सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 91, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 91

७४ उत्तररामचरितं [३-३८
रामः-अयि चण्डि जानकि इतस्ततो दृश्यस इवै नानु कम्पसे ।
हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ३८॥
(इति मूर्च्छति।)
सीता-हद्धी हद्धी पुणोवि पमूढो अज्जउत्तो। हा धिक् हा धिक् पुन-
रपि प्रमूढ आर्यपुत्र ।
वासन्ती-देव समाश्वसिहि समाश्वसिहि ।
सीता-अज्जउत्त म मन्दभाइणि उद्दिसिअ सअलजीवलोभमङ्गलांधा
रस्स दे वारंवार संसइदजीवितदारुणो दसापरिणामो त्ति हा हदम्हि।
(इति मूर्च्छति।) आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्गला-
धारस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि।
तमसा-वत्से समाश्वसिहि समाश्वसिहि । पुनस्त्वत्पाणिस्पर्श एव
सञ्जीवनोपायो रामभद्रस्य।
तराम्, इत्युभयितरत्न । अलैरित्यनैदिकघण्टापथमन्थ (१) विशेषज्ञ
प्रमाणम् ॥ ३७ ॥ या एतैर्हृदयमर्मगूढशल्यपट्टनै पुन पुनरपि मा मन्दभा
गिनीमार्यपुत्राय स्मरयति ॥ हा हा देवि स्फुटतीति ॥ ३८ ॥ हाहेति
वीप्सायाम् । देहशब्देनाङ्गानि लक्ष्यन्ते । तेषां बन्धः परस्परसम्बन्धः । ध्वं-
सते ध्वस्तो भवति । अविरलज्वालं यथा तथा । 'मनस्यात्मनि चान्त
स्स्यात्' इति रत्नमाला । तमसि भ्रमे । अन्धे गाढे सति । सीदन् ह्रिष्य
मान । 'विधुरो दीन' इति शब्दार्णव । आत्मा देह । 'मूर्तिर्देह त्रि-
प्वात्मा' इति हलायुध । अन्त मनसि । कत्त पश्यामीति दीक्षिताः ।
मोह मूर्च्छा । विष्वक् अभित । स्थगयति पुष्ठयतीति केदार । मामिति
शेष । 'निमित्तार्थेऽपि च क्व' इति शब्दमाला ॥३८॥ हा धिक् हा धिक् पुन-
रपि प्रमूद आर्यपुत्र । आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्ग
लाधारजन्मलाभस्य ते संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि ।
संशयितं सम्जातसंशय जीवितं यस्मिन् दशापरिणामे । स चासौ दा-
१ 'दृश्यसे नानु०' ग, 'दृश्यसे एव' घ २ 'अविरत' ग-घ ३ 'मह-
त्तिजग्मलाइस्स' ( महत्त्थदामहामस्स ) ग, 'मङ्गलाधारजन्मलाभस' टी.