तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 180, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.७) १५१
भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः ।
उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ।।
आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः ।
ऊर्ध्वपात्रे खादिरेऽग्रे संयुज्यान्वेति कर्मणा ।।
यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः।
सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ।। (इति) ।
वाजपेयप्रकरणे श्रूयते सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति । अत्र
यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम् ।
सप्तशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैक्यमनुगृह्यते ।
यदि कर्मणः साक्षादूर्ध्वं मानं न संभवत्तर्हि वाजपेयगतं खादिरमूर्ध्वं
यत्षोडशिपात्रं तस्मिन्नेद उन्मानं संबध्य तद्द्वारा कर्मणाऽन्वेतीति प्राप्ते
ब्रूमः । सप्तदशारत्निर्यूप इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते ।
तस्य च यूपस्य पश्वङ्गत्वान्दुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि
पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि
वाजपेययूपशब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया
साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । वाजपेयस्येति
षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । देवदत्तस्य
नप्तृप्रयोगवत् । यत्सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यं यच्च प्रकरणं
तदुभयं न विरुद्धम् । पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वांगीकारात्। किंच
पूर्वपक्षे यूपशब्देन षोडशिपात्र लक्षणीयम् । सिद्धान्ते तु नासौ दोषः ।
तत्रैवाष्टमपादे चिन्तितम्-
वाचयेत्स्वामिनंज्ञानौवाचनीयो ज्ञ एव वा ।
अविशेषादुभौ ज्ञस्य स्वामित्वान्द्वाचयेदमुम् ।। (इति) ।
वाजपेये श्रूयते-कॢप्तीर्यजमानं वाचयतीति । आयुर्यज्ञेन कल्पतामि
त्यादयो मन्त्राः कॢप्तयः । तत्र मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् ।
विद्वांसं वाचयेदित्येवं विशेषस्याश्रवणात् । अनभिज्ञ तदैव
शिक्षयित्वाऽपि वाचयितुं शक्यत्वादिति चेन्मैवम् ।
अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् ।
तस्मादभिज्ञमेव वाचयेत् ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये सप्तमोऽनुवाकः ।। ७ ।।