सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

प्रकाशमात्रमुदित-

श्लोक २४ ] द्वितीयमाह्निकम् । १६
प्रकाशमात्रमुदित-
मप्रकाशनिषेधनात् ।
एकशब्दस्य न त्वर्थः
संख्या चिद्व्यक्तिभेदभाक् ॥२३॥
अप्रकाशः – प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्नि-
षिद्धः, अतः 'प्रकाशः केवलोऽस्ति' इत्येकशब्दस्या-
त्रासहायाद्वृत्तिः, तदुक्तं 'एकशब्दस्यार्थः प्रकाशमा-
त्रमुदितम्' इति, न पुनः प्रकाशभेदभाक् इत्येकद्वि-
त्र्यादिलक्षणः संख्यार्थो, येन – मतान्तराण्यप्यपो-
ह्यतया संभावनीयानि स्युः ॥२३॥
अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते,
इत्याह
नैष शक्तिर्महादेवी
न परत्राश्रितो यतः ।
पं० ३ क० पु० नन्वर्थ इति पाठः ।
पं० ६ क० पु० एकशब्दस्यासहाया वृत्तिरिति पाठः ।
पं० ७ ख० पु० शब्दस्यार्थः प्रकाशमानं तदितरदितरदिति न पुनरिति पाठः ।
पं० ८ क० पु० एकद्वित्वादिलक्षणसत्तानन्तराख्यान्यापोहतयेति पाठः ।

२० श्रीतन्त्रालोकः ।
न चैष शक्तिमान्देवो
न कस्याप्याश्रयो यतः ॥२४॥
नैष ध्येयो ध्यात्रभावा-
न्न ध्याता ध्येयवर्जनात् ।
न पूज्यः पूजकाभावा-
त्पूज्याभावान्न पूजकः ॥२५॥
न मन्त्रो न च मन्त्र्योऽसौ
न च मन्त्रयिता प्रभुः ।
न दीक्षा दीक्षको वापि
न दीक्षावान्महेश्वरः ॥२६॥
एष इति - व्याख्यातस्वरूपः परः प्रकाशः, शक्ति-
शक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसा-
पेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं
लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव
स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः
कश्चिदस्ति, इत्येवं - व्यवहारमात्रतां कदाचिदपि स
पं० ५ क० पु० न पूजा पूजकेति पाठः ।

श्लोक २७ ] द्वितीयमाह्निकम् । २१
न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिम-
न्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश
एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छ-
ब्दव्यवहारोऽपि नायं, सोऽपि हि परं शक्तिलक्षण-
मर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं
ध्येयादावपि ज्ञेयं, मन्त्र इति मन्त्रस्य प्रणवादेर्वा-
च्यः, मन्त्रयिता मन्त्राणां पाठकः, न दीक्षेति कर्तृ-
कर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः
॥ २४-२५-२६ ॥
अत एव यत्किंचन भेदाधायकं तदत्र नास्ति,
इत्याह
स्थानासननिरोधार्घ-
संधानावाहनादिकम् ।
विसर्जनान्तं नास्त्यत्र
कर्तृकर्मक्रियोज्झिते ॥२७॥
पं० २ ग० पु० इत्यनाक्षेपादिति पाठः ।
पं० ४ क० ख० पु० सोऽपि स्वशक्तिलक्षणमुररीकृत्य इति पाठः ।
पं० ६ ख० पु० मन्त्र्य इति मन्त्रस्यास्येति पाठः ।

२२ श्रीतन्त्रालोकः ।
स्थानं-स्थापनमुद्रया भगवतोऽवस्थानम्, आसनं-
संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः-तत्रै-
वाविचलत्त्वेनावस्थानम्, अर्घोऽष्टाङ्गः, संधानं मन्त्रा-
दिविषयम्, आवाहनं-अनभिमुखस्याभिमुखीकरणं,
विसर्जनम् - अभिमुखीभूतस्यानभिमुखीकरणम्,
एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भं विशे-
षणं - 'कर्तृ इत्यादि' कर्त्रादीनां हि विकल्पैकपरमार्थ-
त्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्य-
त्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति
'नैष शक्तिः' इत्यायुक्तम् ॥२७॥
न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि
सिद्धम्, इति श्रीभर्गशिखां संवादयति ।
न सन्न चासत्सदस-
न्न च तन्नोभयोज्झितम् ।
दुर्विज्ञेया हि सावस्था
किमप्येतदनुत्तरम् ॥२८॥
पं० २ ख० पु० पूज्यं प्रति इति पाठः ।
पं० ७ ख० पु० कर्त्रादयो हि इति पाठः, तदनुसारेण शक्यन्ते इति च समु-
चितः प्रतिभाति ।