सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 231, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 231

Digitized by Madhuban Trust, Delhi
२०२ (१.४.७) तैत्तिरीयब्राह्मणम्
इदमाम्नायते-“यः सत्रायाऽऽगुरते स विश्वजिता यजेत” इति ।
आगुरते संकल्पयति । तत्र सत्रं संकल्प्य कश्चिदनुष्ठातुं प्रवृत्तः । अपरो न
प्रवृत्तः । तयोरुभयोर्मध्ये यः कोऽपि विश्वजिता यजेत । कुतः । प्रवृत्त
एव यजेतेति विशेषस्याश्रवणात् । एवमप्रवृत्त एव यजेतेत्यापि विशेषो
न श्रूयते तस्मादुभयोरन्यतर इत्याद्यः पक्षः । प्रवृत्तस्य विश्वजिदनुष्ठाने
सत्राङ्गत्वं विश्वजितो लभ्यते । तस्मात्प्रवृत्त एव विश्वजितं कुर्यादिति
द्वितीयः पक्षः । ‘यः सत्रायाऽऽगुरते’ इति निमित्तत्वेनोपन्यासात्संकल्प्य
यदि सत्रं नानुतिष्ठेत्तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यादिति राद्धान्तः ।
षष्ठाध्यायस्य सप्तमपादे चिन्तितम्-
सर्वस्वदाने पित्रादावपि तद्धन एव वा ।
स्वत्वादाद्यः पितृत्वादावत्यागाद्धन एव तत् ।। (इति)।
इदमामनन्ति-“विश्वजिति सर्वस्वं ददाति” इति । तत्र धन इव
पित्रादिष्वप्यात्मीयत्वस्य समानत्वादस्ति पित्रादीनामपि तद्दानमिति प्राप्ते
ब्रूमः । आत्मसंबन्धत्यागपूर्वकं परसंबन्धापादनं दानमित्युच्यते । न हि
दीयमाने पितरि स्वकीयपितृत्वत्यागः परकीयपितृत्वापादनं वा
संभवति । किंच स्वशब्दस्याऽऽत्मा ज्ञातिरात्मीयं धनं चेति
चत्वारोऽर्थाः । तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः । प्रकृतौ
गवादिधनस्यैव दक्षिणात्वाद्विहापि धनवाचित्वं युक्तम् । तस्माद्धनस्यैव
दानम् ।
तत्रैवान्यच्चिन्तितम्-
देया न वा महाभूमिः स्वत्वाद्राजा ददातु ताम् ।
पालनस्यैव राज्यत्वान्न स्वं भूर्दीयते न सा” (इति) ।
यदा सार्वभौमो राजा विश्वजिति सर्वं ददाति तदा गोपथराजमार्ग-
जलाशयाद्यन्विता महाभूमिस्तेन दातव्या । कुतः । भूमेस्तदीयधनत्वात् ।
“राजा सर्वस्यैष्टे ब्राह्मणवर्जम्” इति स्मृतेरिति प्राप्ते ब्रूमः ।
दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतमिति न राज्ञो
भूमिर्धनम् । किं तु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां
साधारणं धनम् । अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं
नास्ति ।
तत्रैवान्यच्चिन्तितम्-
दानं केसरिणां नो वा विहितप्रतिषेधतः ।
विकल्पः पर्युदासोऽयं ये यजामहनीतितः ।। (इति) ।
CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.