअन्ती आसाणिबन्धणं जादा जीवलोअस्स । धन्या सा चैवमार्यपुत्रेण
बहु मन्यते या चार्यपुत्रं विनोदयन्त्याशानिबन्धनं जाता जीवलोकस्य ।
तमसा-( सस्मितस्नेहास्रं परिष्वज्य । ) अयि वत्से एवमात्मा स्तूयते ।
बहुमानितासि पूर्वेतिरद्द, दृष्टिश्वेत्यर्थं । उद्वेगो भयसभ्रम ॥ हा भगवति
तमसे गच्छतीदानीमार्यपुत्र । वर्षवर्धनं अभ्युत्पूर्ति । भगवति प्रसीद ।
क्षणं तावदुर्लभदर्शनमार्यपुत्रं पश्यामि । क्षणमिति पाठस्साधु । दुर्लभेति
ध्वनि । आर्यपुत्र का । आर्यपुत्र इदानीमसि त्वम् । अद्यहे उत्खातमिदानीं
परित्यागस्लज्जाशल्यमार्यपुत्रेण । उत्खातं त्राटश्म् । तत्रापि कनकसीताप्र-
तिकृतावित्यर्थं । चक्षुः कर्म । धन्या खलु सा या एवमार्यपुत्रेण बहु मन्यते
या चार्यपुत्रं विनोदयन्ती आशानिबन्धनं जाता जीवलोकस्य । जीवलोकस्तद्रू-
पस्य । शश्या-गोपीकृष्ण सीलाराम इत्यादि यथा गोपीजुलकृष्ण सीतायुक्त-
राम इति समाथीर्यते । तथा प्रकृते जीवयुक्तां शेषा भुवनानि यस्मिन् तस्य
जीवलोकस्य रामस्येत्यर्थं । जीवलोक इत्युपलक्षणम् । तथा च जीवलोकस्य
रामस्य चाभेद सिद्ध । अत एव 'विश्वं विष्णु' इति । 'वासनाद्वासुदेवस्य'
इत्यादि पौराणिका इति । आशेति यथा रामं विहाय थाशा न निर्गच्छेत् ।
१ 'अहिलासब्यापारि' क. २ 'सांप्रतं गच्छाव' क.
८२ • उत्तररामचरितं [ ३-४६
सीता—( सलज्जमधोमुखी स्वगतम् ) परिहसिदह्मि भववदीए । परिह-
सितास्मि भगवत्या ।
वासन्ती—महानयं व्यतिकरोऽस्माकं प्रसादः । गमनं प्रति यथा कार्य-
हानिर्न भवति तथा क्रियताम् ।
सीता—पडिकूला दाणि मे वासन्दी संवृत्ता । प्रतिकूलेदानीं मे वासन्ती
सवृत्ता ।
तमसा—वत्से एहि गच्छावः ।
सीता—( सकष्टम् ) एवं करेह । एवं कुर्वे ।
तमसा—कथं वा गम्यते । यस्यास्तव
प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः ।
मर्मच्छेदोपमैर्यत्नैः संनिकर्षो निरुध्यते ॥ ४६ ॥
सीता—नमो नमो ॲसुव्वपुण्णजणिददंसणाणं अज्जउत्तचरणकमलाणं।
तया आशाया बन्धन जातेति भावः । सस्मितेति—सीताप्रतिद्वन्द्विन्याजेन
आत्मानमेव स्तौति इति स्मिताभिप्रायः, रामः प्रतिकूलावप्येवमनुरक्त इति स्नेह-
सन्दर्भः । ईदृशयोरीतशी दशेतस्तोदयः । एवमादिषु तेषु तेषु स्थलेषु ते ते
हेतवः कुशाम्रबुद्धिभिरूह्याः । आत्मनेति—त्वं सीतेति यावत् । परिहसितासि
भगवत्या । अनुजानीहि मा गमनायेति वादिनं रामं प्रत्याह— महानिति ।
व्यतिकरः सन्तोषः । 'मुदि व्यतिकर' इति नामार्णव । गमनं प्रति
प्रमादस्त्वेति शेषः । अस्माकं महान्व्यतिकरोऽयमित्यन्वयः । कार्येति—तदेहि
संभावयाम्वानिति द्वितीयाङ्कपूर्वो शम्बूको भगवद्गमस्त्यसन्दर्शनरूपकार्यमिति
भावः । प्रतिकूला इदानीं मे वासन्ती सवृत्ता । एवं कुवै । गमनमिति
प्रयाससाध्यमित्याह-प्रतीति । दयिते इति सीता प्रति संबोधनथमस्कारः ।
वस्तुतः दयिते भर्तरि रामभद्रे ॥ प्रत्युप्तस्येवेति ॥ ४६ ॥ प्रत्युप्तस्येव
स्थितस्येत्यर्थः । तृष्णा दर्शनेच्छा दीर्घा यस्मिन् । तस्य चक्षुषः । सन्नि-
कर्षः मर्मच्छेदोपमैः सह्यतुदैः यत्नैः साहसे । निरुध्यते अतिबलात्कार-
रादितस्त्वमन्यन नीयसे इति भावः । चक्षुष इति जातावेकवचनम् । 'विपुलं
चक्षुरपि विस्तृतं नितम्बे' इति गौडपादाचार्याः । 'चरणं शरणं त्वदीयं'
इति श्रीकालहस्तीश्वरशतके वरदन्तश्च ॥ ४६ ॥ नमस्सुकृतपुण्यजन-
१ 'गमनं पुनर्यथा' क. २ 'तथास्ताम्' क-घ-च. ३ 'च्छेदपरैयत्नैराकर्षो
न समाप्यते' क-घ-च. ४ 'सुविदुप्पण्णजणदमणिआण' ( सुकृतपुण्यजनदर्शनी-
याना ) न-टी.