सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 175, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 175

१४६ (१.३.७) तैत्तिरीयब्राह्मणम्
गौ॒धूमं॑ च॒षाल॑म् । न वा ए॒ते व्री॒हयो॒ न यवाः॑ । यद्गो॒धूमाः॑
(२) । ए॒तमिव॑ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑
लो॒कमन्न॑वन्तं करोति, इति ।
गोधूमं कुर्यादिति शेषः । यथाव्रीहिभ्यो यवेभ्यश्च गोधूमानां लोकं
प्रशस्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तं प्रजापतिः । किंच गोधूमसंपत्त्या
सर्वगोंऽन्नवान्भवति ।
यूपस्य वेष्टनं विधत्ते--
वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॑ दे॒व॒त्यं॑
वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः सम॑र्धयति । अथो॑
आक्र॑मणमे॒व तत्सेतुं॒ यज॑मानः कुरुते । सु॒वर्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै, इति ।
वाससां संख्यामपस्तम्ब आह-“रशनाकाल सप्तदशभिर्वासोभिर्यूपं
वेष्टयति ” इति । वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यदौ
सौमिकदीक्षा प्रकरणे विस्पष्टम् । आक्रमणं स्वर्गारोहणं सोपानसदृशम् ।
कल्पः-“आहवनीये जुहोत्यन्वारब्ध यजमाने वाजश्च प्रसवश्चेति
द्वादश स्रुवाहुतीः” इति ।
पाठस्तु-वाज॑श्च प्रस॒वश्चा॑पिज॒श्च क्रतु॑श्च सुव॑श्च मू॒र्धा च॒
व्यश्निय॑श्चान्त्याय॒ नश्चान्त्य॑श्च भौव॒नश्च॒ भुवन॑श्चाधिप॑तिश्च, इति ।
वाजादयः सर्वं मम सन्त्विति शेषः । वाजोऽन्नं प्रसवस्तस्योत्पत्तिः ।
अपिजस्तस्यैव पुनः पुनरुत्पत्तिः । क्रतुं संकल्पो भोगादिविषयो यागो
वा । सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः । अथवा वाजादयश्चैत्रादिमासानां
नाम विशेषाः । तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः । चकाराः
परस्परसमुच्च यार्थाः । अनुक्तकालादिदेवतासमुच्चयार्था वा । विधत्ते-
द्वाद॑श वाजप्रस॒वीया॑नि जुहोति (३) । द्वाद॑श मासाः॑
संवत्स॒रं । सं॒व॒त्स॒रमे॒व प्री॑णाति । अथो॑संवत्स॒रमे॒यात्मा॒
उप॑दधाति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति ।
वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि
वाज प्रसवीयानि । अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम् । न
केवलमनेन होमेन संवत्सरदेवतायाः प्रीतिः किं त्वस्य यजमानस्य