तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 224, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.६) १९५
त्रिः परि॑यन्ति । त्रय॑ इ॒मे लौकाः॑ । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑
धुवते । त्रिः पुनः॑ परि॑यन्ति । षट् संप॑द्यन्ते । षड् वा
ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते, इति ।
त्रिवारं प्रादक्षिण्येन लोकत्रयप्राप्त्यर्थमेनमुपचरन्ति
पुनस्त्रिवारमप्रदक्षिणावृत्तौ सत्यां षट्संख्ययर्तुभिरेवैनमुपचरन्ति ।
अथ बहिष्पवमानार्थमृक्सामविशेषं विधत्ते-
अग्न॒ आयू॑ꣳषि पवस॒ इति॑ प्रति॒ पदं॑ कुर्वीरन् ।
र॒थं॒त॒रसामैषा ꣳसोम॑: स्यात् । आयु॑रे॒वाऽऽत्मन्द॑धते । अथो॑
पा॒प्मान॑मेव वि॒जह॑तो यन्ति (७), इति ।
अभिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रूया॑ल्लो॒कयोः॑ परिददति कुर्वीर॒ꣳ
स्त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
षष्ठोऽनुवाकः ॥ ६ ॥
बहिष्पवमानस्तोत्रस्याऽऽदौ पूर्वप्राप्तामृचं बाधित्वाऽग्न आयूंषीत्यृचं
पठेत् । तथा गायत्रं साम बाधित्वा रथंतरं साम गायेत् । तथा प्रतिपत्पाठे-
नात्मन्यायुष्यं धारयन्ति । रथंतरसाम्ना यत्क्रूरकृत्समानलोकप्राप्तिपापं
त्यजन्तः पुण्यलोकं प्राप्नुवन्ति ।
अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्-
मृते सत्रणि नान्यः स्यात्स्याद्वा नात्रापि पूर्ववत् ।
स्यादस्वाम्येऽपि कर्त्रंशे साप्तदश्यस्य सिद्धये ॥ (इति) ।
सत्रिषु बहुषु यजमानेष्वेकस्मिन्मृते प्रतिनिधिर्नास्ति । पूर्वाधिकरणे
यजमानप्रतिनिधेर्निराकृतत्वादिति चेत् । मैवम् । भङ्ग्यन्तरेण तत्सिद्धेः ।
सत्रिणां हि कार्यद्वयं फलभोक्तृत्वं यागकर्तृत्वं च । तत्र प्रतिनिधेः
फलित्वाभावेऽपि कर्तृत्वं संभवति । ऋत्विक्कार्यं कर्तृत्वे प्रतिनिधिमन्तरेण
सप्तदशस्याभावात्षोडशैव कार्याणि निष्पद्येरन् । एकं कार्यं लुप्येत ।
तस्माद्यजमानस्य प्रतिनिध्यभावेऽपि ऋत्विजः प्रतिनिधिसंभवात्पुरुषान्तरं
प्रतिनिधातव्यम् ।
तत्रैवान्यच्चिन्तितम् -