सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 230, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 230

तैत्तिरीयब्राह्मणम् (१.४.७) २०१
यदि सत्रायाऽऽगूर्य न यजेत विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन
सर्ववेदसदक्षिणेन यजेत'' इति ।
अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्-
सोमाभावे भवेत्पूतीविधिः प्रतिनिधिरावुत ।
नियमो वचनादाद्यो लाघवात्तन्नियम्यते ॥ (इति) ।
यदि सोमं न विन्देत पूनीकानभिषुणुयादिति लिङ्प्रत्ययस्य विधिवा-
चित्त्वादिदं वाक्यं पूतीकलताखण्डानां विधायकमिति चेत् । मैवम्
सदृशतया प्रतिनिधेयत्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ
लाघवात् । तस्मात्पूतीकद्रव्यं नियम्यते ।
अत्रैवान्यच्चिन्तितम् -
पूतीकस्यापचारे स्यात्तेन सोमेन वा समम् ।
आद्यः श्रुतांशसादृश्यात्पूतीकाविधितोऽन्तिमः ॥ (इति) । यदा
सोमप्रतिनिधेः पूतीकस्यापचारः स्यात्तदा तेन पूतीकेन सदृशं
द्रव्यान्तरमुपादेयम् "पूतीकांनभिषिणुयात्" इति श्रुतेः पूतीकांशैः
सादृश्यस्य लाभादिति चेत् । मैवम् । नास्ति पूतीकानां विधिः । किं तु
नियमार्थं तद्वचनमित्युक्तम् । अतः श्रुतस्य सोमस्य सादृश्यलाभाय
सोमसमं द्रव्यान्तरमुपादेयम् ।
दशमाध्यायस्य तृतीयपादे चिन्तितम्-
एकां पञ्चेति कृत्स्नां वा गोसंख्यां वा निवर्तयेत् ।
स्यादाद्यो दक्षिणायोगान्मैवं व्यवहितत्वतः ॥ (इति) ।
इदं श्रूयते-"यस्य सोममपहरेयुरेकां गां दक्षिणां दद्यादभिदग्धे
पञ्चगाः" इति । तदिदं संख्याविशिष्टं द्रव्यं विधीयमानं गवादिदक्षिणं
कृत्स्नां निवर्तयेत् । तस्य दक्षिणाशब्दयोगेन कार्यैकत्वात् । मैवम् ।
विशिष्टविधौ गौरवात् । गवां प्राप्तत्वाच्च संख्यामात्रं विधेयम् । तस्य च
गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति । गोपदयोगे तु गोगतां
स्वविरोधिनीं संख्यामेव निवर्तयेन्न त्वन्यत्किञ्चिदिति राद्धान्तः ।
षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्-
सत्रायाऽऽगुरते योऽयं यजेद्विश्वजितेत्यसौ ।
यः कोऽप्युत प्रवृत्तः स्यादप्रवृत्तोऽथवाऽग्रिमः ॥
अविशेषात्प्रवृत्तोऽस्तु सत्राङ्गं हि तथा भवेत् ।
निमित्तोक्तेरप्रवृत्तः प्रायश्चित्तं चरेदिदम् ॥ (इति) ।