सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 293, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 293

२६४ (१.५.१२) तैत्तिरीयब्राह्मणम्
समर्थानि । कैश्चिदक्षरैर्न्यूनत्वात् । स च न्यूनाधिकभावः श्रुत्यैव
दर्शयिष्यते । तदानीं स आदित्यस्तानि षडपि च्छन्दांसि परित्यज्य
बृहतीमेवस्वकार्यक्षमियमित्थेवं स्पृष्टवान् । सा च बृहती स्वकार्येषु षट्
त्रिंशदक्षरेषु द्वे एवाक्षरे अहोरात्ररूपतामापाद्य ताभ्यामादित्यस्योपकरोति ।
तावताऽधः प॑तिभीतिर्निवृत्ता ।
अथ प्रश्नोत्तराभ्यां बृहतीमहिमानं दर्शयति-
तदा॑हुः । क॒तमा सा दे॒वाक्ष॑रा बृह॒ती । यस्यां॑
तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्य॑ः । द्वाद॒शाष्ट॑काः ।
द्वाद॑शामावा॒स्या॑ः । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती (२) ।
यस्यां॑ तत्प्र॒त्यति॑ष्ठ॒दिति॑, इति ।
बृहती द्विविधा-शब्दात्मिका देवतात्मिका चेति । तस्या
अवयवभूतान्यक्षराणि च द्विविधानि- शब्दात्मकानि देवतात्मकानि च ।
न क्षरत्येभिर्द्विविधैरवयवैरिति व्युत्पत्या द्विविधा अप्यवयवा
अक्षरशब्दवाच्याः । तत्र शब्दात्मकाक्षरावयवाः “पुनानः सोम”
इत्यादिश्वृक्षु प्रसिद्धः । देवतारूपाक्षरावयवैर्युक्ता देवतारूपा या बृहती
तस्यामादित्यमण्डलं प्रतिष्ठितम् । सा च बृहती तदवयवाश्च कीदृशीति
पप्रच्छुः । तत्राभिज्ञ उत्तरं ब्रूते । पौर्णमास्यः कृष्णाष्टम्योऽमावास्याश्च
संवत्सरगताः सर्वा मिलित्वा देवतारूपा अक्षरावयवाः । तत्संघारूपेयं
बृहती देवताऽऽदित्यमण्डलस्याऽऽधारभूता । तया
धारितमादित्यमण्डलमधो न पततीति स्तोत्रगानकाले भावनार्थमिदं
देवतारूपं निरूप्यते ।
अथ देवतारूपाणां छन्दसां संवादमुखेन सर्वेषां प्रशस्तं बृहतीरूपत्वं
संपादयति-
यानि॑ च॒ च्छन्दा ँ'स्यत्यरि॑च्यन्त । यानि॑ च॒ नोद भ॑वन् ।
तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद् बृह॒ती ।
मामे॒व भू॒त्वा । मामुप॒स ँ' श्र॑ यतेति॑ ।
च॒तुर्भि॑रक्षरै॑रनु॒ष्टुब्बृ॑ह॒तीं नोद॑भवत् । च॒तुर्भि॑रक्षरैः
प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑