तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
१८४ (१.४:४) तैत्तिरीयब्राह्मणम्
जातवेदा उत्पन्नसर्वजगदभिज्ञोऽग्निः स्वाद्योनेः
स्वकीयात्कारणादितोऽरणेः प्रथममुत्पन्नः । स च गायत्र्यादिच्छन्दस्त्रयेण
सहकारिणा देवान्हविश्च प्रकर्षेण जानन्नस्मदीयं हव्यं देवेभ्यो
वहत्वित्यनेन मन्त्रेण मन्थनं कुर्यात् । तथा सति
गायत्र्यादिच्छन्दोभिरेवानुगृहीतः स्वकीयात्कारणादुत्पादितो भवति ।
यथोक्तं मन्थनविधिमनूद्यानुमन्त्रणं विधत्ते-
गा॒र्हप॑त्यं मन्थति । गा॒र्हप॑त्यं वा अन्वहि॑ताग्नेः प॒शव॒
उप॑तिष्ठन्ते । स यदु॒द्वास॑यति । तदनु॑ प॒शवोऽप॑क्रामन्ति .
इ॒षे र॒य्यै रम॑स्व (८), इति । सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे
पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शुने॒वास्मै॑ रमयति,
इति ।
मन्थनेन निष्पन्नो यो गार्हपत्यस्तदनु पशवोऽस्य संपद्यन्ते ।
तदुद्वासने तु पशवो नश्यन्ति । अतस्तदुद्वासनं वारयितुमिष
इत्यादिमन्त्रेणाभिमन्त्रयेत् । मन्त्रस्य चायमर्थः-हेऽग्ने इषऽन्नार्थं रय्यै
धनार्थं सहसे बलार्थं द्युम्नाय यशोर्थमूर्जे क्षीरादिरसार्थं पत्याय
स्वामित्वार्थं च रमस्व त्वामत्र क्रीडां कुरु । अस्मिन्मन्त्रे धनवाचिना
रयिशब्देन पशूनामप्यभिमतत्वात्पशूनस्मै संपादयति ।
अथ मन्त्रेण समिन्धनविधिमभिप्रेत्य तस्य भागमनूद्य व्याचष्टे-
सार॑स्व॒तौ त्वो॒त्सौ स॒मि॑न्धाता॒मित्या॑ह । ऋ॒क्सामे॒ वै
सार॑स्व॒तावु॒त्सौ । ऋ॒क्सा॒माभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति ।
हेऽग्न उत्सावत्युत्सुकौ सारस्वतौ
सरस्वतिसंबन्धिनावृग्वेदसामवेदौ त्वां समिन्धातां सम्यग्दीपयताम् ।
भागान्तरमुदाहृत्य व्याचष्टे-
स॒म्राड॑सि वि॒राड॑सीत्या॑ह । र॒थ॒न्तरं॒ वै स॒म्राट् । बृ॒हद्वि॒राट्
(९) । ताभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति ।
सम्यग्राजत इति सम्राट् । विविधं राजत इति विराट् । हेऽग्ने
सामद्वयरूपस्त्वमसि ।
अथ निमित्तान्तरकृतं प्रायश्चित्तं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.४) १८५
वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑न्दन्ति । यस्या॒नौ-
वा॒ रथो॑ वा॒न्तराग्नी॒ याति॑ । आ॒ह॒व॒नीय॑मुद्वाप्य॑ ।
गार्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒द ँहि ते॑ । सूर्य॑स्य
र॒श्मीनन्वात॑तान॑ । तत्र॑ र॒यिष्ठामनु॒सम्भ॑रैतम् । सं नः॑ सृज
सु॒म॒त्या वाज॑व॒त्येति॑ । पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒संत॑नोति,
इति ।
शकटस्य रथस्य वा यच्चक्रं तल्लोहबद्धतया वज्रसमानम् ।
“रथतृतीयम्” इति वज्रांशत्वश्रुतेश्च । तथा सत्याहवनीयगार्हपत्ययोर्मध्ये
रथस्य शकटस्य वा गमने सति वज्रेण यज्ञो विच्छिद्येत् ।
अतस्तत्परिहारार्थमाहवनीयं विनाशय यदग्नय इत्यादिकमन्त्रेण
गार्हपत्यात्पुनरुद्धरेत् । मन्त्रस्य चायमर्थः-हेऽग्ने तव प्रभृतं प्रकर्षेण पुष्टं
यत्पदं स्वरूपं सूर्यस्य रश्मीनन्वनुक्रमेण सर्वतः प्रसारयामास । तत्र
यद्रयिष्ठां धनसमृद्धाववस्थितमेतमाहवनीयमनुक्रमेण संभर सम्यक्पोषय ।
नोऽस्मान्वाजवत्यान्नेनोपेतया सुमत्याशोभनबुद्ध्या संसृज संयोजय ।
अनेन मन्त्रेणाऽऽहवनीयोद्धरणे सति पूर्वसिद्धेनैव यज्ञेनास्य यजमानस्य
करिष्यमाणं यज्ञमनुक्रमेण संततं करोति ।
अस्मिन्नेवोद्धरणे मन्त्रान्तरं विधत्ते -
त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह अ॒ग्निः सर्वा॒ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञ ँसंत॑नोति, इति ।
हेऽग्ने त्वं सप्रथाः कीर्तियुक्तोऽसि । अस्य मन्त्रस्योत्तरभाग
उपहोमकाण्डे समाम्नास्यते । अस्मिन्पादे प्रशस्यमानोऽग्निः
सर्वदेवतात्मकः । ते देवा बिभ्यतोऽग्निं प्राविशंस्तस्मादाहुराग्निः
सर्वदेवता इत्यन्यत्राऽऽम्नानात् । अतो देवताभिरेव सहायभूताभिर्यज्ञं संततं
करोति ।
अत्रैव कर्तव्यशेषं विधत्ते-
अ॒ग्नये॑ पथि॒कृते॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व
प॑थि॒कृत् ँस्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ य॒ज्ञियं॑
पन्था॑मपि॑ नयति । अ॒न॒ड्वा न्द॑क्षिणा । वृ॒ही ह्ये॑ष समृ॑द्ध्यै
(१०), इति ।
१८६ (१.४.५) तैत्तिरीयब्राह्मणम्
हर॒त्यथा॑ग्निहो॒त्रं निम्रो॑चति हरे॒द्देव॑ता गच्छ॒त्युद्वाये॑न्मन्थे॑द्रमस्व
बृ॒हद्वि॒राडेति॑, नव॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
(नि वै पूर्वं त्रीणि निम्नो (म्रो)र्चति दर्भेण यद्धिरण्यमग्निहोत्रम् ।
पुनर्वरुणोवारुणं नि वा एतस्यावाभ्युदेति चतुर्गृहीतमाज्यं यदाज्यं यदग्निं
परोच्युषाः । पुनर्मित्रो मैत्रं यस्याऽऽहवनीयेऽनुद्गाते गार्हपत्ये यद्वै
मन्थेदुद्धरेत ॥ (१)
पन्थानं करोतीति पथिकृत्तादृशोग्निर्निरुप्तेन स्वकीयेन भागधेयेन
सेवित एनं यजमानं यज्ञयोग्यं पन्थानं प्रापयति । तत्र चानड्वान्दक्षिणा
देया । स च भारवाहित्वात्समृद्धयै संपद्यते ।
अत्र विनियोगसंग्रहः-
उषामन्त्रेण होमः स्यात्पुरा सूर्योदये सति ।
इतः प्रथेति मन्त्रेण पश्चिमानलमन्थनम् ॥
इषे रय्यै तु मथितं मन्त्रयेतानलं तदा ।
सारस्वतौ त्वेति मन्त्राद्देतमग्निं समिन्धयेत् ॥
यदग्न इत्यन्तराये रथेनाग्निं समुद्धरेत् ।
त्वमग्न इत्यपि तथा षण्मन्त्रा इति कीर्तिताः ॥
इति श्रीमत्सायणाचार्यविरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ चतुर्थप्रपाठके पञ्चमोऽनुवाकः ।
चतुर्थेऽग्निविषयं प्रायश्चित्तमुक्तम् । पञ्चमे सोमविषयं
प्रायश्चित्तमुच्यते । तत्र प्रातः सवनविषयं प्रायश्चित्तं विधत्ते-
यस्य॑ प्रातः स॒वने॒ सोमो॑ऽति॒रिच्य॑ते । माध्यं॑दिन॒ꣳ सव॑नं
का॒मय॑मानो॒ऽभ्य॑ति॒रिच्य॑ते । गोध॑यति म॒रुता॒मिति॑
धर्य॑द्वतीषु कुर्वन्ति॑ ॥ हि॒नस्ति॒ वै सं॒ध्यधी॑तम् । सं॒धीव॒
खलु॒ वा ए॒तत् । यत्स॑वनस्याति॒रिच्य॑ते । यद्धर्य॑द्वतीषु
कु॒र्वन्ति॑ । सं॒धेः शान्त्यै॑, इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८७
यस्य यजमानस्य प्रातः सवनेऽनुष्ठिते सति तत्राभिषुतः सोमः
कियानप्यवशिष्यते तस्यासौ सोमो माध्यंदिनसवनेऽपि
स्वस्योपयोगमपेक्ष्यातिरिक्तो भवति । तस्यातिरेकदोषस्य परिहाराय
धयच्छब्दोपेतास्वृक्षु गौर्धयति मरुतामित्यादिषु स्तोत्रं कुर्वन्ति । यद्वेद-
वाक्यमहोरात्रयोः संघावधीतं तदध्येतारं हिनस्ति । तथा चाध्ययननिषेधेषु
प्रस्तुतेष्वापस्तम्बः स्मरति-“तावन्तं कालं नाधीयीताध्यापयेद्वा
संध्योस्तथा” इति प्रातः सवनस्य सोमातिरेको यत्तदेतत्संधीव । यथा
संध्याकालोऽहोरात्रोभयस्पर्शैंवमतिरिक्तसोमोऽपि प्रातःसवने
संपादितत्वान्माध्यंदिनसवनकामित्वाच्चोभयस्य स्पर्शी । ततः
संध्याकालाध्ययनसमानो दोषः प्राप्नुयात् । तत्र धयद्वतीषु स्तोत्रे क्रियमाणे
सत्यतिरिक्तस्य सोमस्यापि प्रातःसवनान्तःपातित्वसंधित्वं शाम्यति ।
तदेतत्सूत्रकारेणापि स्पष्टमुक्तम्-“यदि प्रातःसवने प्राग्धोमात्सोममतिरिक्तं
पश्येत्तं चमसेष्वभ्युन्नयदुपाजुहुयाद्वां हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुर्यात् ”
इति । एवं सति प्रातःसवनस्यैतदन्तत्वादनन्तरभाविनो
माध्यंदिनसवनत्वादुभयव्यतिरिक्तः संधिर्नाम कश्चिन्न भविष्यति ।
अतिरिक्तसोमस्य स्तोमार्थं धयद्वतीषु यत्स्तोत्रे क्रियते तत्र
सामस्तोमविशेषौ विधत्ते-
गा॒य॒त्र ँसाम॑ भवति पञ्चद॒शः स्तोम॑ः । तेने॑व प्रा॒तः
सव॒नान्नय॑न्ति (१) , इति ।
प्रातः सवने हि बहिष्पवमानस्तोत्रं गायत्रसाम्ना निष्पाद्यते । आज्य-
स्तोत्राणि पञ्चदशस्तोमेन । तस्योभयस्यात्र क्रियमाणत्वेन प्रातः
सवनलक्षणसद्भावादतिरिक्तसोमस्यानुष्ठातारः प्रातःसवनान्नाप
गच्छन्ति ।
धयद्वतीष्वृक्षु मरुच्छब्दस्य विद्यमानत्वात्तत्प्रयुक्तं गुणं दर्शयति-
म॒रुत्व॑तीषु कुर्वन्ति । तेनै॑व माध्यंदि॒नात्सव॑ना॒न्नय॑न्ति,
इति ।
मरुतो हि माध्यंदिनसवनसंबन्धिनः । तत्र हि दतीया ग्रहा आम्नाताः
“यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते” इति श्रुतेः । अतो मरुत्वतीषु
स्तोत्रकरणेनमाध्यंदिनसवनलक्षणसद्भावादतिरिक्तसोमेन कामित-
माध्यंदिनसवनं नापगच्छन्ति ।
अतिरिक्तसोमानुष्ठानप्रकारं विधत्ते-
१८८ (१.४.५) तैत्तिरीयब्राह्मणम्
होतु॑श्च॒म॒सम॒नून्न॑यन्ते । होता॑ऽनु॒शँस॑ति । म॒ध्य॒त ए॒व य॒ज्ञ ँ
स॒माद॑धाति, इति ।
दशसु चमसेषु मध्ये योऽयं होतुश्चमसस्तमादावतिरिक्तसोमेन
पूरयित्वा पश्चादन्यान्पूरयेत् । अत्र होतैव शस्रं पठेत् । अत एव सूत्रकार
आह- “ऐन्द्रावैष्णवं होताऽनुशंसति” इति एवं कुर्वन्यज्ञं मध्यतः
समादधाति । अन्यूनातिरिक्तं सवनद्वयं समी करोति । यथा संधिदोषो
न भवति तथा करोतीत्यर्थः ।
अथ माध्यंदिनसवनविषयं प्रायश्चित्तं विधत्ते-
यस्य॑ माध्यंदि॒ने सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं
तृ॑तीयस॒वनं॒ काम॑यमानोऽभ्य॑ति॒रिच्य॑ते । गौ॒रि॒वी॒तं ॅसाम॑
भवति । अ॒ति॒रि॒क्तं वै गौ॑रिवी॒तम् । अ॒ति॒रि॒क्तं
यत्सव॑नस्याति॒रिच्य॑ते (२) । अति॑रिक्तस्य शा॒न्त्यै, इति ।
यद्गौरिवीताख्यं साम तत्राक्षरातिरेकस्य
विद्यमानत्वात्तेनायमतिरिक्तदोषः शाम्यति । इतरत्पूर्ववद्व्याख्येयम् ।
अत्र सामाधारमृग्विशेषं विधत्ते-
ब॒ण्म॒हा ॅअ॑सि सूर्य्येति॑ कुर्वन्ति । यस्यै॒वाऽऽदि॒त्यस्य॑
सव॑नस्य॒ कामै॒नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ समर्ध॑यन्ति,
इति ।
बडित्यादिकमृक्प्रतीकम् । तत्र चाऽऽदित्यवाचकः सूर्यशब्द
आम्नातः । तृतीयसवनं चाऽऽदित्यसंबन्धि । आदित्यग्रहस्य तत्र
विहितत्वात् । अत एव सूत्रकारेणोक्तम् -“आदित्यारम्भणं तृतीयसवनम्”
इति । एवं सत्यतिरिक्तेन सोमेन काम्यमानदित्यसंबन्धि तृतीयसवनं
सूर्यशब्दघटितेन मन्त्रेण लब्धमिति कृत्वा तेन कामनातिरिक्तसोमं समृद्धं
करोति ।
ऋचं विधाय सामविशेषं विधत्ते-
गौ॒रि॒वी॒तं ॅसाम॑ भवति । तेनै॒व माध्यं॑दि॒नात्सव॑ना॒न्नय॑न्ति,
इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८९
माध्यंदिनसवने गौरिवीतसाम्नः पृष्ठस्तोत्रे विहितत्वात्तत्साम
तत्सवनलक्षणम् । अतस्तेन साम्ना माध्यंदिनसवनान्नापगच्छन्ति ।
स्तोमविशेषं विधत्ते-
स॒प्त॒द॒शः स्तोम॑ः । तेनै॒व तृ॑तीयसव॒नान्नर्य॑न्ति, इति ।
तृतीयसवनगतस्याऽऽर्भैवपवमानस्य सप्तदशस्तोमयुक्तत्वादसौ
स्तोमस्तत्सवनलक्षणम् । तेन तृतीयसवनान्नापगच्छन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतृ॑श्चम॒समनून्न॑यन्ते । होता॑ऽनुशँस॑ति (३) । म॒ध्य॒त ए॒व
य॒ज्ञ ꣳ॒समाद॑धति, इति ।
पूर्ववद्व्याख्येयम् ।
अथ तृतीयसवने प्रायश्चित्तविशेषं विधत्ते-
यस्य॑ तृती॒यस॑वने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत ।
यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रेऽ
ति॒रिच्ये॑त । तत्त्वै दु॑ष्प्र॒ज्ञान॒म् । यज॑मानं॒ वा ए॒तत्प॒शव॑
आ॒साह्य॑ यन्ति । बृ॒हत्सा॒मं भ॑वति । बृ॒हद्वा
इ॒माँल्लो॒कान्दा॑धार । बा॑र्ह॒ताः प॒शव॑ः । बृ॒हतै॒वास्मै॑
प॒शून्दा॑धार, इति ।
द्वादशस्तोत्रयुक्तेऽग्निष्टोमे प्रयुक्ते सति तृतीयसवने यदि
सोमातिरेकस्तदानीं तस्योपयोगाय द्वादशभ्य उपरि स्तोत्रत्रयोपेतमुक्थ्यं
कुर्वीत । तत्रापि सोमातिरेके सत्येकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत ।
तत्रापि सोमातिरेके ततोऽधिकस्तोत्रयुक्तस्य क्रतोरभावादतिरेकसमाधानं
ज्ञातुं दुःशकं तर्हि मा भूत्ससमाधानमिति चेत् । न । पशुहानिप्रसङ्गात् ।
तेनातिरेकेण पशवो यजमानमासाह्य सर्वतोऽभिभूय यत्र क्वापि यन्ति ।
तस्मात्कार्यमेतत्समाधानम् । बृहत्सामगानेन तत्समाहितं भवति । बृहतः
सर्वलोकधारणसमर्थत्वात्पशूनां च तत्सामलभ्यत्वेना
ऽऽहृतत्वात्पलायमानान्पशून्यजमानार्थं तेन साम्नाधारयति ।
तस्य साम्न आधारभूता ऋचो विधत्ते-
पञ्चमोऽनुवाकः ॥ ५ ॥
१९० (१.४.६) तैत्तिरीयब्राह्मणम्
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां॒ पुष्टम्॑ ।
पुष्ट्यै॒वैन॑ ँसम॑र्धयन्ति, इति ।
शिपिविष्टशब्दो यास्वृक्षु विद्यते ताः शिपिविष्टवत्यः ।
शिपिविष्टशब्दो विष्णुवाची । “यः पशोर्भूमा या पुष्टिस्तद्विष्णुः शिपिष्टः”
इति श्रुत्यन्तरात् । स च देवानां पुष्टिहेतुः। अतः शिपिविष्टवतीषु कुर्वतीषु
गायन्तीषु गाने सति पुष्ट्यैव यजमानं समृद्धं कुर्वन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑श ँस॑ति । मध्य॑त एव य॒ज्ञ ँ
समा॒र्दधा॑ति, इति ।
य॒न्ति सर्व॑नस्याति॒रिच्य॑ते शासति दाधाराष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
पञ्चमोऽनुवाकः ॥ ५ ॥
पूर्ववत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः ।
पञ्चमे सोमातिरेकप्रायश्चित्तमुक्तम् । षष्ठे त्वेकग्राम-
वर्तिबहुसोमयागविषयविशेषोऽभिधीयते । तत्रैकं विशेषं विधत्ते-
एकै॑को वै ज॒नता॑या॒मिन्द्र॑ः । एकं॒ वा ए॒ता
विन्द्र॑म॒भिस ँसु॑नुतः । यौ द्वौ स 'सु॑नुतः । प्र॒जाप॑ति॒र्वा ए॒ष
विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ता॑ः । अ॒न्य॒तरं॒ वा
ए॒ते स 'सु॑न्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॒ देव॑ता॒ इत्या॑हुः ।
पूर्वो॑प॒सृत॑स्य॒ वै श्रेया॑न्भवति । ए॒तैर्वन्त्याज्या॑नि
भवन्त्य॒भिजित्यै॑ (१), इति ।
तैत्तिरीयब्राह्मणम् (१.४.६) १९१
सत्येकग्रामवर्तिन्यामेकस्यां जनतायां मध्य यौ द्वौ यजमानौ संसुनुतः
संभूय सोमयागं कुरुतः । एकस्मिन्काले कुरुत इत्यर्थः । तावेतावुभौ
यजमानावेकमेवेन्द्रमभिलक्ष्य संभूयैकस्मिन्कालेऽनुतिष्ठतः । तथा सति
ममायमिन्द्रोऽस्त्वित्येवं तयोर्विप्रतिपत्तिर्भवेत् । अत एवाऽ
ऽश्वलायनेनोक्तम्-“विमतानां प्रसवसंनिपातेऽशंवः” इति । तत्र यो यज्ञः
स एष प्रजापतिरूप एव भूत्वा विस्तार्यते । तस्य प्रजापति रूपस्य
यज्ञस्योपांशुसवनादयो ग्रावाणस्तीक्ष्णदन्तस्थानीयाः । एते ग्रावाणः संभूय
सोममभिषुण्वतोर्द्वयोर्यजमानयोर्मध्येऽन्तरं यजमानं निर्वप्सति निःशेषेण
भर्त्सयन्ति । एकेन यजमानेनेन्द्रस्य परिगृहीतत्वादितरस्येन्द्रभावेन
यागाभाव एव भर्त्सनम् । अत एवाभिज्ञाः पूर्वेण प्रथमप्रवृत्तेन यजमानेन
देवता उपसृत्याः प्राप्या इत्याहुः । लोकेऽपि हि प्रथमं सेवमाने भृत्ये
स्वामी पक्षपातं करोति । तस्मात्पश्चादुपगच्छन्तं निर्देवतं यजमानं ग्रावरूपा
दन्ता दशन्ति । अतस्तत्परिहारायाऽऽज्यस्तोत्राण्येतिवन्ति कर्तव्यानि ।
इण् गतावित्यस्य धातोरर्थमतिशब्दो ब्रूते । क्तिन्प्रत्ययान्तस्यास्य
धातोराङ्पूर्वेत्वे सत्यतिशब्दनिष्पत्तेस्तदर्थवाचिनः शब्दा येषु स्तोत्रेषु
विद्यन्ते तादृशानि स्तोत्राणि प्रातःसवने कर्तव्यानि । तथा
सतीन्द्राभावदोषपरिहारेणास्याभिजयो भवति ।
तत्रापरं विशेषं विधत्ते-
म॒रुत्व॑तीः प्रति॒पदः॑। म॒रुतो॒ वै दे॒वाना॑मप॑राजितमा॒
यत॑नम्। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते, इति ।
मरुच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः । तथाविधा ऋच आज्यस्तोत्रे
प्रतिपदः प्रथमभाविनीः कुर्यात् । देवानां मध्ये मरुतो बलवत्त्वेन पराजय-
रहितं स्थानम् । ततो देवसंबन्धिन्यपराजिते स्थाने प्रयत्नं करोति ।
ऋग्विशेषं विधाय सामविशेषं विधत्ते-
उ॒भे बृ॑हद्रथंत॒रे भ॑वतः । इ॒यं वाव र॑थंत॒रम् । अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒वैन॑मन्त॒रैति॑ । वा॒चश्च॒ म॒न॑सश्च ।
प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्यश्च॑ (२)। सर्व॑स्माद्वि॒त्ता
द्वेद्या॑त्, इति ।
एकस्मिन्स्तोत्रे बृहतसामान्यस्मिन्न्रथंतरमित्येवं चतुर्ष्वाज्यस्तोत्रेषु
पर्यायेणोभे सामनी भवतः । रथंतरस्य भूलोकरूपत्वात् । बृहतो
द्युलोकरूपत्वात् । एतद्रूपाभ्यां सामभ्यामेवैनं यजमानं संसवदोषादन्तरितं
१९२ (१.४.६) तैत्तिरीयब्राह्मणम्
व्यवहितं करोति । किंच सामद्वयस्य वागादियुग्मरूपत्वाद्रागादिभिरपि
व्यवधानं करोति । वित्तं पूर्वं लब्धं वेद्यमितः परं लब्धव्यम् ।
आज्यस्तोत्रेषु सामविशेषं विधाय तृतीये पृष्ठस्तोत्रे सामविशेषं
विधत्ते-
अ॒भि॒व॒र्त्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॑भि॒वृत्त्यै॑,
इति ।
ब्रह्मसंबन्धिनि पृष्ठस्तोत्रेऽभिवर्ताख्यं सामोद्गाता गायेत् । यामृचं
ब्रह्मा शंसति तस्यामृच्युद्गात्रा गातव्यं साम ब्रह्मसाम्न् । अभिवर्तसाम्ना
स्वर्गोऽभिमुखत्वेन वर्तते ।
अथाहर्विशेषं विधत्ते-
अ॒भि॒जिद्भव॑ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भि जि॑त्यै ।
वि॒श्व॒जिद्भव॑ति वि॒श्वस्य॑ जित्यै॑, इति ।
अभिजिद्विश्वजिताख्ययोरेकहयोरन्यतरं कुर्यात् । उभयोरपि जयहेतु
त्वात् ।
अथापरं विशेषं विधत्त-
यस्य॒ भूया॑ँसो य॒ज्ञक्रत॑व इत्या॑हुः ।। स दे॒वता॑ वृङ्क्त॒ इति॑ ।
यद्य॑ग्निष्टो॒मः सोम॑ः पु॒रस्ता॑त्स्यात् (३) । उ॒क्थ्यं॑ कुर्वीत ।।
यद्यु॒क्थ्य॑ः स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञक्रतु॑भिरे॒वास्य॑
दे॒वता॑ वृङ्क्त, इति ।
उभयोर्मध्ये यस्य यजमानस्य यज्ञक्रतवो भूयांसोऽङ्गभूतैर्यज्ञैर्युक्ताः
प्रधानक्रतवोऽनुष्ठेयधर्मबहुला भवन्ति स तादृशो यजमानोऽल्पध-
र्मानुष्ठायिनोऽन्यस्य यजमानस्य देवता विनाशयति । अतः परस्तादन्यस्य
यजमानस्य गृहे यद्यग्निष्टोमाख्यः सोमः स्यात्तदा स्वयं ततोऽधिकमुक्थ्यं
कुर्वीत । यद्युक्थ्यस्तदा स्वयं ततोऽधिकमतिरात्रं कुर्वीत । एवं
स्वकीयैरधिकयज्ञक्रतुभिरेवेतरस्य देवता विनाशयति । तस्य
फलाधिक्याभाव एव विनाश इत्युच्यते ।
विशेषान्तरं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.६) १९३
यो वै छन्दो॑भिरभि॒भव॑ति । स सं॑ ॅ सुन्व॒तोर॒भिभ॑वति ।
सं॒वेशा॑य त्वोपवे॒शाय॑ त्वेत्या॑ह । छन्दा॑ ॅ सि॒ वै सं॒वेश॑
उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑ ॅ स्य॒भिभ॑वति, इति ।
यो यजमानः स्वकीयैश्छन्दोभिरितरस्य च्छन्दांस्यभिभवितुमुद्युङ्क्ते
स एवं संसुन्वतौर्मात्सर्य्येण सोममभिषुण्वतोर्मध्ये परकीयाणि
च्छन्दांस्याभिभवितुं समर्थो भवति । तस्मात्तत्सामर्थ्याय संवेशादिमन्त्रहोमं
कुर्यात् । संप्राप्यावस्थितिः संवेशः । तत्रैवाऽऽसनमुपवेशः । हे देव मम
संवेशाय त्वां भजे तथोपवेशाय च त्वां इत्येवं मन्त्रं होमकाले ब्रूयात् ।।
एतन्मन्त्रशेषश्चसंहितायां तृतीयकाण्डे समाम्नातो व्याख्यातश्च ।
स्वकीयानि च्छन्दांस्येव संवेशोपवेशौ । तत्साधनत्वात् । अतः
स्वकीयैश्छन्दोभिरेव होमतुष्टैरन्यस्यच्छन्दांस्यभिभवति ।
पुनरप्यन्यं विशेषं विधत्ते-
इ॒ष्ट॒र्गो वा ऋ॒त्विजा॑म॒ध्व॒र्युः (४) । इ॒ष्ट॒र्गः खलु॒ वै पूर्वो॑ऽर्त्तुः
क्षी॑यते । प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पा॒तमित्या॑ह ।
प्रा॒णा॒पा॒नयो॑रेव॒ श्रय॑ते । प्रा॒णा॒पा॒नौ मा॒ मा
हा॑सिष्ट॒मित्या॑ह । नैनं॑ पुराऽऽयु॑षः प्राणापा॒नौ ज॑हितः,
इति ।
इष्टं वृङ्क्ते विनाशयतीतीष्टर्गोऽध्वर्युः सर्वेषामृत्विजामिष्टं
विनाशयति । तस्यानुष्ठानबाहुल्येन प्रमादसंभवात् । अर्त्तुरातिं गच्छत
ऋत्विक्संघात्पूर्वः प्रथमभावी सन्नयमिष्टर्गोऽध्वर्युः क्षीणो भवति । ततः
क्षयव्यावृत्तये प्राणपानावित्यादिमन्त्रं होमकाले ब्रूयात् । हे प्राणापानौ
मृत्योः सकाशान्मा पातं मां रक्षतम् । अनेन अपूर्वभागेन
प्राणापानयोरेवाऽऽश्रितो भवति । हे प्राणापानौ मां मा हासिष्टं मा
कदाचिदपि मा परित्यजतम् । अनेन मन्त्रस्योत्तरभागेन
शतसंवत्सरादायुषः पुरा प्राणापानावेनं न परित्यजतः ।
इत्येवमेकदेशवर्तिनोः सोमयाजिनोः संशये प्राप्ते विशेषोऽभिहितः ।
अथ सत्रविषये कंचिद्विशेषं विधत्ते-
आ॒र्तिं वा ए॒ते नि॒यन्ति॑ । येषां॑ दी॒क्षिता॑नां॒ प्रमीय॑ते । तं
यद॑वव॒र्जये॑युः । क्रू॒र॒कृ॒तामि॑वैषां लो॒कः स्या॑त् । आर्ह॑र
१९४ (१.४.६) तैत्तिरीयब्राह्मणम्
दृ॒हेति॑ ब्रूयात् (५) । तं दक्षि॑ण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑
ऋ॒ग्भिः स्तुयुः॑ । इ॒यं वै स॑र्प॒तो राज्ञी॑ । अ॒स्या ए॒वैनं॒
परि॑ददति, इति ।
सत्राय दीक्षितानां येषां मध्ये कश्चिन्म्रियेत तदानीमेते सर्वे सत्रिण
आर्ति यज्ञविनाशरूपां बाधां निरन्तरं प्राप्नुवन्ति । तं मृतमन्ये दीक्षिता
यद्यवज्ञाय दूरतो वर्जयेयुस्तदानीमेषां वर्जयतृणां क्रूरंकृतमिव
ब्रह्महत्यादिरूपं पापं कृतवतामिव नरकलोकः स्यात् । अतोऽवज्ञामकृत्वा
तं मृतमिहाऽऽनीय दाहादिसंस्कारं च कुर्विति तदीयपुत्रादिकं प्रत्यादरेण
ब्रूयात् । अथ तं प्रेतं वेद्या दक्षिणभागे निधाय सर्पराज्ञीदेवताका-
भिर्भूमिर्भूम्नेत्यादिभिर्ऋग्भिः स्तोत्रं कुर्युः । इयमेव भूमिः सर्पतः
संचरतः प्राणिजातस्य राज्ञी । अतोऽस्यै भूम्या एवैनं मृतं समर्पयन्ति ।
अथ स्तुतेरूर्ध्वं शंसनं विधत्ते-
व्यृ॑द्धं॒ तदित्या॑हुः । यत्स्तु॒तम॑ननु॒शस्त॒मिति॑ । होता॑ प्रथ॒मः
प्रा॑चीनावी॒ती मा॑र्जाली॒यं परी॑यात् । या॒मीर॑नु॒ब्रुवन्॑ ।
स॒र्प॒रा॒ज्ञीनां॑ कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयोः॒ परि॑ददति
(६) । अथो॑ धुवन्त्ये॒वैन॑म् । अथो॒ऽन्यै वा॒ऽस्मै॑ हुवत,
इति ।
यद्देवतारूपं स्तोत्रेण विषयीकृतं तदनन्तरमेव शस्त्रेण विषयीकृतं न
स्यात् । तत्समृद्धिहीनं भवतीत्यभिज्ञा आहुः ।। अतः सर्पराज्ञीभिः स्तोत्रे
कृते सत्यनन्तरमेव होता प्रथमः पुरोगामी सन्प्राचीनावीती भूत्वा
मार्जालीयं धिष्ण्यं परितो गच्छेत् । किं कुर्वन्त्योऽस्य कौष्ट्येत्यादिका
यामीर्ऋचोऽनुब्रुवन् । ततोभूमिर्भूम्नेत्यादिकाः सर्पराज्ञीर्ब्रूयात् । तथा सति
यमविषयाभिर्भूमिविषयाभिश्च लोकद्वयेऽप्येनं प्रतिष्ठापयन्ति । अपि चैनं
मृतं सत्रिणं धुवन्त्येव वस्त्रधूननादिभिरितरशवोपचारैरुपचरन्त्येव । अपि
चास्मै मृतयजमानाय निह्नुवत एव वियोगासहिष्णुत्व-
प्रलापादिभिरपलन्त्येव ।।
मार्जालीयपरिभ्रमणस्याऽऽवृत्तिं विधत्ते-
षष्ठोऽनुवाकः ॥ ६ ॥
तैत्तिरीयब्राह्मणम् (१.४.६) १९५
त्रिः परि॑यन्ति । त्रय॑ इ॒मे लौकाः॑ । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑
धुवते । त्रिः पुनः॑ परि॑यन्ति । षट् संप॑द्यन्ते । षड् वा
ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते, इति ।
त्रिवारं प्रादक्षिण्येन लोकत्रयप्राप्त्यर्थमेनमुपचरन्ति
पुनस्त्रिवारमप्रदक्षिणावृत्तौ सत्यां षट्संख्ययर्तुभिरेवैनमुपचरन्ति ।
अथ बहिष्पवमानार्थमृक्सामविशेषं विधत्ते-
अग्न॒ आयू॑ꣳषि पवस॒ इति॑ प्रति॒ पदं॑ कुर्वीरन् ।
र॒थं॒त॒रसामैषा ꣳसोम॑: स्यात् । आयु॑रे॒वाऽऽत्मन्द॑धते । अथो॑
पा॒प्मान॑मेव वि॒जह॑तो यन्ति (७), इति ।
अभिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रूया॑ल्लो॒कयोः॑ परिददति कुर्वीर॒ꣳ
स्त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
षष्ठोऽनुवाकः ॥ ६ ॥
बहिष्पवमानस्तोत्रस्याऽऽदौ पूर्वप्राप्तामृचं बाधित्वाऽग्न आयूंषीत्यृचं
पठेत् । तथा गायत्रं साम बाधित्वा रथंतरं साम गायेत् । तथा प्रतिपत्पाठे-
नात्मन्यायुष्यं धारयन्ति । रथंतरसाम्ना यत्क्रूरकृत्समानलोकप्राप्तिपापं
त्यजन्तः पुण्यलोकं प्राप्नुवन्ति ।
अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्-
मृते सत्रणि नान्यः स्यात्स्याद्वा नात्रापि पूर्ववत् ।
स्यादस्वाम्येऽपि कर्त्रंशे साप्तदश्यस्य सिद्धये ॥ (इति) ।
सत्रिषु बहुषु यजमानेष्वेकस्मिन्मृते प्रतिनिधिर्नास्ति । पूर्वाधिकरणे
यजमानप्रतिनिधेर्निराकृतत्वादिति चेत् । मैवम् । भङ्ग्यन्तरेण तत्सिद्धेः ।
सत्रिणां हि कार्यद्वयं फलभोक्तृत्वं यागकर्तृत्वं च । तत्र प्रतिनिधेः
फलित्वाभावेऽपि कर्तृत्वं संभवति । ऋत्विक्कार्यं कर्तृत्वे प्रतिनिधिमन्तरेण
सप्तदशस्याभावात्षोडशैव कार्याणि निष्पद्येरन् । एकं कार्यं लुप्येत ।
तस्माद्यजमानस्य प्रतिनिध्यभावेऽपि ऋत्विजः प्रतिनिधिसंभवात्पुरुषान्तरं
प्रतिनिधातव्यम् ।
तत्रैवान्यच्चिन्तितम् -
१९६ (१.४.७) तैत्तिरीयब्राह्मणम्
स स्वाम्यप्युत कर्तैव स्वामी तत्स्थानगत्वतः ।
अनारब्धुः फलाभावादस्वामी कर्तृमात्रता ॥ (इति) ।
यः सत्रिणः प्रतिनिधिस्तस्य यजमानस्थाने स्वीकृतत्वेन
यजमानत्वमप्यस्तीति चेत् । मैवम् । आरभ्य समाप्तिपर्यन्तमनुष्ठातुः फलं
युक्तम् । प्रतिनिधिस्तु नाऽऽरब्धवान् । अतः फलाभावाद्यजमानत्वं
नास्ति । किंतु कर्तृत्वमेव । मृतस्य तु समाप्त्यभावेऽपि
फलमाम्नायते-“यो दीक्षितानां प्रमीयेतापि तत्र फलम्” इति ।
तत्रैवान्यच्चिन्तितम्-
नास्य स्युः फलिसंस्काराः कार्या वा नाफलित्वतः ।
अन्येषां सादृश्यार्थमफलिन्यपि ते मताः ॥ (इति) ।
सत्रे योऽयं प्रतिनिधिस्तस्य फलित्वाभावात्फलयोग्यताहेतवो
वपनादिसंस्कारा न कर्तव्या इति चेत् । मैवम् । अस्य
फलाभावेऽप्यस्मिन्संस्कृते सत्येषां यत्सासादृश्यं तत्संस्कृतेषु सप्तदशसु
स्थितं भवति । ततः सप्तदशावराः सत्रमासीरन्नित्येतच्छास्त्रमनुगृहीतं
भवति । अन्यथा संस्कृताः षोडशैवेति तच्छास्त्रं बाध्येत । यदि बहूनां
यजमानानामलाभादवरा अल्पसंख्या यजमानाः स्युस्तदाऽपि
सप्तदशापेक्षिताः । न तु ततोऽप्यल्पसंख्या इत्यर्थः । तस्मादफलिन्यपि
तस्मिन्संस्काराः कर्तव्याः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ चतुर्थप्रपाठके सप्तमोऽनुवाकः ।
षष्ठे सवननिमित्तं प्रायश्चित्तमुक्तम् । सप्तमे यूपविरोहणादि-
प्रायश्चित्तान्युच्यन्ते । तत्र यूपविरोहणप्रायश्चित्तं विधत्ते-
असु॒र्यं वा ए॒तन्मा॒र्गं कृ॑त्वा । प॒शवो॑ वी॒र्य॑मपक्रामन्ति।
यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॒हुरूप॒माल॑भेत । त्वष्टा॒ वै
रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॑मीशे । सो॑ऽस्मिन्प॒शून्वी॒र्यं॑
यच्छ॑ति । नास्मा॑त्प॒शवो॑ वी॒र्य॑मप॑क्रामन्ति, इति ।
यस्य यजमानस्य यूपो विरोहणादङ्कुराञ्जन-
तैत्तिरीयब्राह्मणम् (१.४.७) १९७
यत्येतस्माद्यजमानात्पशवो वीर्यं चापक्रामन्ति । किं कृत्वाऽसूर्यं
वर्णमसुरेभ्यो हितं कृत्वा । तदेतदपक्रमणं निवारयितुं त्वष्टृदेवताकं
बहुवर्णोपेतं पशुमालभेत । त्वष्टा हि रूपाणां स्वामी । "त्वष्टा वै पशूनां
मिथुनाना ँरूपकृत्" इति श्रुत्यन्तरात् । अतः पशूनां "त्वष्टा रूपस्वामी
यजमाने तान्पशून्वीर्यं च नियच्छति । ततो नास्मात्पशवो वीर्यं
चापक्रामन्ति ।
अथाग्निविनाशप्रायश्चित्तं विधत्ते-
आर्तिं॑ वा ए॒ते नि॒र्यन्ति॑ । येषां॑ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति
(१) । यदा॑हव॒नीय॒ उद्वाये॑त् । यत्तं म॑न्थेत् । वि॒च्छि॑न्द्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उद्वा॒ये॑त् ।
आ॒ग्नीध्रा॑दु॒द्धरे॑त् । यदा॒ग्नीध्र॒ उद्वा॒ये॑त् ।
गा॒र्हप॒त्यादु॒द्धरे॑त् । यद्गा॑र्हप॒त्य उद्वा॒ये॑त् । अ॒र्त ए॒व
पु॒नर्म॑न्थेत् (२) । अत्र॒ वाव स नि॒र्लये॑त । यत्र॒ खलु॒ वै
नि॒र्लीन॑मु॒क्तं॑ पश्य॑न्ति । तदै॑नमिच्छ॑न्ति, इति ।
दीक्षितानां येषां पुरुषाणामग्निर्विनश्यति ते पुरुषा विनाशमेव
प्राप्नुवन्ति । तत्परिहाराय कश्चिद्भ्रान्त आहवनीयस्य नाशे
यद्याहवनीयार्थमेव मन्थनं कुर्यात्तदानीं तस्य मथिताहवनीयस्य
गार्हपत्यजन्यत्वाभावात्तयोरुभयोरेकमत्याभावेन यज्ञो विच्छिद्येत ।
मथितस्य गार्हपत्येन विरोधाद्यजमानस्य भ्रातृव्यं जनयेत्
तस्मादाहवनीयनाशे सत्याग्नीध्राद्धिष्ण्यादग्निमुद्धरेत् । न तु मन्थनं
कुर्यात् । आग्नीध्रस्य नाशे गार्हपत्यादग्निमुद्धरेत् । तस्य गार्हपत्यस्य
नाशे तत एव गार्हपत्यादर्थदग्धकाष्ठात्पुनर्मन्थनं कुर्यात् ।
यस्मादत्रैवगार्हपत्ये सोऽग्निर्विलीनोऽन्तर्हितस्तस्मादत्रैव मन्थनं युक्तम् ।
लोकेऽपि मणिमुक्तादिकमुक्तं वस्तु यत्र भूप्रदेशे पतित्वा निलीनं भवति
तत्रैव तदन्विष्य लब्धुमिच्छन्ति । तस्माद्गार्हपत्यस्थितकाष्ठे
मन्थनमुचितम् ।
तस्मिन्मन्थने कंचिद्विशेषं विधत्ते-
यस्मा॒द्दारो॑रु॒द्वायै॑त् । तस्या॑र॒णीं कु॑र्यात् । क्रु॒मु॒कम॑पि
कु॒र्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्क्रु॑मु॒कः ।
प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति ।
१९८ (१.४.७) तैत्तिरीयब्राह्मणम्
गार्हपत्यवस्थितेष्वर्धदग्धकाष्ठेषु मध्ये चरमं वह्न्युद्वासनं
यस्मिन्दारुणि पश्यतितद्दारुसंबन्धिन्यावेवारणीकुर्यात् ।
तयोररण्योर्मन्थनवेलायां क्रुमुकं प्रक्षिपेत् । तक्षणेननिष्पन्नोऽतिलघुः
शकलः सोऽयं क्रुमुकः । सैषाऽग्नेरति प्रिया तनूः । क्रुमुकेन हि सहसा
वह्निर्ज्वलति । अतः प्रियेणैव शरीरेण वहिं समृद्धं करोति ।
आहवनीयमन्थने यो दोष उक्तस्तदभावेन गार्हपत्यमन्थनं प्रशंसति-
गा॒र्हप॑त्यं मन्थति (३)॑ । गा॒र्हप॑त्यो॒ वा अग्ने॒ योनि॑: ।
स्वादे॒वैनं॒ योने॑र्जनयति । नास्मै॒ भ्रातृ॑व्यं जनयति । इति ।
आधानकाले गार्हपत्यस्येतराग्नियोनित्वं दृष्टम् । अतोऽत्रापि
गार्हपत्यमन्थने सति स्वकीयादेव योनेरुत्तरभाविनमेनमाहवनीयाद्यग्निं
जनयति । अतो विरोधाभावाद्यजमानस्य भ्रातृव्यं नोत्पादयति ।
पूर्वं यस्य प्रातःसवन इत्यनुवाके सोमातिरेकप्रायश्चित्तमुक्तम् ।
इदानीं सोमोपक्षयनिमित्तं प्रायश्चित्तं विधत्ते-
यस्य॒ सोम॑ उप॒दस्ये॑त् । सु॒वर्णं॒ हिर॑ण्यं द्वेधा वि॒च्छिद्य॑ ।
ऋ॒जीषे॑ऽन्यदा॑ धूनुयात्॑ । जु॒हुया॑द॒न्यत्॑ ।
सोम॑मे॒वाभि॑षुणोति । सोमं॑ जुहोति, इति ।
यस्य यजमानस्याभिषुतः सोम उपक्षीयते कृत्स्नानुष्ठानाय न
पर्याप्त्यात्सोऽयं सम्यग्वर्णीपितं हिरण्यं द्वेधा विभज्य तदीयमेकं शकलं
पूर्वं निष्पीडितरसं सोमवल्लीसंबन्धिन्यृजीष आधूनुयान्मिश्रयित्वा
पुनरभिषुणूयात् । इतरच्छकलं मुख्ये चमसे निधाय रसेन सह जुहुयात् ।
तथा कृते सोम एवाभिषुतो हुतश्च भवति ।
तदेतत्सुवर्णं प्रशंसति-
सोम॑स्य॒ वा अ॒भिषूय॑माणस्य प्रि॒या त॒नूरूद॑क्रामत् (४)॑ ।
तत्सु॒वर्णं॒ ॅहिर॑ण्यमभवत् । यत्सु॒वर्णं॒ ॅहिर॑ण्यं कु॒र्वन्ति॑ ।
प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति ।
रजतव्यावृत्त्यर्थं सुवर्णमिति विशेषणम् ।
उपक्षयप्रायश्चित्तमुक्त्वाऽपहारप्रायश्चित्तं विधत्ते-
यस्याक्री॑तं॒ ॅसोम॑मप॒हरे॑युः । क्री॒णीया॑ दे॒व । सैव ततः॑
प्राय॑श्चित्तिः, इति ।
तैत्तिरीयब्राह्मणम् (१.४.७) १९९
दीक्षणीयेष्टेः पूर्वमेव सोमं संपाद्य क्रयपर्यन्तं क्वचिदवस्थापयेत् ।
अत एव सूत्रकार आह - "अत्र राजानमाहृत्य पयसौदनेन
परिविवेषयन्त्याक्रयात्" इति । अत्र क्रयात्पूर्वं दीक्षादिवसेषु परिचर्यमाणं
सोमं यदि केचिदपह्रेयु स्तदानीमन्यमपि कंचित्सोमं संपाद्य क्रयः कर्तव्य
एव । क्रयानुष्ठितिरेव तस्यापहारस्य प्रायश्चित्तिः ।
अथ क्रीतस्यापहारे प्रायश्चितं विधत्ते-
यस्य॑ क्री॒तमप॑हरेयुः । आ॒दा॒रा ूँश्च॑ फाल्गुना॑नि
चा॒भिषु॑णुयात् । गाय॒त्री य ूँसो॑म॒माहर॑त् । तस्य॒ यो ऽ ूँशुः
परा॑ऽप॑तत् (५) । त आ॑दा॒रा अ॑भवन् । इन्द्रो॑ वृ॒त्रमह॑न् ।
तस्य॑ व॒ल्कः परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन् । प॒शवो॒
वै फा॑ल्गु॒नानि॑ । प॒शवः॒ सोमो॒ राजा॑ । यदा॑दा॒रा ूँ
श्च॑फाल्गुना॑नि चा॒भिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति,
इति ।
क्रीतस्य सोमस्यापहारे सोमप्रतिनिधित्वेनाऽऽ दाराणां फाल्गुनानां
चाभिषवः । आद्रियन्ते सोमरहितैस्तत्पर्यैणं स्वीक्रियन्त इत्यादाराः
क्षीरयुक्तवल्ली विशेषाः । लोकव्यवहारं फल्गु स्वल्पमेव प्रयोजनं
येषामाद्रर्दूवार्ङ्कुरादीनां तृणानां तानि फाल्गुनानि । पुरा गायत्र्या
समानीयमानस्य सोमस्य कश्चिदवयवो भूमौ पतितः स
आदाररूपेणोत्पन्नः । इन्द्रेण हतस्य वृत्रस्य वल्कस्त्वक्शकलो भूमौ
पतित्वा फाल्गुनरूपेणोद्भूत् । फाल्गुनानां पशुप्रियत्वात्पशुरूपत्वं
सोमस्य च पशुप्रामिहेतुत्वात्पशुरूपत्वम् । एवं सत्यादारफाल्गुनाभिषवेण
सोम एवाभिषुतो भवति ।
तत्र कर्तव्यविशेषान्विधत्ते-
शृ॒तेन॑ प्रातः सव॑ने श्रीणीयात् । द॒ध्ना म॒ध्यं दिने॑ (६)
नी॒त॒मिश्रे॑णं तृ॒तीयसव॑ने । अ॒ग्नि॒ष्टोमः॒ सोमः॑
स्यादृ॒तूर॒त्साम् । य ए॒वर्त्विजो॑ वृ॒ताः स्युः॑ । त ए॑नं याज-
येयुः । एकां॒ गां दक्षि॑णां दद्यात्तेभ्य॑ एव॑ । पुन॑: सो॒मं
क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॑
प्राय॑श्चित्तिः, इति ।
सप्तमोऽनुवाकः ॥ ७ ॥
२०० (१.४.७) तैत्तिरीयब्राह्मणम्
अभिषुतमादारं फाल्गुनरसं शृतेन पक्वक्षीरेण श्रीणीयान्मिश्रयेत् ।
नवनीतोत्पत्तेः पूर्वावस्थमीषन्मथितं दधि नीतमिश्रम् ।
यद्यप्युक्थ्यषोडश्यादि रूपं क्रत्वन्तरमारब्धवांस्तथाऽपि तत्परित्यागेन
प्रायश्चित्तरूपेऽस्मिन्प्रयोगे रथंतरपृष्ठोऽग्निष्टोमरूप एव सोमयागः कार्यः तत्र
पूर्वं वृत्ता ऋत्विज एव याजकास्तेभ्यः सर्वेभ्य एकैव गौर्दक्षिणा । तथा
नैमित्तिकं प्रयोगमनुष्ठाय पुनर्नित्यप्रयोगार्थं सोमं क्रीणीयात् । एवं सति
नैमित्तिकप्रयोगरूपेणैव यज्ञेन नित्यप्रयोगरूपं प्राप्तुमिच्छति
सेयमेवंविविधैवानुष्ठितिः। ततः क्रीतसोमापहारदोषात्प्रायश्चित्तिर्वि-
मुक्तिहेतुः ।
अथ सत्रं संकल्प्य ततो निवृत्तौ प्रायश्चित्तं विधत्ते-
सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑
आ॒त्मान॒मागुर॑ते । यः स॒त्राया॑ऽऽगु॒रते॑ । ए॒तावा॒न्खलु॒ वै
पुरु॑षः । याव॑दस्य वि॒त्तम् । सर्व॑वेद॒सेन॑ यजेत ।
सर्व॑पृष्ठो॒ऽस्य॒ सोम॑: स्यात् । सर्वा॑भ्य ए॒व दे॒वता॑भ्यः॒ सर्व॑भ्यः
पृ॒ष्ठेभ्य॑ आ॒त्मानं॑ निष्क्री॑णीते (७) इति ।
उद्दार्यति मन्थेन्मन्थत्यक्रामत्परापतन्मध्यंदिन आगु॒रते पञ्च च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
सप्तमोऽनुवाकः ॥ ७ ॥
यो यजमानः सत्रार्थं संकल्पयति स पुरुषः
सर्वदेवताभ्यस्तत्प्रतिपादकस्तोत्रेभ्यश्च स्वात्मानं संकल्पयति । अस्य
पुरुषस्य यावद्वित्तमस्ति तावदेवाश्य पुरुषस्य सर्वकर्मनिर्वाहकं सारभूतं
स्वरूपम् । दरिद्रस्य भोगदानयोरशक्तत्वात् । तथा च संकल्पितात्मकः
पुरुषः स्वरूपसारभूतसर्ववेदसदक्षिणाकं सर्वपृष्ठस्तोत्रयुक्तं स्वसंकल्पित-
दोषप्रायश्चित्तभूतं सोमभागं कुर्यात् । ततश्च स्वप्रतिनिधिभूत-
तादृशयागकर्मणा सर्वदेवताभ्यस्तत्प्रतिपादकपृष्ठस्तोत्रेभ्यश्च संकल्पितं
स्वात्मानं निष्क्रीणीते । यज्ञस्य सर्ववेदसत्वं तु वेदःशब्दस्य धनवाचित्वेन
सर्ववेदः सर्वधनं दक्षिणा यस्मिन्यज्ञ इति व्युत्पत्या बोध्यम् । सेयं सत्रेषु
संकल्पभ्रष्टस्य प्रायश्चित्तिः । तदिदं सोमप्रतिनिधिरूपं प्रायश्चित्तं सूत्रकारेण
स्पष्टमुदाहृतम्- “सोमभावेपूतीकानभिषुणूयात्पूतीकाभाव
आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युस्तदभावे याः
काश्चौषधीःक्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकमिति,
तैत्तिरीयब्राह्मणम् (१.४.७) २०१
यदि सत्रायाऽऽगूर्य न यजेत विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन
सर्ववेदसदक्षिणेन यजेत'' इति ।
अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्-
सोमाभावे भवेत्पूतीविधिः प्रतिनिधिरावुत ।
नियमो वचनादाद्यो लाघवात्तन्नियम्यते ॥ (इति) ।
यदि सोमं न विन्देत पूनीकानभिषुणुयादिति लिङ्प्रत्ययस्य विधिवा-
चित्त्वादिदं वाक्यं पूतीकलताखण्डानां विधायकमिति चेत् । मैवम्
सदृशतया प्रतिनिधेयत्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ
लाघवात् । तस्मात्पूतीकद्रव्यं नियम्यते ।
अत्रैवान्यच्चिन्तितम् -
पूतीकस्यापचारे स्यात्तेन सोमेन वा समम् ।
आद्यः श्रुतांशसादृश्यात्पूतीकाविधितोऽन्तिमः ॥ (इति) । यदा
सोमप्रतिनिधेः पूतीकस्यापचारः स्यात्तदा तेन पूतीकेन सदृशं
द्रव्यान्तरमुपादेयम् "पूतीकांनभिषिणुयात्" इति श्रुतेः पूतीकांशैः
सादृश्यस्य लाभादिति चेत् । मैवम् । नास्ति पूतीकानां विधिः । किं तु
नियमार्थं तद्वचनमित्युक्तम् । अतः श्रुतस्य सोमस्य सादृश्यलाभाय
सोमसमं द्रव्यान्तरमुपादेयम् ।
दशमाध्यायस्य तृतीयपादे चिन्तितम्-
एकां पञ्चेति कृत्स्नां वा गोसंख्यां वा निवर्तयेत् ।
स्यादाद्यो दक्षिणायोगान्मैवं व्यवहितत्वतः ॥ (इति) ।
इदं श्रूयते-"यस्य सोममपहरेयुरेकां गां दक्षिणां दद्यादभिदग्धे
पञ्चगाः" इति । तदिदं संख्याविशिष्टं द्रव्यं विधीयमानं गवादिदक्षिणं
कृत्स्नां निवर्तयेत् । तस्य दक्षिणाशब्दयोगेन कार्यैकत्वात् । मैवम् ।
विशिष्टविधौ गौरवात् । गवां प्राप्तत्वाच्च संख्यामात्रं विधेयम् । तस्य च
गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति । गोपदयोगे तु गोगतां
स्वविरोधिनीं संख्यामेव निवर्तयेन्न त्वन्यत्किञ्चिदिति राद्धान्तः ।
षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्-
सत्रायाऽऽगुरते योऽयं यजेद्विश्वजितेत्यसौ ।
यः कोऽप्युत प्रवृत्तः स्यादप्रवृत्तोऽथवाऽग्रिमः ॥
अविशेषात्प्रवृत्तोऽस्तु सत्राङ्गं हि तथा भवेत् ।
निमित्तोक्तेरप्रवृत्तः प्रायश्चित्तं चरेदिदम् ॥ (इति) ।
Digitized by Madhuban Trust, Delhi
२०२ (१.४.७) तैत्तिरीयब्राह्मणम्
इदमाम्नायते-“यः सत्रायाऽऽगुरते स विश्वजिता यजेत” इति ।
आगुरते संकल्पयति । तत्र सत्रं संकल्प्य कश्चिदनुष्ठातुं प्रवृत्तः । अपरो न
प्रवृत्तः । तयोरुभयोर्मध्ये यः कोऽपि विश्वजिता यजेत । कुतः । प्रवृत्त
एव यजेतेति विशेषस्याश्रवणात् । एवमप्रवृत्त एव यजेतेत्यापि विशेषो
न श्रूयते तस्मादुभयोरन्यतर इत्याद्यः पक्षः । प्रवृत्तस्य विश्वजिदनुष्ठाने
सत्राङ्गत्वं विश्वजितो लभ्यते । तस्मात्प्रवृत्त एव विश्वजितं कुर्यादिति
द्वितीयः पक्षः । ‘यः सत्रायाऽऽगुरते’ इति निमित्तत्वेनोपन्यासात्संकल्प्य
यदि सत्रं नानुतिष्ठेत्तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यादिति राद्धान्तः ।
षष्ठाध्यायस्य सप्तमपादे चिन्तितम्-
सर्वस्वदाने पित्रादावपि तद्धन एव वा ।
स्वत्वादाद्यः पितृत्वादावत्यागाद्धन एव तत् ।। (इति)।
इदमामनन्ति-“विश्वजिति सर्वस्वं ददाति” इति । तत्र धन इव
पित्रादिष्वप्यात्मीयत्वस्य समानत्वादस्ति पित्रादीनामपि तद्दानमिति प्राप्ते
ब्रूमः । आत्मसंबन्धत्यागपूर्वकं परसंबन्धापादनं दानमित्युच्यते । न हि
दीयमाने पितरि स्वकीयपितृत्वत्यागः परकीयपितृत्वापादनं वा
संभवति । किंच स्वशब्दस्याऽऽत्मा ज्ञातिरात्मीयं धनं चेति
चत्वारोऽर्थाः । तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः । प्रकृतौ
गवादिधनस्यैव दक्षिणात्वाद्विहापि धनवाचित्वं युक्तम् । तस्माद्धनस्यैव
दानम् ।
तत्रैवान्यच्चिन्तितम्-
देया न वा महाभूमिः स्वत्वाद्राजा ददातु ताम् ।
पालनस्यैव राज्यत्वान्न स्वं भूर्दीयते न सा” (इति) ।
यदा सार्वभौमो राजा विश्वजिति सर्वं ददाति तदा गोपथराजमार्ग-
जलाशयाद्यन्विता महाभूमिस्तेन दातव्या । कुतः । भूमेस्तदीयधनत्वात् ।
“राजा सर्वस्यैष्टे ब्राह्मणवर्जम्” इति स्मृतेरिति प्राप्ते ब्रूमः ।
दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतमिति न राज्ञो
भूमिर्धनम् । किं तु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां
साधारणं धनम् । अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं
नास्ति ।
तत्रैवान्यच्चिन्तितम्-
दानं केसरिणां नो वा विहितप्रतिषेधतः ।
विकल्पः पर्युदासोऽयं ये यजामहनीतितः ।। (इति) ।
CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.
तैत्तिरीयब्राह्मणम् (१.४.७) २०३
“न केसरिणो ददाति” इति विश्वजिति श्रूयते । तत्र
सर्वस्वदानविधानात्केसरिदाननिषेधाच्चाश्वदानं विकल्पितमिति प्राप्ते
ब्रूमः । नायं प्रतिषेधः। किं तु पर्युदासः । तत्प्रकारश्च
दशमाध्यायस्याष्टमपादे ये यजामहमन्त्रोदाहरणेन व्युत्पादयिष्यते ।
ततस्तेन न्यायेनाश्वपर्युदासे सत्यश्वव्यतिरिक्तं सर्वस्वं देयमिति ।
विधिनिषेधयोरेकवाक्यतालाभान्नास्त्यश्वस्य पाक्षिकमपि दानम् ।
तत्रैवान्यच्चिन्तितम्-
अर्जयित्वाऽपि किं सर्वं देयं द्रव्यं यदस्ति तत् ।
सर्वोद्देशविधेराद्यो न प्राप्ते सर्वता विधेः ।। (इति) ।
पूर्वोक्ते सर्वस्वदाने सर्वमुद्दिश्य दानं विधीयते । पुरुषेण भोग्यं
शय्याऽऽसनादिकं यत्सर्वं तद्दातव्यमिति । तस्मादविद्यमानं
सर्वमर्जयित्वाऽपि देयमिति चेत् । मैवम् । चोदकप्राप्तं दानमुद्दिश्य
सर्वत्वाविधानात् । सर्वशब्दश्च प्रसिद्धवाचित्वाद्विद्यमानविषयः ।
तस्माद्यदस्ति तदेव देयम् ।
तत्रैवान्यच्चिन्तितम् -
धर्मार्थं सेवकः शूद्रो देयो नो वा स दासवत् ।
देयोऽस्वत्वात्पराधीनगर्भदासो च दीयते ।। इति ।
यस्तु शूद्रो विहितं स्वधर्ममवगन्तुं सेवते सोऽपि
स्वमध्यपातित्वाद्गर्भदासवद्देय इति चेत् । मैवम् ।। जीविताद्यदानेन
तस्मिन्सेवके स्वत्वाभावात्स्वेच्छाचारित्वेन परस्वत्वादानासंभवाच्च न
देयः । तत्रैवान्यच्चिन्तितम्-
भूतं भावि च देयं स्यात्कालऽवस्थितमेव वा ।
आद्यः सर्वश्रुतेरन्त्योऽसंभवादन्ययोस्तथा ।। (इति) ।
विश्वजिन्मया कर्तव्य इत्यध्यवसायादूर्ध्वं दक्षिणाकालात्पूर्वं
यत्स्वेन भोग्यं संचितं तद्भूतम् । यच्च दक्षिणाकालादूर्ध्वं भविष्यत्येवेति
निश्चितं तद्भावि । तदुभयमपि सर्वशब्दार्थत्वाद्दातव्यमिति चेत् । मैवम् ।
भूतस्य विनाशसंभवात् भाविनस्तदानीमप्राप्तत्वादविद्यमानस्य
दानायोगाच्च दक्षिणाकालेऽवस्थितमेव सर्वं देयम् । तत्रेवान्यञ्चिन्तितम्-
दक्षिणाक्रतुभुक्त्यर्थं त्रयं देयमुतेष्टये ।
शिष्टाऽथवा दक्षिणार्थमेवाऽऽऽद्ध्यः सर्वशब्दतः ।।