तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.३.६) १४१
क्षीरे॒ भव॑ति । रु॒चमे॒वास्मि॑न्दधाति, इति ।
रुचं स्वादुत्वम् ।
निष्पन्ने चरौ घृतप्लावनं विधत्ते-
स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑, इति ।
एतदेवाभिप्रेत्याश्वदेवानुद्दिश्यास्य मध्वः पिबत मादयध्वमित्यस्य
मन्त्रस्यार्थो व्याख्यातः । चरोर्देवतां विधत्ते-
बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या (८) । यो वाज॑पेयेन॒ यज॑ते ।
बा॒र्ह॒स्प॒त्य ए॒ष च॒रु, इति ।
कर्तव्य इत्यध्याहारः । वाजपेययाजिनो बृहस्पतिर्देवतेति
तत्रत्यचरोरपि सा देवता युक्ता ।
कल्पः-“तमेतान्यजुर्युजोऽश्वानवघ्रावयति-
वाजिनो वाजजितो वाजँ॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒
बृह॒स्पते॑र्भा॒गमव॑जिघ्रत” इति ।
बाजजितोऽन्नं जेतुमुद्यता वाजिनो हेऽश्वा वाजमन्नं जेतुमार्जिसु-
दिश्य सरिष्यन्तो धावनं करिष्यन्तो वाजमन्नं जष्यन्तो यूयं
बृहस्पतेर्भागमिमं चरुमवजिघ्रत । कल्पः-“यजुर्युजोऽश्वान्प्रत्याधावतो
ऽवघ्रापयति-
वाजिनो वाजजितो वज ँ॑ ससृ॒वा ँसो॒ वाजं॑ जिगि॒वा ँसो॒
बृह॒स्पते॑र्भा॒गे निमृ॑द्ध्वम्” इति ।
यजमानार्थे रथे यजुर्मन्त्रैर्योजनीया अश्वा यजुर्युजः । ससृवांसो
धावनं कृतवन्तः । जिगिवांसो जयं कृतवन्तः । निमृद्ध्वं शुद्धा भवत ।
आपस्तम्बमते तु जिगिवा ँ स इत्यन्तो मन्त्रः । तदर्थपूरणाय बृहस्पतेर्भाग-
मवजिघ्रतेति पूर्वस्मान्मन्त्रादनुवर्तनीयम् । अवशिष्टाभागो मन्त्रान्तरं तत्र
विनियोगं स एवाह-“बृहस्पतेर्भागे निमृद्ध्वमिति प्रप्रोथेषु च
ले॒पान्निर्मा॑ष्टि” इति । प्रप्रोथा ओष्ठाग्राणि । आजिधावनात्पुरा
पश्चाच्चावघ्रापणं विधत्ते-
अश्वा॑नसरिष्यतः ससृ॒पाँश्चाव॑घ्रापयति । यमे॒व ते वाजं॑
लो॒कमु॑जयन्ति । तमे॒वाव॑रुन्धे, इति ।
१४२ (१.३.६) तैत्तिरीयब्राह्मणम्
कल्पः-“अथ रथान् विमुच्यमानाननुमन्त्रयते-
इ॒यं वः॑ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण॒ सम॑धध्वम्” इति ।
हे रथा वो युष्माकमियं संघाऽऽजिधावनप्रतिज्ञा सा सत्याऽभूत् ।
यां प्रतिज्ञामिन्द्रेणेन्द्रानुग्रहेण समधध्वं सम्यग्धारिवन्तः ।
इन्द्रानुग्रहायैवेन्द्रस्य वज्रोऽसीति रथमन्त्र आम्नान्तः । कल्पः-“
दुन्दुभीनवस्यतोऽनुमन्त्रयते-
अजी॑जिन्त॒ वन॑स्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ” इति ।
हे वनस्पतयो वनस्पतिविकारा दुन्दुभय इन्द्रं यागस्वामिनं
वाजमन्नमुद्दिश्याजीजिपत यथा जितवान्भवति तथा जितवन्तः । तादृशा
यूयं पूर्वं यत्र बद्धास्ततो विमुच्यध्वं विमुक्ता भवत ।
बन्धनप्रदेशस्त्वापस्तम्बेन दर्शितः- “दक्षिणस्यां वेदिश्रोण्यां सप्तदश
दुन्दुभीन्प्रबध्नाति” इति । विधत्ते-
अजी॑जिपत वन॒स्पत॑य॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑
दु॒न्दुभीन्विमु॑ञ्चति । य॒मे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑
उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे (९), इति ।
अभिज॑यति॒ वा ए॒षा वा॒न्दी॑यन्त्य॒ऽस्मै युनक्ति गमयति॒ य आ॒जिं
धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ ।
अत्र देवतयाऽष्टौ च ।
अत्र विनियोगसंग्रहः-
देवाऽऽरोहेद्रथं स्वामी ब्रह्मारोहणन्त्रणम् ।
देवेतीन्द्रा दुन्दुभीनां घोषोऽश्वाज कशाग्रहः ॥
अर्वाऽसीति विभिर्मन्त्रैर्युक्त्यश्वत्रयं रथे ।
वाजीत्येतैर्मन्त्रयेत चतुर्भिर्धावतो रथान् ॥
मितेत्याभिश्चतसृभिस्तान्प्रत्याधावतो रथान् ।
आ मा रथविमुक्त्याख्यं जुहुयाद्वाजिनद्वयात् ॥
गतेः पुरोपरिष्टाच्च घ्रापयेच्चरुमश्वकान् ।
बृहादिजिप्रतेत्यन्तो द्वितीयेऽप्यनुषज्यते ॥
बृहेति मार्ष्टि घोणायामियं तु रथमन्त्रणम् ।
अजीदुन्दुमन्त्रः स्यादेकविंशतिरीरिताः ॥ इति ।
द्वितीयोऽस्तीति चेन्नैवं द्विलोपे बाधगौरवात् ।।
तैत्तिरीयब्राह्मणम् (१.३.६) १४३
अथ मीमांसा । दशमाध्यायस्य तृतीयपादे चिन्तितम् ।
यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत ।
बाधः प्रकाशवन्नैवं पक्षे प्राप्तो नियम्यते ॥ (इति) ।
वाजपेये श्रूयते-यजुर्युक्तं रथमध्वर्यवे ददातीति ।
तत्रायमर्थः-रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि
प्राकृतगवाश्वादिदक्षिणाद्रव्यबाधकान्यत्रविहितानि । तेषु च प्रतिद्रव्यं
सप्तदशसंख्या विहिता । ततो रथाः सप्त दशः । तेषु मुख्यं रथं
यजमानारोहणायेन्द्रस्य वज्रोऽसीत्यादिभिर्यजुर्वेदोक्तैर्मन्त्रैः सजी करोति
सोऽयं यजुर्युक्तो रथस्तं च दक्षिणाकालेऽध्वर्यवे दद्यादिति।
प्रकाशावध्वर्यवे ददातीत्यत्र यथा चोदकप्राप्तस्याध्वर्यु भागस्य बाध
एवमत्रापि । ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधः सिद्धः ।
बाढम् । तथाऽप्यर्धिनः पादिन इत्यादिसमाख्याप्रापिता
विषमविभागविशेषक्लप्तिर्नद्रव्यान्तरमात्रेण बाधितुं शक्या । विरोधिनो
विधा (ना) न्तरस्यावि धानादतश्चोदकप्राप्तेयमध्वर्योर्भागविशेषक्लृप्तिः । सा
यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते । तस्मादध्वर्योर्न
रथान्तरभागोऽस्ति । नापि शकटदास्यादिभाग इति पूर्वः पक्षः ।
नैतद्युक्तम् । प्रकाशदृष्टान्तवैषम्यात् । अत्यन्तमप्राप्तौ हि प्रकाशौ तत्र
विधेयौ । यजुर्युक्तरथस्तु पक्षे प्राप्तः । तथा हि सप्तदश रथान्ददातीत्युक्ते
कस्य को रथ इति वीक्षायां यजमानेच्छाया नियामकत्वाद्यदाऽध्वर्यवे तं
दातुमिच्छति तदा प्राप्नोति यदा नेच्छति तदा न प्राप्नोतीति पक्षे प्राप्तिः।
ततो यजुर्युक्तो यो रथःसोऽध्वर्यवेऽवश्यं देय इति नियम्यतेऽतो न
कस्याप्यनेन बाधः ।
तत्रैव द्वितीयपादे चिन्तितम्-
शरावैःसप्तदशभिर्यश्चरुस्तत्र मुष्टयः ।
चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः ।।
तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः।
द्वितीयोऽस्तीति चेन्नैवं द्विलोपे बाधगौरवात् ।।
तृतीयोऽस्त्वेकलोपेऽत्र धर्मसंख्यैव लुप्यताम् ।
क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम् ।। (इति) ।
प्रकृतौ चतुरो मुष्टीन्निर्वपतीति मुष्टितत्संख्ये श्रुते । तथा वाजपेये
विकृतिरूपः सप्तदशशरावश्चरुश्रुतः । तत्र चरौ किं मुष्टिसंख्ये द्वे अपि
विद्येते किंवा द्वे अपि न विद्येते । आहोस्विदुभयोरेकमस्त्यन्यन्नास्ति ।
१४४ (१.३.७) तैत्तिरीयब्राह्मणम्
यदेकं तदाऽपि किं मुष्टिरेव किंवा संख्येवेति संशयः । चोदकप्राप्त-
मुभयमस्तीत्याद्यः पक्षः प्राप्नोति । चतुर्भिर्मुष्टिः सप्तदशशरावपूरणसर्थस्य
चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि मुष्टिसंख्ये द्वे अपि बाध्यते इति
द्वितीयः पक्षोऽस्त्विति चेन्मैवम् । एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे
सति द्वयोर्बाधे गौरवप्रसङ्गात् । नन्वत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं
मुष्टिद्रव्यं बाध्यते । तथा सप्तदशसंख्यया चतुःसंख्या बाध्यत
इत्युभयबाधोऽवश्यंभावी । मैवम् । भिन्नविषयत्वेन बाधासंभवात् ।
शरावसप्तदशसंख्ये यागसंबद्धे, मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे इति
विषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः । अन्यथाऽनुपपत्त्येति वदामः ।
अनुपपत्तिश्च पूरणासंभवेन दर्शिता । पूरणं चैकबाधेनाप्युपपद्यते मुष्टिबाधे
यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात् । चतुःसंख्याबाधे
यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति । एवं तर्ह्य कलोप इति
तृतीयः पक्षोऽस्तु । तत्र संख्या धर्मः । मुष्टिर्धर्मी । तथा सति मुष्टौ लुप्ते
सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी । संख्याया
तु लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्, तस्मात्संख्येव लुप्यतामिति प्राप्ते
ब्रूमः। चतुःसंख्या तावन्न मुष्टिमात्रेऽन्वेति । कर्मकारकवांचि-
द्वितीयाविभक्तयन्तस्य चतुःशब्दस्य सहकर्मकारकेण निर्वपतिधातुना
सहान्वयात् । अतः संख्या न मुष्टिधर्मः। पार्ष्णिकान्वयेन तु मुष्टिविशेषणं
भविष्यति । संख्यामुष्ट्योः क्रियासंबन्धे समान सत्यपि
प्रथमश्रुतत्वात्साऽनुगृह्यते चरमश्रुतत्वेन दुर्बलो मुष्टिर्बाध्यत इति राद्धान्तः।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
अष्टम रथधावनमुक्तं नवमे यूपारोहणमुच्यते । कल्पः-“अथ
यजमानं तार्प्यं परिधापयति-
क्ष॒त्रस्योल्ब॑मसि, इति । क्ष॒त्रस्य॒ योनि॑रसि॒, इति दर्भमयं पत्नीम् ”
इति ।
धृताक्तं वस्त्रं तार्प्यम् । क्षत्रस्य राजस्थानीयस्य यजमानस्य
गर्भत्वेनोपचर्यमाणस्थोल्बमवरणमसि । उल्बवृतो गर्भ इति च्छन्दोगा
आमनन्ति । हे दर्भमय पट क्षत्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य
योनिरसि शीतनिवारणकारणमसि । तदेतत्परिधानद्वयं विधत्ते-
तार्प्यं॑ यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै तार्प्यम्॑ । य॒ज्ञेनै॒वैन॑ ँ
तैत्तिरीयब्राह्मणम् (१.३.७) १४५
सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै दर्भाः॑ ।
पु॒नात्ये॒वैन॑म् । वाजं॒ वा ए॒षोऽव॑रुरुत्सते । यो वा॑ज॒पेये॑न॒
यज॑ते । ओष॑धयः॒ खलु॒ वै वाजः॑ । यद्दर्भ॑मयं परि॒धाप॑यति
(१) । वाज॑स्याव॑रुद्ध्यै, इति ।
तार्प्यस्य यज्ञस्य यज्ञसाधनत्वायज्ञत्वम् । एनं पत्नीदेहम् ।
वाजपेयया जिनोऽन्नावरोधकामिन ओषधिरुपदर्भमयेनान्नमवरुद्धं
भवति ।
कल्पः-- "अथ जायामामन्त्रयते--
जाय एहि सुवो रोहाव, इति । रोहावहि सुवः, इति-इतरा प्रत्याह ।
अहं ना॑वु॒भयोः सुर्वे रोक्ष्या॑मि, इति यजमान " इति ।
स्पष्टार्थो मन्त्रः । एहीत्याह्वानस्य तात्पर्यमाह-
जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्न्या॑ एवैष॒
य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै, इति ।
आह्व न (ने) न यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति
यज्ञोऽनबच्छिन्नो भवति ।
पूर्वमन्त्रैः स्वर्गत्त्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं
परिमाणपवदितुं परिमाणान्तरं विधत्ते-
स॒प्तद॑शार॒त्निर्यू॒पो भ॑वति । स॒प्तद॒शः प्र॒जाप॑तिः ।
प्र॒जाप॑तेराप्त्यै॑, इति ।
चतुर्विंशत्यङ्गुलिपरिमितोऽरत्निः, सप्तदशसंख्याका अरत्नयः
परिमाणं यस्य यूपस्येति विग्रहः ।
अन्यद्गुणद्वयं यूपस्य विधत्ते-
तूप॒रश्च॑तुर॒श्रिर्भव॑ति, इति ।
इतरेषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽ णीयांश्र्चषाल-
पतिमोकायामवशेष्यते सोऽस्य नास्तीति तूपरत्वम् । अष्टाश्रित्वमपवदितुं
चतुरश्रित्वम् । चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय
विधत्ते-
१४६ (१.३.७) तैत्तिरीयब्राह्मणम्
गौ॒धूमं॑ च॒षाल॑म् । न वा ए॒ते व्री॒हयो॒ न यवाः॑ । यद्गो॒धूमाः॑
(२) । ए॒तमिव॑ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑
लो॒कमन्न॑वन्तं करोति, इति ।
गोधूमं कुर्यादिति शेषः । यथाव्रीहिभ्यो यवेभ्यश्च गोधूमानां लोकं
प्रशस्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तं प्रजापतिः । किंच गोधूमसंपत्त्या
सर्वगोंऽन्नवान्भवति ।
यूपस्य वेष्टनं विधत्ते--
वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॑ दे॒व॒त्यं॑
वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः सम॑र्धयति । अथो॑
आक्र॑मणमे॒व तत्सेतुं॒ यज॑मानः कुरुते । सु॒वर्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै, इति ।
वाससां संख्यामपस्तम्ब आह-“रशनाकाल सप्तदशभिर्वासोभिर्यूपं
वेष्टयति ” इति । वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यदौ
सौमिकदीक्षा प्रकरणे विस्पष्टम् । आक्रमणं स्वर्गारोहणं सोपानसदृशम् ।
कल्पः-“आहवनीये जुहोत्यन्वारब्ध यजमाने वाजश्च प्रसवश्चेति
द्वादश स्रुवाहुतीः” इति ।
पाठस्तु-वाज॑श्च प्रस॒वश्चा॑पिज॒श्च क्रतु॑श्च सुव॑श्च मू॒र्धा च॒
व्यश्निय॑श्चान्त्याय॒ नश्चान्त्य॑श्च भौव॒नश्च॒ भुवन॑श्चाधिप॑तिश्च, इति ।
वाजादयः सर्वं मम सन्त्विति शेषः । वाजोऽन्नं प्रसवस्तस्योत्पत्तिः ।
अपिजस्तस्यैव पुनः पुनरुत्पत्तिः । क्रतुं संकल्पो भोगादिविषयो यागो
वा । सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः । अथवा वाजादयश्चैत्रादिमासानां
नाम विशेषाः । तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः । चकाराः
परस्परसमुच्च यार्थाः । अनुक्तकालादिदेवतासमुच्चयार्था वा । विधत्ते-
द्वाद॑श वाजप्रस॒वीया॑नि जुहोति (३) । द्वाद॑श मासाः॑
संवत्स॒रं । सं॒व॒त्स॒रमे॒व प्री॑णाति । अथो॑संवत्स॒रमे॒यात्मा॒
उप॑दधाति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति ।
वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि
वाज प्रसवीयानि । अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम् । न
केवलमनेन होमेन संवत्सरदेवतायाः प्रीतिः किं त्वस्य यजमानस्य
तैत्तिरीयब्राह्मणम् (१.३.७) २४७
स्वर्गप्राप्तये संवत्सरदेवतां निश्रेणिवदुपधानमाधारमपि करोति ।
कल्पः-“तं दशभिः कल्पै रोहत्यायुर्य॒ज्ञेन॑ कल्पताम् ” इति । तं
यूपम् । कल्पैः कल्पशब्दोपेतैः ।
पाठस्तु- आयु॒र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपानो य॒ज्ञेन॑
कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता ँ॒श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां
मने॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑
कल्पताम्, इति ।
आत्मा जीवः । यज्ञेन यज्ञसंबन्धिना यूपारोहणेन । आयुरादया
स्वम्य प्रयोजनसमर्था भवन्तु । विधत्ते-
दश॑भिः कल्पै रोहति । नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं
लो॒कमे॑ति । ए॒ताव॑द्वै पुरु॑षस्य॒ स्वम् (४) । याव॑त्प्रा॒णाः ।
याव॑देवा॒स्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति, इति ।
अन्यत्र सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चविति श्रुतत्वदिक्षवि
च्छिद्रभिप्रायः प्राणशब्दः । अनेन कल्पमन्त्रपाठेन प्राणापानचक्षुः
श्रोत्रादी-प्राणा स्वस्वस्थाने स्थापयित्वा तैस्तदीयस्थानैः सह स्वर्गः प्राप्तो
भवति ।
कल्पः-“बाहू उद्गृह्णाति-
सुव॑र्देवाँ अगन्मामृता॑ अभूम प्रजाप॑तेः प्र॒जा अ॑भूम ” इति ।
उद्गृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिमभिनयता यजमानेनैतदुच्यते ।
वयं स्वर्गावस्थितदेवान्प्रत्यगन्म प्राप्ताः स्मः । प्राप्य चामृता दवा अभूम
। अतः प्रजापतेः प्रीतिविषयाः प्रजा अस्मिन्भूलोके यज्ञानुष्ठान परा अभूम ।
मन्त्रस्य त्रीन्भागान्पृथग्व्याचष्टे-
सुव॑र्देवं अग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमै॑ति । अमृ॑ता
अभूमेत्या॑ह । अ॒मृत॑मि॒व हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेः प्र॒जा
अभूमेत्या॑ह । प्रा॒जाप॑त्यो वा अ॒यं लो॒कः अ॒स्मादे॒व तेन॑
लो॒कान्नै॑ति (५), इति ।
तेन तृतीयभागपाठेन भूलोकात्सव।
तैत्तिरीयब्राह्मणम् (१.३.७) १४९
ताड्यमानप्रदेशं विधत्ते--
शी॒र्ष॒तो घ्न॑न्ति । शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑, इति ।
चतुर्दिक्षु हननं विधत्ते-
दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॒ अन्ना॑द्य॒मव॑रुन्धते, इति ।
कल्पः-“अत्रास्मै प्रत्यवरोहत आसन्दीं निदधाति तस्यां
वस्ताजिनमा स्तृणाति वस्ताजिने शतमान ँ हिरण्यं दक्षिणं पादं हिरण्य
उपावरोहयति-
अ॒मृत॑मसि, इति । पुष्टि॑रसि प्र॒जनन॑मसि, इति सव्यं बस्ताजिने ;
इति ।
हे हिरण्य त्वं विनाशरहितमसि । नह्यग्नौ प्रक्षिप्तमपि हिरण्यं
काष्ठादिवद्विनश्यति । हे बस्ताजिन त्वं पुष्टि॒रसि । संवत्सरे
बह्वपत्योत्पादकत्वात् । एतदेवाभिप्रेत्य प्रजननमसीत्युच्यते ।
हिरण्यऽवरोहं विधातुं प्रस्तौति-
ईश्व॒रो वा ए॒ष परा॑ङ्प्र॒दध॑: । यो यूप॒ ँ रोह॑ति, इति ।
यूपमारूढो यजमानः पराङ्लोकाद्विमुखः प्रदधः प्रदग्धुं स्वात्मानं
विनाशयितुमीश्वरः समर्थो भवति । अथवा प्रदधः प्रकर्षेण गन्तुमीश्वरो
न पुरनावर्तेतेत्यर्थः ।
विधत्ते-
हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतं॒ वै हिर॑ण्यम् । अ॒मृत॑ꣳसुवर्गो
लो॒कः । अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति, इति ।
हिरण्यस्य परिमाणं विधत्ते-
श॒तमा॑नं भवति । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति, इति ।
मानशब्देन पणस्य विंशो भागोऽभिधीयंत । ततः
पञ्चपणपरिमित्युक्तं भवति । शतसंख्याकाः संवत्सराः पुरुषस्याऽऽयुः ।
दशानां ज्ञानकर्मन्द्रियाणां मध्ये चक्षुरादीन्द्रियस्यैकैकस्य दशसु नाडीषु
वृत्तिभेदेन शतेन्द्रियत्वम् ।
१५० (१.३.७) तैत्तिरीयब्राह्मणम्
बस्ताजिने वामपादप्रक्षेपं विधातुं प्रस्तौति-
पु॒ष्ट्यै वा ए॒तद्रू॒पम् । यद॒जा । त्रिः
सं॒व॒त्स॒रस्या॒न्यान्प॒शून्परि॒प्रजा॑यते, इति ।
संवत्सरे सकृत्प्रसवोपेतानन्यान्गावादिपशून्परित्यज्यसंवत्सरे
त्रिरपत्यानि प्रसूतेऽतोऽस्याः पुष्टिरूपत्वम्।
विधत्ते-
ब॒स्ता॒जि॒नम॒ध्यर्व॑रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति
(७), इति ।
परि॑धापय॑ति गोधूमा॑ जुहो॑ति॒ स्वं नैति॑ प्रत्यञ्चं॑ घ्नन्ति लो॒को नव॑
च ।
अथ विनियोगसंग्रहः-
क्षत्रतार्प्यं क्षत्रदार्भ्यं परिधत्तोऽथ दंपती ।
जाय स्वाभ्याह्वयेद्धार्या रोहा तं प्रतीवक्ति सा ॥
अहं स्वाम्याहवाजश्च जुहुयाद् द्वादशाऽऽहुतीः ।
आयुर्दशभिरारोहेत्स्वयं बाहूद् ग्रहः सुवः ॥
सं भुवं प्रेक्षतेऽन्नाय चतुर्भिस्तु महर्त्विजः ।
दिग्भ्यो घन्त्यासपुटकैरमृत्पुष्टिद्वयात्पदे ।
स्वर्णवस्तत्वचोर्द्द्यात्पञ्चत्रिंशत्विहोदिताः ॥ (इति) ।
अथ मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्-
तार्प्यमहतवस्त्रस्य बाधकं स्यान्न वाऽग्रिमः ।
गुह्याच्छादनकार्यैक्यादयोग्यत्वात्समुच्चयः ॥ इति ।
महाव्रते श्रूयते-तार्प्यं यजमानः परिधत्ते दर्भमयं पत्नीति ।
प्रकृतावहतं वासः परिधत्त इति । घृतार्क्तं वस्त्रं तार्प्यमित्युच्यते । ताभ्यां
तार्प्यदर्भमयाभ्यां दंपत्योरहतं वस्त्रं बाध्यते । कुतः । परिधत्ते इत्यनेन
प्रकृतिलिङ्गेन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात् । मैवम् ।
तार्प्यदर्भमयमयोर्मुखमाच्छादयितुमयोग्यत्वात् । परिधानं त्वत्रोपरितनं
प्रावरणम् । तत्कार्यभेदा त्समुच्चयः ।
तृतीयाध्यायस्य प्रथमपादे चिन्तितम्-
तैत्तिरीयब्राह्मणम् (१.३.७) १५१
भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः ।
उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ।।
आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः ।
ऊर्ध्वपात्रे खादिरेऽग्रे संयुज्यान्वेति कर्मणा ।।
यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः।
सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ।। (इति) ।
वाजपेयप्रकरणे श्रूयते सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति । अत्र
यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम् ।
सप्तशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैक्यमनुगृह्यते ।
यदि कर्मणः साक्षादूर्ध्वं मानं न संभवत्तर्हि वाजपेयगतं खादिरमूर्ध्वं
यत्षोडशिपात्रं तस्मिन्नेद उन्मानं संबध्य तद्द्वारा कर्मणाऽन्वेतीति प्राप्ते
ब्रूमः । सप्तदशारत्निर्यूप इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते ।
तस्य च यूपस्य पश्वङ्गत्वान्दुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि
पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि
वाजपेययूपशब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया
साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । वाजपेयस्येति
षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । देवदत्तस्य
नप्तृप्रयोगवत् । यत्सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यं यच्च प्रकरणं
तदुभयं न विरुद्धम् । पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वांगीकारात्। किंच
पूर्वपक्षे यूपशब्देन षोडशिपात्र लक्षणीयम् । सिद्धान्ते तु नासौ दोषः ।
तत्रैवाष्टमपादे चिन्तितम्-
वाचयेत्स्वामिनंज्ञानौवाचनीयो ज्ञ एव वा ।
अविशेषादुभौ ज्ञस्य स्वामित्वान्द्वाचयेदमुम् ।। (इति) ।
वाजपेये श्रूयते-कॢप्तीर्यजमानं वाचयतीति । आयुर्यज्ञेन कल्पतामि
त्यादयो मन्त्राः कॢप्तयः । तत्र मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् ।
विद्वांसं वाचयेदित्येवं विशेषस्याश्रवणात् । अनभिज्ञ तदैव
शिक्षयित्वाऽपि वाचयितुं शक्यत्वादिति चेन्मैवम् ।
अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् ।
तस्मादभिज्ञमेव वाचयेत् ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये सप्तमोऽनुवाकः ।। ७ ।।
१५२ (१.३.८) तैत्तिरीयब्राह्मणम्
अथ तृतीयाध्यायेऽष्टमोऽनुवाकः ।
नवमे यूपारोहणमुक्तम् । दशमेऽन्नहोमा उच्यन्ते । कल्पः -
“अथास्यैतत्पुरस्तादौदुम्बरे द्रौणे सर्वौषधमाज्येन समुदाययुतं भवति
तस्यौदुम्बरेण । स्रुवेणोपघातं सप्तन्नहोमाञ्जुहोति वाजस्येमं सोममिति ”
इति । तत्रेयमृक्प्रथमा-
वाज॑स्ये॒मं प्रस॑वः सु॑षुवे॒ अग्रे॒ सोम॒ ँराजा॑नम॒ोषधी॑ष्व॒प्सु ।
ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य ँ राष्ट्रे जा॑ग्रियाम पुरोहि॑ताः, इति ।
वाजस्यान्नस्योत्पादकः परमेश्वर ओषधीष्वप्सु च सारभूतमिमं सोमं
वल्लीरूपं राजानं दीप्तिमन्तं पदार्थमग्रे सृष्ट्यादौ , सुषुव उत्पादयामास ।
ताश्चौषधय आपश्चास्मदर्थं मधुमतीर्माधुर्योपेता भवन्तु ।
वयमप्यस्मिन्द्राष्ट्रेपुरोहिता यागानुष्ठानादौ पुरोगामिणो जाग्रियाम जागरूका
भूयास्म । अथ द्वितीया-
वाज॑स्ये॒दं प्रस॑व॒ वा ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वत॑ः ।
स वि॒राजं॒ पर्ये॑ति प्रजा॒नन्प्र॒जां पुष्टिं॑ वर्धय॑मानो अ॒स्मे, इति ।
वाजस्य प्रसवः परमेश्वर इदमनुष्ठीयमानं कर्माऽऽबभूव :
भावितवानुत्पादितवान् । इमानि सर्वाणि भुवनानि सर्वत उत्पादितत्वात्
स परमेश्वरोऽस्मे अस्मदर्थं प्रजां पुष्टिं च वर्धयमानः प्रजानन्नस्मदभिप्रायं
प्रकर्षेण जानानो विराजं हूयमानमन्नं पर्येति सर्वतः प्राप्नोतु । अन्नं वै
विराडिति श्रुतिः ।
अथ तृतीया-
वाज॑स्ये॒मां प्रस॑वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
अद॑त्सन्तं दापयतु प्रजा॒नःर॒यिं च॑ नः स॒र्ववी॑रां॒ निय॑च्छतु, इति,
वाजस्य प्रसव ईश्वर इमां दिवाभिमानि चान्यानि सर्वाणि भुवनानि
शिश्रिय आश्रितवान् सर्वेषां च भुवनानां राजा भूत्वाऽदत्सन्तं
हविर्दातुमनिच्छन्तं मां प्रजानन्मदीय बुद्धिप्रेरणेन हविर्दापयतु । ततो नोऽ
स्मभ्यं सर्ववीरां पुत्रभृत्यादयः सर्वे वीरां यस्याः सा सर्ववीरा तादृशीं
रयिं धनं स नियच्छतु नियमेन ददातु । अथ चतुर्थी-
अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव ।
प्र णो॑ यच्छ भुवस्पते ध॒न॒दा असि॑ नृ॒त्स्वम्, इति ।
हेऽग्ने इहास्मिन्कर्मणि नोऽस्माकमच्छाऽऽभिमुख्येन वद हितं
कथय । नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव । हे भुवस्पते भूमिपते
तैत्तिरीयब्राह्मणम् (१.३.८) १५३
नोऽस्मभ्यं प्रकर्षेण यच्छ धनं देहि । यस्मात्त्वमस्मत्स्वामी सन्नोंऽस्मभ्यं
धनदा असि । अथ पञ्चमी ।
प्रणो॑ यच्छत्व॒र्यमा प्र भगः॒ प्र बृह॒स्पति॑: ।
प्र दे॒वाः प्रोत सूनृता॒ प्र वाग्दे॒वी द॑दातु नः, इति ।
षड्भिः प्रशब्दैः प्रयच्छत्विति प्रददात्वित्यन्वये सत्येतानि
षड्वाक्यानि भवन्ति । अर्यमभगबृहस्पतयो देवेषुत्तमत्वाद्विप्रपरिव्रा-
जकन्यायेन पृथङ् निर्दिश्यन्ते । तेभ्योऽन्ये त्वत्र देवशब्देनोच्यन्ते । ते
सर्वे नोऽस्मभ्यं धनं प्रयच्छन्तु । उतापि च सूनृता प्रियवागभिमानिनी
देवता या चान्यवाङ् मात्राभिमानिनी देवता ते उभे धनं प्रयच्छताम् ।
अथ षष्ठी-
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॑ दाना॑य चोदय । वाचं॒ विष्णुं॑ ँसरस्वतीं॑
स॒वितारं॑ च वा॒जिन॑म्, इति ।
हे ईश्वर पुनरस्मभ्यं दातुं धनस्य दानायार्यमादींश्चोदय प्रेरय ।
वाक्सरस्वत्योः पूर्वोक्तसूनृतावाचोरिव भेदो द्रष्टव्यः ।
वाजिनमन्नाधिपतिम् । अथ सप्तमी-
सोमं॑ ँराजा॑नं॒ वरु॑णम॒ग्निमन्व॑ारभामहे । आ॒दि॒त्यान्विष्णुं॑ ँसूर्यं॒
ब्रह्माणं॑ च॒ बृह॒स्पति॑म्, इति ।
वयं सोमराजादीन्प्रथमत्तः कर्मारम्भकाननुसृत्य पश्चादारभामहेऽतस्ते
सर्वेऽनुगृह्णन्तु विधत्ते -
स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि ।
याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या
ओष॑धयः । स॒प्ताऽऽर॒ण्याः॑ । उ॒भयी॑षा॒मव॑रुद्ध्यै, इति ।
अन्नहेतूनामोषधीनां सप्तत्वात्तत्कार्याणामन्नानामपि सप्तत्वम् ।
ओषधीनां सप्तत्वमापस्तम्बोऽग्निचयने दर्शयति-तिलमाषव्रीहियवाः
प्रियङ्गवोऽणवो गोधूमा वेणुः श्यामाका नीवारा जर्तिलाश्च गवीधुका
अरण्यजा मर्कटका विज्ञेया गार्मतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः
कृष्टे सप्ताऽऽरण्या अकृष्ट इति ।
एकैकस्यान्नस्य पृथगेव होमं विधत्ते-
अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै, इति ।
इयं पक्षमापस्तम्बो -दर्शयति-“वाजपसवीयं जुहोति सप्त ग्राम्या
ओषधयः सप्ताऽऽरण्याः पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं
प्रसवः सुषुव इति ग्राम्याणि हुत्वाऽऽरण्यानि जुहोति" इति ।
१५४ (१.३.८) तैत्तिरीयब्राह्मणम्
इदानीं बोधायनाभिमतं सर्वाण्येकीकृत्य होमं विधत्ते-
यद्वा॑जपेयया॒ज्यन॑वरुद्धस्या॒श्नीया॑त् (१) । अवरु॑द्धेन
व्यृ॑ध्येत । सर्व॑स्य सम॒वदा॑यं जुहोति ।
अन॑वरुद्धस्याव॑रुद्ध्यै, इति ।
होमकाले यदन्नमवरुद्धं स्वीकृतं तदुपेक्ष्य यदस्वीकृतं वाजपेययाजी
कालान्तरेऽश्नीयात् । तदानीमुपेक्षितेन यागकालींनानन्नेनासौ वियुक्तो
भवेदतः सर्वमेकीकृत्य होमे सर्वस्यापि यागकाले स्वीकृतत्वेन
दोषापादकमस्वीकृतं किंचिन्न भवेदतोऽस्वीकृतस्य सर्वस्यापि यागकाले
स्वीकाराय मिलित्वा होम इत्यर्थः ।
होमे साधनविशेषं विधत्ते-
औदुम्बरेण स्रुवेण॑ जुहोति । ऊर्जा अन्नमुदुम्बरः॑ । ऊर्ज॑
ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति ।
ऊर्जा अन्नं वहप्रदमेवान्नमत्त एव देशविशेषे बह्वद्यते ।
कल्पः-“अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमा
ऽऽस्तृणाति तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्यां रुक्माभ्यां पर्युपास्य
पुरस्तात्प्रत्यञ्चमभिषिञ्चति । शीर्षतोऽभिषिञ्चत्यामुखादन्ववस्त्रा-
वयति ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो
हस्ता॑भ्या॒ ऽ सर॑स्वत्यै वा॒चो य॒न्तुर्यन्त्रे॑णा॒ग्नेस्त्वा॒
सा॒म्राज्ये॑ना॒भिषि॑ञ्चामीन्द्र॑स्य त्वा बृह॒स्पते॑स्त्वा॒
सा॒म्राज्ये॑ना॒भिषि॑ञ्चामि इति ।
अत्रेन्द्रस्येत्यस्मिन्मध्यममन्त्रेऽ नुषङ्गसूचनायानाम्नातोऽपि त्वाशब्दः
सूत्रकारेण पठितः । देवस्य त्वेत्यादिर्व्याख्यातः । या सरस्वती वाग्विशेष
देवता या च वाक्शब्दाभिहिता वाक्सामान्यदेवता यश्चान्तर्यामी
यन्तृशब्दवाच्यो योऽप्यग्निस्तेजप्रदस्तेषां यन्त्रेण नियमनेनानुज्ञया
साम्राज्यनिमित्तं त्वामभिषिञ्चामि । इन्द्रस्येत्येतावानेवाऽऽम्नातो द्वितीयो
मन्त्रः । स च पूर्वोत्तरभागयोरनुषङ्गेण व्याख्यातव्यः । बृहस्पतेरित्यादौ
तृतीयमन्त्रे पूर्वभागोऽनुषञ्जनीयः । देवस्य त्वेत्येतस्मिन्मन्त्रभागे
प्रसवपदाभिप्रायमाह-
तैत्तिरीयब्राह्मणम् . (१.३.८) १५५
दे॒वस्य॑ त्वा सवि॒तुः प्रस॑व इत्या॑ह । स॒वि॒तृप्र॑सव ए॒वैनं॑
ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति, इति ।
'ब्रह्मणा मन्त्रेण प्रतिपाद्याभिरिति शेषः ।
सर्वौषधिरसमभिषेकद्रव्यत्वेन विधत्ते-
अन्न॑स्यान्नस्यान॒भिषि॑ञ्चति । अन्न॑स्यान्नस्यान॒वरु॑द्ध्यै (२),
इति ।
प्रकारविशेषं विधत्ते-
पु॒रस्ता॑त्प्रत्य॒ञ्चम॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि
प्रती॑चीन॒मन्न॑म॒द्यते॑ । शीर्ष॒तोऽभिषि॑ञ्चति । शीर्ष॒तो
ह्य॒न्न॑म॒द्यते॑, इति ।
आसपुटघातविषयवाक्यवद्व्याख्येयम् ।
गुणान्तरं विधत्ते-
आमु॒खाद॒न्व॑वस्रावयति । मुख॑त ए॒वास्मा॒ अन्ना॒द्यं॑
दधाति, इति ।
शिरस आरभ्याऽऽनुलोम्येन मुखपर्यन्तमोवावस्रावयेन्नत्वधः।
मन्त्रेष्वग्नीन्द्रबृहस्पतिशब्दतात्पर्यं व्याचष्टे-
अ॒ग्ने॑स्त्व॒ साम्रा॑ज्ये॒नाभिषि॑ञ्चामीत्या॑ह । ए॒ष वा अ॒ग्नेः॑
स॒वः । तेनैवैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒
साम्रा॑ज्येनाभिषिँ॑ञ्चामीत्या॑ह (३) । इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑
दधाति । बृह॒स्पते॑स्त्व॒ साम्रा॑ज्ये॒नाभिषि॑ञ्चामीत्याहं । ब्रह्म॑
वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णैवैन॑म॒भिषि॑ञ्चति, इति ।
एष औषधिरसः । अग्नेः सवोऽग्निना प्रेरितः । अतोऽ
ग्निशब्दमुच्चारयन्नग्निसंबन्धेन तेनैव रसनाभिषिञ्चति । एष वा इन्द्रस्य
सवो बृहस्पतेः सब इत्यनुसंधेयम् । विधत्ते-
सो॒म॒ग्र॒हा॒ ᳵ श्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति ।
१५६ (१.३.८) तैत्तिरीयब्राह्मणम्
अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तं करोति । सुराग्रहा ँ
श्चानवदानीया॑नि च वाज॒सृद्भ्यः॑। इ॒ममे॒व
तैर्लो॒कमन्न॑वन्तं करोति । अथो उभ॑यीष्वे॒वाभिषि॑च्यते,
इति ।
पशोर्यान्यवदानीयानि हृदयादीनि हृदयस्याग्रेऽवद्यतीत्यादिश्रुतेः,
तानीडायामवत्तानि सोमग्रहांश्चर्त्विग्भ्यः प्रयच्छेत् । शिरआ-
दीन्यनवदानीयानि न शीर्षेणोऽवद्यति नांसयोरित्यादिश्रुते, तानि सुराग्रहांश्च
वाजसृद्भ्यो रथान्तरैः षोडशभिराजिधावनं कृतवद्भ्यो वैश्येभ्यः
प्रयच्छेत् । एवं सत्युभयीषु दैवीषु मानुषीषु च प्रजास्वयमभिषिक्तो
भवति ।
विधत्ते-
वि॒मा॒थं कु॑र्वते वाज॒सृतः॑ (४)। इन्द्रि॒यस्याव॑रुद्ध्यै इति ।
विशेषेण मथनमालोडनं कलहो विमाथः । या (पा ?)
नवश्यनटनायाभिनयं विमाथं कुर्युः ।
सवनत्रये स्तोत्रेषु ऋग्विशेषं विधत्ते-
अर्निरुक्ताभिः प्रातःसवने स्तु॑वते । अनि॑रुक्तः प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ । वाज॑वतीभि॒र्माध्यं॑दिने अन्नं॒ वैवाजः॑ ।
अन्न॑मे॒वाव॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसवने । य॒ज्ञो वै
विष्णुः॑ । प॒शवः॒ शिपि॑ः। य॒ज्ञ एव प॒शुषु॒ प्रति॑तिष्ठति,
इति ।
अनिरुक्ताभिरव्यक्तदेवताकाभिर्ऋग्भिः साकल्येन तन्महिम्नो
वक्तुमशक्यत्वात् । प्रजापतिरनिरुक्तः । वाजशब्दोपेता ऋचो वाजवत्यः,
शिपिविष्ट शब्दोपेताश्चर्चः शिपिविष्टर्व्यस्ताः सर्वाः सामवेदे द्रष्टव्याः ।
विष्टशब्दो विष्णुपर्यायः सन्नत्र फलव्यापिनं यज्ञमाचष्टे शिपिशब्दः
पशुवाची । अतः शिपिविष्टवतीभिरृग्भिर्यज्ञे पशुषु च प्रतितिष्ठत्येव।
सामविशेषं विधत्ते-
बृहदन्तं भवति । अन्त॑मे॒वैनं॑'"श्रियै गम॑यति (५), इति ।
अश्नीयादन्नस्यानन्स्यावरुद्ध्या इन्द्रस्य त्वा॒ साम्राज्येनाभि॒-
षि॒ञ्चामीत्योह वाज॒सृतः शिपिस्त्रीणि च ।
तैत्तिरीयब्राह्मणम् (१.३.९) १५७
अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तद् बृहद्द्रायेत् । तेन साम्नैनं
यजमानं श्रियै संपत्तिसिद्धये यज्ञस्य समाप्तिं प्रापितवान्भवति ।
अत्र विनियोगसंग्रहः-
वाजः सप्तभिरन्नस्य होमो देवयुजस्त्रयात् ।
अभिषिञ्चेत्स्वामिनं तं दश मन्त्रा इहोदिताः ॥ इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे तृतीयाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ तृतीयाध्याये नवमोऽनुवाकः ।
दशमेऽन्नहोम उक्तः । एकादश उज्जतिमंत्रा उच्यन्ते ।
कल्पः-“अथ यजमानमन्वास्थायाज्जितीर्वाचयत्यग्निरेकाक्षरेण
वाचमुजयदिति सप्तदश” इति । पाठस्तु-
अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्यक्ष॑रेण प्रा॒ण॒पा॒नावुद॑जयतां
विष्णू॒स्त्र्यक्ष॑रेण॒ त्रीँल्लो॒कानुद॑जय॒त्सोम॑श्चतु॒रक्ष॑रेण॒ चतु॑ष्पदः
प॒शूनुद॑जयत्पू॒षा पञ्चाक्ष॑रेण प॒ङ्क्तिमुद॑जयद्धा॒ता षडक्ष॑रेण
षड्ऋ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दाँ२ शक्करी॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण
गा॒य॒त्रीमुद॑जयन्मि॒त्रो नवाक्ष॑रेण त्रि॒वृत्ँ२स्तो॒ममुद॑जय॒द्वरु॑णो दशाक्ष॑रेण
वि॒राज॒मुद॑जय॒दिन्द्र॑ एकादशाक्ष॑रेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण
जग॑ती॒मुद॑जय॒न्वस॑वस्त्रयोदशाक्ष॑रेण त्रयोद॒शँ२स्तो॒ममुद॑जय-
न्रु॒द्राश्च॑तुर्दशाक्ष॑रेण चतुर्द॒शँ२स्तो॒ममुद॑जय॒न्नादि॒त्याः प॑ञ्चदशाक्ष॑रेण
पञ्चद॒शँ२स्तो॒मममुद॑जय॒न्नादि॑तिः षोड॑शाक्षरेण षोड॒शँ२
स्तो॒ममुद॑जयत्प्र॒जाप॑तिः सप्तदशाक्ष॑रेण सप्तद॒शँ२स्तो॒ममुद॑जयत्, इति ।
आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकेकाक्षरवृद्ध्या तत्तन्मन्त्रं
पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन् । अथवा विध्यन्तर
एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वाऽग्निबीजं (?) तेनैकाक्षरेण मन्त्रेणाग्ने
र्वाग्जयः । द्व्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः
प्राणापानोजयः । एवमन्येऽपित्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः
मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां
नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः । त्रयोदशस्तोमादावपि
तिसृणामृचाममावृत्तिशेषेण तत्तत्संख्या द्रष्टव्या । एंत दुज्जितिविधिस्तु ता
वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः . पूर्वमेवास्माभिर्व्याख्यातः
सोऽयमत्रोत्कर्षणीयः । अत्र विनियोगसंग्रहः-
अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदम् ।
यजमानं रथेष्ठेषु धावत्स्वध्वर्युरादरात् ॥ इति । ।।
१५८ (१.३.९) तैत्तिरीयब्राह्मणम्
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये नवमोऽनुवाक ॥ ९ ॥
एकादश उज्जितिमन्त्रा उक्ताः । द्वादशेऽतिग्राह्यमन्त्रा उच्यन्ते ।
कल्पः-आग्रयणं गृहीत्वा॑ पञ्चैन्द्रानतिग्राह्यान्गृह्णात्युपयामगृहीतोऽसि
नृषदं त्वा द्रुष दमित्येताभिः पञ्चभिरिति । तत्र प्रथममन्त्रपाठस्तु -
उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रुष॒दं भु॑वन्स॒दमिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒व
ते॒ योनि॒रिन्द्रा॑य त्वा, इति ।
हे प्रथमातिग्राह्या त्वमुपयामेन पृथिव्यात्मकेन पात्रेण गृहीतोऽसि ।
इयं वोपयाम इति पूर्वमुदाहृतम् । मनुष्येषु वनस्पतिषु
स्वामित्वेनावस्थितीन्द्राय प्रियं त्वां गृह्णामि एष खरप्रदेशस्ते स्थानं
तस्मादिन्द्राय त्वाऽत्र सादयामि । एष इत्यादिः सादनमन्त्रः ।
नृषदमित्यादिपदाभिप्रायमाह-
नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते ।
द्रु॒ष॒दमित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑
सूयते । भुव॑न्स॒दमित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति
भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुवं॑ नमे॒वैतेनं॑ गच्छति, (१)
इति ।
नॄन्नरः- तेषु सीदतीति नृषत्तं नृषदम् एतेन यजुष्पाठेन प्रधानां मध्ये
सूयते स्वामित्वेनाभिषिच्यते । यदा लोके वसीयान्धनाढ्योभवति तदा
तं पुरुषं स्वामित्वेन कृत्स्नं भुवनमगनन्प्राप्तवानिति जना आहुः ।
अथ द्वितीयग्रहणमन्त्र-
उपयामगृहीतोऽस्यप्सुषदं॑ त्वा घृत॒सदं॑ व्यो॑म॒सदमिन्द्रा॑य॒ जुष्ट॑
गृ॒ह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा, इति ।
पूर्ववद्व्याख्येयम् । एतदेवाभिप्रेत्य तथैव व्याचष्टे-
अ॒प्सुषदं॑ त्वा घृत॒सद॒मित्या॑ह अ॒पामे॒वैनं॑ घृतस्य॑ सूयते ।
व्यो॑म॒सद॒मित्या॑ह । य॒दा वै अपामेवैतेनं घृतस्य सूयत
व्योमसदमित्याह । य॒दा वै वसीया॒न्भवति ।
व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैतेनं॑ गच्छति । इति ।
तैत्तिरीयब्राह्मणम् (१.३.९) १५९
अ॒प्सिव्त्यादिपाठेन तत्स्वामित्वेनाभिषेकः धनाद्यस्य
व्योमगामित्वं नामगजाश्वारोहणम् ।
अथ तृतीयग्रहणमन्त्रः-
उपयामगृ॑हीतोऽसि पृ॑थिविषदं॑' “त्वा॒न्तरि॑क्षसदं
नाक॒सद्मिन्द्रायजुष्टं॑' गृह्णाम्येष ते॒ योनि॒रिन्द्राय त्वा, इति। पूर्ववद्व्या चष्टे-
पृ॒थि॒विषदं॑ त्वा॒न्तरि॑क्षस॒दमित्या॑ह । ए॒षा मे॒वैतेन॑
लो॒कानाँ॑॑ सूयते । तस्मा॑द्वाजपेयया॒जी न कंच॒न
प्रत्यव॑रोहति । अ॒पीव॑ हि दे॒वता॑ना॒ सूय॑ते ।
ना॒क॒सद्मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नार्कं॑
मग॒न्निति॒ वै तमा॑हुः । नार्क॑मे॒वैतेन॑ गच्छति, इति ।
तस्मादयं वाजपेययागनाग्न्यादिदेवतानामपि मध्येऽभिषिक्तं इव
भवति । अग्नेस्त्वां साम्राज्येनाभिषिञ्चामीत्यादिमन्त्रेष्वग्नीनां
यत्तत्साम्राज्यं तेन निमित्तेनाभिषेकस्योक्तत्वान्न प्रत्यवरोहति । अपि
तस्माद्देवतानां मध्येऽभिषिक्तत्वादेववंदेव कमपि मनुष्यं प्रति
गजादिवाहनान्नाव॑रोहति नाव॑रोहेदिति विधिः । अत एवाऽऽपस्तम्ब
आह-“यावज्जीवं न कंचन प्रत्यवरोहेद् बृहस्पतिसवेन वा
प्रत्यवरोहणीयेन यजेत् ” इति ।
अथ चतुर्थग्रहणमन्त्रः
ये ग्रहा॑: पञ्चजनीना॒ येषां॑ ति॒स्रः प॑रम॒जाः । दैव्य॑: को॒शः ।
समु॑ब्जितः । तेषां॑ विशिप्रिया॒णामिष॒मूर्जँ॑॑ सम॑ग्रभीमेष ते॒
योनि॒रिन्द्राय त्वा इति । '
येऽतिग्राह्यरूपा ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो
देवमनुष्यासुररक्षोगन्धर्वेभ्यो निषादपञ्चमेभ्यो वर्णेभ्यो वा हिताः।
येमामत्तिग्राह्याणां तिस्र आग्नेयेन्द्रसौर्याख्यातिग्राह्यरूपाः । परमजाः
प्रकृतयः । किंच येषां प्रभावेन (ण) दैव्योदिवि भवः कोशो मेघः
समुब्जितः सम्यङ्न्युब्जीकृतः . वर्षाभिमुखःकृत इत्यर्थः । विविधानि
शिप्राणि हनुस्थानीयानि पात्राग्राणि तैरुपैता विशि प्रियास्तादृशानां
तेषामतिग्राह्याणां पूरणायेषमन्नसदृशमूर्जं बलप्रदं सोमरसं समग्रभीं
सम्यग्गृह्णामि ।
पञ्चजनीनशब्दाभिप्रायं दर्शयति-
१६० (१.३.१०) तैत्तिरीयब्राह्मणम्
ये ग्रहाः पञ्चजनीना॒ इत्या॑ह ।
प॒ञ्च॒जनाना॑मे॒वैतेन॑ सूयते, इति ।
एतेन मन्त्रपाठेन निषादपञ्चमानां वर्णानां स्वामित्वेनाभिषिच्यते ।
अथ पञ्चमग्रहणमन्त्रः-
अपाꣳरस॒मुद्वय॑स॒ꣳसूर्य॑रश्मिꣳसमाभृ॑तम्। अपाꣳरस॑स्य॒ यो रस॒स्तं
वो॑ गृह्णाम्युत्तम॒मेष ते योनिरिन्द्राय॑ त्वा, इति ।
हेऽतिग्राह्यावो युष्मत्कं मध्य उत्तमं चरमं ग्रहंतं तथाविधं गृह्णामि ।
किं विधम् । अपां रसम् । उदकस्यैव सोमरसत्वेन परिणामात् । उद्भूतं
वयोऽन्नं जीवनं वा यस्य तमुद्वयसम् । सोमरसो ह्यन्नभूतो जीवनहेतुश्च ।
अपाम सोमममृताअभूमेत्युक्तत्वा । सूर्य (र्यो?) रश्मिः परिपाकहेतुर्यस्य
सं सूर्यरश्मिम् । वृष्टिक्किन्ना ओषधय आतपेन पच्यन्तऽन्यथा
वृष्ट्याधिक्येनपूयेयुः समाभृतं गायत्र्या द्युलोकात्सम्यगानीतम् । किंचापां
रसः सोमवल्लिरूपेणपरिणतस्तस्यापि योरसः सारस्तादृशमुदकरसम् ।
स्वामित्वं तेजोयुक्तत्वंच भागद्वयपाठेन भवतीति दर्शयति-
अपाꣳरस॒मुद्वय॑स॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य॒ सूय॑ते ।
सूर्य॑रश्मिꣳसमाभृ॑त॒मि त्या॑ह सशु॒क्रत्वा॑य (२), इति ।
ग॒च्छ॒ति॒ सूय॑ते॒ नव॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके
तृतीयाध्याये नवमोऽनुवाकः॥ ९ ॥
अथ दशमोऽनुवाकः ।
अथ दशमे पिण्डपितृयज्ञ उच्यते तत्राऽदौ कालविशेषं विधत्ते-
इन्द्रो॑ वृ॒त्रꣳह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमा वा॒स्यां॑
प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वेद्युरा॒गच्छ॑न् । पि॒तृन्य॒ज्ञोऽच्छ॑त्।
तं दे॒वाःपुनर॑याचन्त । तमे॑भ्यो॒ न पुन॑रददुः । ते॑ऽब्रुवन्वरं॑
वृ॑णामहै । अथ॑ वः पुनर्दास्यामः । अ॒स्मभ्य॑मे॒व पूर्वेद्युः
क्रि॑याता॒ इति (१) । तमे॑भ्यः॒ पुन॑रददुः । तस्मा॑त्पि॒तृभ्यः॑