सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 186, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 186

तैत्तिरीयब्राह्मणम् (१.३.९) १५७
अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तद् बृहद्द्रायेत् । तेन साम्नैनं
यजमानं श्रियै संपत्तिसिद्धये यज्ञस्य समाप्तिं प्रापितवान्भवति ।
अत्र विनियोगसंग्रहः-
वाजः सप्तभिरन्नस्य होमो देवयुजस्त्रयात् ।
अभिषिञ्चेत्स्वामिनं तं दश मन्त्रा इहोदिताः ॥ इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे तृतीयाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ तृतीयाध्याये नवमोऽनुवाकः ।
दशमेऽन्नहोम उक्तः । एकादश उज्जतिमंत्रा उच्यन्ते ।
कल्पः-“अथ यजमानमन्वास्थायाज्जितीर्वाचयत्यग्निरेकाक्षरेण
वाचमुजयदिति सप्तदश” इति । पाठस्तु-
अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्यक्ष॑रेण प्रा॒ण॒पा॒नावुद॑जयतां
विष्णू॒स्त्र्यक्ष॑रेण॒ त्रीँल्लो॒कानुद॑जय॒त्सोम॑श्चतु॒रक्ष॑रेण॒ चतु॑ष्पदः
प॒शूनुद॑जयत्पू॒षा पञ्चाक्ष॑रेण प॒ङ्क्तिमुद॑जयद्धा॒ता षडक्ष॑रेण
षड्ऋ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दाँ२ शक्करी॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण
गा॒य॒त्रीमुद॑जयन्मि॒त्रो नवाक्ष॑रेण त्रि॒वृत्ँ२स्तो॒ममुद॑जय॒द्वरु॑णो दशाक्ष॑रेण
वि॒राज॒मुद॑जय॒दिन्द्र॑ एकादशाक्ष॑रेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण
जग॑ती॒मुद॑जय॒न्वस॑वस्त्रयोदशाक्ष॑रेण त्रयोद॒शँ२स्तो॒ममुद॑जय-
न्रु॒द्राश्च॑तुर्दशाक्ष॑रेण चतुर्द॒शँ२स्तो॒ममुद॑जय॒न्नादि॒त्याः प॑ञ्चदशाक्ष॑रेण
पञ्चद॒शँ२स्तो॒मममुद॑जय॒न्नादि॑तिः षोड॑शाक्षरेण षोड॒शँ२
स्तो॒ममुद॑जयत्प्र॒जाप॑तिः सप्तदशाक्ष॑रेण सप्तद॒शँ२स्तो॒ममुद॑जयत्, इति ।
आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकेकाक्षरवृद्ध्या तत्तन्मन्त्रं
पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन् । अथवा विध्यन्तर
एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वाऽग्निबीजं (?) तेनैकाक्षरेण मन्त्रेणाग्ने
र्वाग्जयः । द्व्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः
प्राणापानोजयः । एवमन्येऽपित्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः
मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां
नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः । त्रयोदशस्तोमादावपि
तिसृणामृचाममावृत्तिशेषेण तत्तत्संख्या द्रष्टव्या । एंत दुज्जितिविधिस्तु ता
वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः . पूर्वमेवास्माभिर्व्याख्यातः
सोऽयमत्रोत्कर्षणीयः । अत्र विनियोगसंग्रहः-
अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदम् ।
यजमानं रथेष्ठेषु धावत्स्वध्वर्युरादरात् ॥ इति । ।।