सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 97, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 97

८० उत्तररामचरितं [ ३-४५
उपायानां भावादविरतविनोदव्यतिकरै-
र्विमर्दैर्धीराणां जगति जनितात्यद्भुतरसः ।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत्
कथं तूष्णीं सह्यो निरवधिरयं त्वप्रतिविधः ॥ ४४ ॥
सीता—णिरवहित्ति हा हदम्हि मन्दभाइणी । निरवधिरिति हा हतास्मि
मन्दभागिनी ।
रामः—हा कष्टम् ।
व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा
प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे ॥ ४५ ॥
सीता—बहुमण्णाविद्म्हि तं पुव्वविरहं । बहुमानितास्मि तं पूर्ववि-
रहम् ।
रामः—सखि वासन्ति दुःखायैव सुहृदामिदानीं रामस्य दर्शनम् । कि-
मथिरं स्वा रोदयिष्यामि । तदनुजानीहि मां गमनाय ।
ब्यास ॥ उपायानां भावादिति ॥ उपायानां सामादीनां चतु-
र्णाम् । भावात् अविरतं सन्ततम् विनोदव्यतिकराः कौतुक-
व्यापारा येषु । 'विनोद कौतुके हास्ये' इति, 'व्यापारे मुदि सम्बन्धे योगे
व्यतिकरे' इति नामार्णवशब्द्रार्णवौ । विमर्दैः सङ्ग्रामैः । रिपुघातः
अवधिः अवसानं यस्य । 'वृथार्थेऽपि तूष्णीम्' इति रभसः । 'परित्याग-
वियोगान्तपाता प्रविलयास्तु ता' इति केदारः ॥ ४४ ॥ निरवधिरिति हा
हतास्मि । पूर्ववियोगापेक्षया आधुनिकवियोगस्य वैलक्षण्यमाह ॥ व्यर्थं यत्र
कपीन्द्रेति ॥ ४५ ॥ यच्छब्दन्रयेण प्रलय परामृश्यते । अविषये
अगोचरे । तत्र तस्मिन् प्रविलये इति शेषः । यनेति पञ्चधा वक्तव्ये त्रिधा
कथनं प्रक्रमभङ्गः । 'न स्थातुं न पलायितुं यतितु नोन्मीलितुं नो हातुं निज-
जीवितं प्रभवति' इति लीलाधरप्रयोग इव अनुग्राह्य । केचिदविषये इति
पाठमाश्रित्य य इत्यध्याहारमुररीचक्रु । तत् कुरीकन्दितमिव परिहास्यम् ।
यनेति प्रायपाठ, प्रतीतस्य प्रातिकूल्यात् । अभिनयमधिरूम् ॥ ४५ ॥
१ 'अविरल' न. २ 'व्यतिकर' घ. ३ 'जनितवरुदत्यद्भुत०' न. ४
'वतु' न. ५ 'तु प्रक्षिप्त' न, 'निरन्तरिदानीं तु विरह.' घ. ६ 'जाम्ब-
वतो न यत्र' न ७ 'अविषय' घ. ८ 'बहुमानिदिम्हि पुव्वविरहे' न.