सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

१२८ (१.३.५) तैत्तिरीयब्राह्मणम्
सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां
फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते । तथा
यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभाव- पर्यालोचनायां
यागस्योद्देश्यत्वादित्रिकं द्रव्यस्योपादेयत्वादित्रिकं पर्यवस्यति । ततो
यागस्य फलद्रव्याभ्यामुभाभ्यां प्रतियोगिभ्यां युगपत्संबन्धे सति
विरुद्धत्रिकद्वयमापद्येत् । ननु तर्हि माभूत्तन्त्रेणोभयसंबन्धः । पृथक्संबन्धाय
यजिरावर्त्यतामिति चेन्न । वाक्यभेदप्रसङ्गात् । द्रव्येण यागं कुर्यादित्येकं
वाक्यम् । यागेन फलं कुर्यादित्यपरम् । तस्माद्वाजपेयशब्दो न
गुणविधायकः किंतु यथोक्तं द्रव्यं
निमित्तीकृत्याग्निहोत्र-शब्दवत्कर्मनामधेयम् । द्वितीयाध्यायस्य
द्वितीयपादे चिन्तितम्-
आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता ।
एकत्वं सकृदाख्यानात्संख्यावृत्त्या प्रयाजवत् ॥
आख्यातमात्रं नो मानं संख्यया बहुकर्मता ।
आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥
पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् ।
विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता ।
रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः ।
बहुत्वसंगमो रूपसंख्ययाऽतः क्रियाभिदा ॥ (इति) ।
तिस्र आहुतीर्जुहोतीति श्रूयते । तत्र जुहोतीत्येतदाख्यातं समिधो
यजतीत्यादिवन्नाभ्यस्तं किंतु सकृदेवाऽऽम्नातम् । तत एकमिदं कर्म ।
त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा
प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति
प्राप्ते ब्रूमः । किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत
पदान्तरान्वितम् । नाऽऽद्यः । वाक्यांशस्य पदमात्रस्य
प्रमितिजन्रकत्वाभावात् । द्वितीये त्रित्वसंख्यया विशेषितेनाऽऽख्यातेन
कर्मबहुत्वं गम्यते । प्रयाजानां तु पूर्वमेव संख्या
वरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वतद्धितः
पूर्वकर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् ।
तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते । कर्मवाचिन
आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया
पूर्वपक्षानुत्थानात् इदं त्वत्रोदाजहार । सप्तदश प्राजापत्यान्पशूनालभत

तैत्तिरीयब्राह्मणम् (१.३.५) १२९
इति । अत्र प्रजापतिर्देवता येषां पशूनां त प्राजापत्या इति तद्धितव्युत्पत्तौ
बहुत्वोंपेताः पशव एकं द्रव्यम् । ततो द्रव्यैक्याद्देवताैक्याच्च यागस्य
रूपमभिन्नमित्येकमिदं कर्म । या तु सप्तदशेति संख्या सा पशुद्रव्यगता,
नतु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मान्न कर्मभेदमापदयतीति
प्राप्ते ब्रूमः । अत्र प्रजापतिर्देवता यस्य पशोः स प्राजापत्य इति तद्धितान्तं
प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपदिकार्थस्य प्रजापतिदेवता-
विशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्ति-
बहुवचने । तत्र प्रथमभाविन्‍या द्वितीयाविभक्तेरेव
तावत्तद्धितोत्पत्तिवेलायामन्वयो नास्ति । कुतः पश्चाद्भाविनो
बहुवचनस्यान्वयः । एवं सति प्राजापत्येत्यनेन तद्धितान्तप्रातिपदि-
केनैकपशुद्रव्यकमेकदेवतोपेतं यागस्य रूपं समर्थ्यते । तादृशानां च
रूपाणां बहुत्व‍ाय बहुवचनम् । बहुत्वविशेषश्च सप्तदशेति निर्दिश्यते ।
तस्मादत्र संख्यया कर्मभेदः । एवं च सत्येमे वक्ष्यमाणं सप्तदशपशूनामै
कादशिनपशुगणविकृतित्वमुपपद्यते । पञ्चमाध्यायस्य प्रथमपादे
चिन्तितम्-
उपाकृतानां किं सप्तदशानां यूपबन्धने ।
क्रमो नास्त्यस्ति वा नास्ति नियामकविवर्जनात् ।।
आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि ।
क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियमिका ।। ( इति) ।
वाजपेये सप्तदश प्राजापत्यान्पशूनालभत इति विहितानां
पशूनामुपाकरणनियोजनादयः संस्काराः कर्तव्याः। तत्रेदृशे पशावुपक्रम
ईदृशे च समाप्तिरिति नियमकारिणः शास्त्रस्याभावादेच्छिकेन
क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः । उपाकृतानां यूपे नियोजनं
संस्कारान्तरं कर्तव्यम् । तदानीमीदृशः पशुः प्रथमं नियोक्तव्य इति
क्रमनियमकारिणां श्रुत्यर्थपाठानामाभावान्नास्ति क्रमनियम इति
चेन्मैवम् । उपाकरणे यः क्रमः स्वीकृतस्तस्यैव नियोजनादिसंस्कारेषु
स्वीकर्तव्यत्वाच्छ्रुत्यर्थपाठ इव प्रथमप्रवृत्तिरपिक्रमं नियन्तुमर्हति ।
प्रवृत्‍या बुद्धिस्थस्य क्रमस्य त्यागकारणाभावात् । प्रवृत्तिकक्रमस्वीकार
प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये
पश्वन्तरेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति ।
तच्चव्यवधानं सप्तदशेतिविधिबलादभ्यनुज्ञातम्। प्रवृत्तिकं क्रमं परित्यज्य
पश्वन्तराणां पूर्वनियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियते
तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात् । तत्तु नाभ्यनुज्ञातम् ।
तस्मात्प्रवृत्त्या क्रमो नियम्यते । तत्रैव द्वितीयपादे चिन्तितम्-

काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं

१३० (१.३.५) तैत्तिरीयब्राह्मणम्
वाजपेये किमेकैकपशोः सर्वसमापनम् ।
सर्वेष्वेवैकधर्मो आद्यः साहित्यसिद्धये ॥
धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते ॥ (इति) ।
वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरण-
नियोजनादि संस्काराः सर्वे समापनीयाः । तथा सति साङ्गं प्रधानं
कर्मव्यमिति प्रयोग वचनेनावगतं धर्माणां साहित्यं प्रसिध्यति ।
चोदकोऽपि धर्मसाहित्यं प्रापयति । प्रकृतावुपाकरणनियोजनादीनां
साहित्यदर्शनात् । तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते
ब्रूमः । सप्तदश प्राजापत्यान्पशूनालभत इति वचनात्पशुसा-
हित्यमवगतम् । तत्र प्रबलं प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापितत्वात् ।
धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं किंतु प्रयोग वचनेन परिकल्प्यंते
यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपय धर्मवैकल्येन
साङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ
धर्मसाहित्यवचनमनुष्ठीयते । तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद्
दुर्बलम् । तस्माद्वैश्र्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीत्यनेन
प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक
उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु
काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं
धर्मसाहित्यं न विरुध्यते । एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणा-
मनुष्ठितत्वात् । दशमाध्यायस्य चतुर्थपादे चिन्तितम्--
प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः ।
अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम् ॥
पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा ।
कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः ॥ (इति) ।
वाजपेये श्रूयते । सप्तदश प्राजापत्यान्पशूनालभत इति । तैरेतैः
प्राकृतपशूनामाग्नेयादीनां बाधः स्यात् । कुतः पशुत्वलिङ्गात् । नहि
पशुशब्दो ग्रहशब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते
ब्रूमः । किमत्र प्रकृतपश्वनुवादेन सप्तदशसंख्या प्रजापतिर्देवता चेति
गुणद्वयं विधीयते, आहोस्विद्विशिष्टमन्यत्कर्म । नाऽऽद्यो वाक्यभेदापत्तेः ।
द्वितीये तु न पशुशब्दो लिङ्गम् । ततोऽत्र ग्रहन्यायो योजनीयः ।
किंचावरोधनमेवाऽऽम्नायते-“ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो
नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवो
ऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते ।

तैत्तिरीयब्राह्मणम् · (१.३.५) १३१
अग्निष्टोममेव तेनाव॒रुन्धे॑ । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् ।
सारस्वत्याऽतिरात्रम् । मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः ।
तान्यशुभिरेवावरुन्द्धे'' इति । अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादि-
पशुतद्भावस्य सिद्धवदनुवादात्समुञ्चयोऽवगम्यते । एकादशाध्यायस्य
द्वितीयपादे चिन्तितम्-
प्रजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः ।
पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः ।। (इति) ।
वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण
वसाहोमो भिद्यत इति चेन्मैवम् । प्रजापति एव सप्तदशानां पशूनां देवता
तथा पाकोऽपि सहैव क्रियते । प्रदानस्यापि पाक उपलक्षणम् । प्रदानेऽपि
साहित्यमस्ति . कालश्चैको याज्याया अर्धर्चान्तस्य तत्कालत्वेन
चोदकातिदेशात् । शक्यते च सह होमः तस्मात्तन्त्रम् । तत्रैव चतुर्थपादे
चिन्तितम्-
प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः ।
भेदो मैवमशेषाङ्गश्रपणादौ प्रभुत्वतः ।। (इति ) ।
वाजपेये सप्तदशसु प्राजापत्यपशुषु कुम्भ्याद्वयशूलस्य
वपाश्रपण्याश्च भेदः स्यात् । कुतः । तत्तत्पश्वङ्गानां भिन्नत्वात् । मैवम् ।
पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थश्रपणादौ प्रभुत्वात् ।
तस्मात्तन्त्रम् । तत्रैव तृतीयपादे चिन्तितम्-
प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः ।
ऊर्ध्वं वा विकृतौ वोत परस्मात्सर्वसोमतः ।।
आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः ।
श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः ।।
पशवो नहि सोमस्य विकारा अविशेषतः ।
उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यताम् ।। (इति) ।
वाजपेये सप्तदशप्राजापत्यपशुप्रचारस्य काले चतुर्धा संशयः । तत्र
तावदयं प्रयोगक्रमः। तृतीयसवने प्रथममार्भवः पवमानः । ततो
वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः । ततोऽ शस्त्रेष्ववशिष्टेषु सोमग्रहेषु
प्रचीर्णेष्वग्निष्टोमसाम ऊर्ध्वमुक्थ्यादयः सोमविकारा इति । एवं स्थिते
प्राजापत्यपशूनामार्भवकाले प्रचारः । कुतः । प्रकृतौ तस्य
पशुप्रचारकालत्वेन चोदकप्राप्तेरित्याद्यः पक्षः । उपरिष्टात्सोमानां
प्राजापत्यैश्चरन्तीति वचनेन सोमग्रहप्रचारादूर्ध्वं कालो विधीयते । यदि

१३२ (१.३.५) तैत्तिरीयब्राह्मणम्
प्रातः सवनमाध्यन्दिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्तीति योज्येत
तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यादतस्तृतीय
सवनगतसोमानामुपरीति वक्तव्यम् । यदि तत्र सर्वसोमानामुपरीति
विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्यते । ततः प्रत्यासत्तये शस्त्रिणां
वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः । उपरिष्टात्सो-
मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत ।
तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्टोमे
यज्ञायज्ञीयसाम्ना संस्थिते सति तत्प्रचारः कार्यः। तस्य
विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः ।
सोमविकाराणामेवायं कालःपशवस्तु न सोमविकारस्त-
स्मादविशेषवचनानुसारेण प्राकृतानां वैकृताना च सर्वेषां
सोमानामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः । तत्रैव द्वितीय पादे
चिन्तितम्-
पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि ।
कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत् ।।
किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः ।
अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः ।। (इति) ।
वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते-“ तान्पर्यग्निकृ-
तानुत्सृजति । ब्रह्मसाम्न्यालभते” इति । तेषु सप़्दशसु पशुषु
पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन
निषिध्यते । अश्वमेधे पर्यग्निकृतानारण्यानुत्सृजन्तीत्यत्र कर्मशेषनिषेधस्य
संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणपर्यन्ताः
समापनीयाः । आलम्भवचनेन च ब्रह्मसामकलेकर्मान्तरं विधीयत इति
प्राप्ते ब्रूमः । कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं
कल्प्येत, वाक्यभेदश्च प्राप्नुयात् । किंच ब्रह्मसाम्न्यालभत इत्यत्र
द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति । तस्मात्पर्यग्नि-
करणानन्तरमेव कर्तव्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल
उत्कर्षो विधीयते । तथा सत्यर्थप्राप्तः पर्यग्निकरणानन्तरभा
विकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥

तैत्तिरीयब्राह्मणम् (१.३.६) १३३
अथ तृतीयाध्याये षष्ठोऽनुवाकः ।
सप्तमे रथमन्त्रा वर्णिताः । अष्टमे रथस्य धावनमन्त्रा वर्ण्यन्ते ।
कल्पः- “रथमातिष्ठति-
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना ॰वा॒ज॒जिता॒ वाजं॑ जे॒षम्”
इति ।
अतिष्ठत्यारोहेदित्यर्थः । वाजजिताऽन्नजयकारिणा बृहस्पति-
नाऽनुगृहीतोऽहं वाजं जेषमन्नं जेष्यामि ।
एतन्मन्त्रगतं बृहस्पतिशब्दं ब्राह्मणजात्यभिमानिदेवपरत्वेन
व्याचष्टे-
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वाजं॑
जे॒षमि॒त्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॑मु॒ज्जय॑ति,
इति ।
कल्पः-“चात्वाले रथचक्रं निमित्तं ब्रह्माऽऽरोहति तमत
एवानुमन्त्रयते
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं॒ नाक ꣳ
रुहे॒यम् ” इति ।
निमिक्तं निखातस्य काष्ठस्याग्रे स्थापितं वर्षिष्ठमतिशयेन प्रवृद्धम् ।
पूर्वमन्त्रवद्व्याचष्टे-
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं
नाकँ॑रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठं
नाकꣳ॑ रोहति, इति ।
विधत्ते-
चा॒त्वा॒ले र॒थच॒क्रं निमि॑क्तꣳ रोहति । अ॒तो वा अङ्गि॑रस
उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । सा॒क्षादे॒वयज॑मानः सुव॒र्गं
लो॒कमै॑ति, इति ।
अत उपरिस्थिताद्रथचक्रादुत्तमा उद्गततमाः । साक्षादेवाव्यव-
धानेनैव ।

ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत ।

१३४ (१.३.६) तैत्तिरीयब्राह्मणम्
विधत्ते-
आवै॑ष्टयति । वज्रो॒ वै रथः॑ वज्रे॑णैव दिशोऽभिज॑यति (१),
इति ।
ऊर्ध्वकाष्ठाग्रे स्थापितं ब्रह्मणा समारूढं रथचक्रं त्रिःप्रदक्षिणं पर्यावर्त
येत् । रथस्य वज्रांशत्वाद्वज्रत्वम् । तच्चान्यत्राऽऽम्नातम्-‘ ‘स्फ्यस्तृतीयँ
रथस्तृतीयं यूपस्तृतीयम्' अतो भ्राम्यमाणेन वज्ररूपेण रथचक्रेणैव सर्वासां
दिशां जयो भवति ।
विधत्ते-
वा॒जिनाँ॒ साम॑ गायते । अन्नं॒ वै वाजः॑। अन्न॑मे॒वाव॑रुन्धे,
इति ।
वाजिनामन्नार्थिनां सबन्धि यत्साम तद्ब्रह्मा गायेत् । अन्नपदस्तु
सामविशेषः शाखान्तरे द्रष्टव्यः । ब्रह्मण इदं गानमित्यापस्तम्बः
स्पष्टयति- “औदुम्बर ँरथचक्रं ब्रह्माऽऽरोहति तमाह । वाजिना ँसाम
गायेति तस्य चक्रं त्रिःप्रदक्षिणमावर्तयति । तत्राऽऽवर्त ( र्त्स्यः)माने ब्रह्मा
गायति ” इति ।
कल्पः-“आघ्नन्ति दुन्दुभीन्संपवदन्ति वावः संप्रवदिता
वाचोऽनुमन्त्रयते-
इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् ” इति ।
यागलक्षणेन परमैश्वर्येण योगाद्यजमान इन्द्रस्तस्मादिन्द्राय हे सभ्या
ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत ।
अन्नविषये जयं प्रापयत । अयमिन्द्रो यजमानो वाजमन्नमजयिञ्जयतु ।
सोऽयं मन्त्र आपस्तम्बेन दुन्दुभिवादने विनियुक्तः-‘ इन्द्राय वाचं वदतेति
दुन्दुभीन्सँ ह्वादयन्ति ” इति । तमेतं दन्दुभिघातं विधातुं प्रस्तौति-
वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा॑क्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् ।
सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा॑द्दुन्दुभिः
सर्वा॒ वाचोऽति॑वदति, इति ।
वाग्देवताया वर्ष्म नादात्मकं प्रधानशरीरं तस्य प्रदेशादयं दुन्दुभिः
सर्वा मनुष्यवाचोऽतिक्रम्य ध्वनिं करोति ।
विधत्ते-

ब्राह्मणोदाहरणेन स्पष्टीकरिष्यते । दक्षिणात्वेन दातव्यानां रथादीनां

तैत्तिरीयब्राह्मणम् (१.३.६) १३५
दुन्दुभी॒न्समा॑घ्नन्ति । प॒रमा वा ए॒षा वाक् (२) । या
दु॒न्दु॒भौ । प॒र॒मयै॑व वा॒चाऽरां॒ वाच॒मव॑रुन्धे । अथो॒ वाच॑
ए॒व वर्ष्म॑ यज॑मा॒नोऽव॑रुन्धे, इति ।
मन्त्रगतमिन्द्रियपदं वाजमजयिदित्येतच्च व्याचष्टे-
इन्द्रा॑य वाचं॑ वद॒तेन्द्रं॑ वाजं॑ जापय॒तेन्द्रो॑
वाज॑मजयि॒दित्य॑ह । ए॒ष वा ए॒तर्हीन्द्र॑ः । यो यज॑ते ।
यज॑मान ए॒व वाज॑मु॒र्जय॑ति, इति ।
कल्पः-"अथास्मा अश्वाजनिं प्रयच्छति-
अश्वा॑जनि॒वाजि॑नी॒ वाजे॑षु वाजिनीवत्यश्वान्त्समत्सु॑ वाजय " इति ।
अस्मै यजमानाय । अश्वमजति क्षिपतीत्यश्वाजनी कशा । सा च
विजयेनान्नप्रदत्वाद्वाजिनी । वाजिन्यो वेगवत्योऽश्वगतयस्ता अस्याः
कशाया इति वाजिनीवती । यथोक्तगुणत्रयोपेते हे कशे वाजेष्वन्नेषु
निमित्तभूतेषु सत्सु त्वमश्वान्समत्सु युद्धेषु वाजय गमय । अयं मन्त्रः
स्पष्टत्वबुद्ध्योपेक्षितः । श्रीविधेयान्विधत्ते-
स॒प्तद॑श प्र॒व्या॒धाना॒जिं धा॑वन्ति । स॒प्तद॑श स्तोत्रं॑ भवति ।
स॒प्तद॑श स॒प्तद॑श दीयन्ते (३) । स॒प्तद॑शः प्र॒जाप॑तिः ।
प्र॒जाप॑तेरा॒प्त्यै॑, इति ।
प्रकर्षेण बलाधिक्येन विध्यन्ते मुच्यन्ते बाणा यावत्परिमाणेषु
देशविशेषेषु तावत्परिमाणा देशाः प्रव्याधास्ते च सप्तदशसंख्याकाः
तेषामन्तेऽवधित्वद्योतनाय काचिदौदुम्बरी शाखा निखन्यते ।
तत्काष्ठयुक्तोऽवधिराजिः तत् पर्यन्तं रथारुढा धावेयुः । अस्मिन्वाजपेये
सामवेदप्रसिद्धं यत्स्तोत्रंतत्सप्तदशसंख्याकावृत्तियुक्तं भवेत् ।
तदावृत्तिप्रकारस्त्वष्टमप्रपाठके समिधमातिष्ठेत्यस्मिन्ननुवाके
ब्राह्मणोदाहरणेन स्पष्टीकरिष्यते । दक्षिणात्वेन दातव्यानां रथादीनां
गोशतान्तानां द्रव्याणां मध्य एकैकद्रव्यं सप्तदशसंख्यायुक्तं दद्यात् ।
तञ्चाऽऽपस्तम्बो दर्शयति-"दक्षिणाकाले सप्तदश रथान्ददाति
सप्तदशानासि सप्तदशाश्वान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश
दास्यः (सीः) सप्तदशाजाः सप्तदशाधीः सप्तदश वासांसि सप्तदश गवां
शतानि" इति । यद्यपि स्तोमविशेषविधेर्देयद्रव्यसंख्याविधेश्च

१३६ (१.३.६) तैत्तिरीयब्राह्मणम्
नायमवसरस्तथाऽपि गन्तव्यदेशविशेषसंख्याविधिप्रसङ्गेन तदुभयं
विहितम् । तथा सत्येकेनैव सप्तदशः प्रजापतित्यनेनार्थवादेन
विधित्रयस्य स्तोतुं शक्यत्वात् ।
कल्पः-“तया यथायुक्तमश्वानिक्षपति-
“अर्वा॑ऽसि” इति दक्षिणं “सप्ति॑रसि” इति मध्यमं “वा॒ज्य॑सि”
इत्युत्तरम्’ इति । अर्वादयोऽश्वजातिविशेषाः । तदेवाभिप्रेत्यान्य-
त्राऽऽम्नायते-‘हयो देवानवहदर्वा सुरान्वाजी गन्धर्वानश्वो मनुष्यान् ”
इति (वामदक्षिणयोरश्वयोर्मध्य ईषाद्वयं प्रसार्य तयोर्मध्ये
सम्याख्यजातिविशेषोपेतमश्वं युञ्जय(ञ्जया) त् । त्रींस्तान्देवतात्रयरूपेण
स्तौति-
अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्याह॑ । अ॒ग्निर्व्वा अर्वा॑ ।
वा॒युः सप्ति॑ः। आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑
दे॒वता॑भिर्दे॒वर॑थं युनक्ति, इति ।
पूर्वं यजुषा युनक्तीत्यत्र मंत्रो विहितः ।
इदानीं रथयोगं विधत्ते-
पृ॒ष्टि॒वा॒हिनं॑ युनक्ति । पृ॒ष्टि॒वाही॒ वै दे॑वर॒थः ।
दे॒वरथ॑मे॒वास्मै॑ युनक्ति (४), इति ।
पृष्टिः पादत्रयोपेतो भोजनपात्रस्याऽऽधारस्तद्वदश्वैस्त्रिभिर्वहतीति
पृष्टिवाही । अत एवोपरिष्टाद्वक्ष्यते-‘त्रयोऽश्वा भवन्ति रथश्चतुर्थः’ इति ।
कल्पः-“अथैतानाजिसृतो विख्यापयति-
वाजिनो वाजं धावत मरुतां प्रसवे जय॑त॒ वि योजना॑
मिमीध्वमध्व॑नः स्कभ्नीत । काष्ठां गच्छत ” इति ।
हे वाजिनोऽश्वा वाजमन्नं संपादयितुं त्वरया धावत ।
मरुतामनुज्ञायां सत्यामन्नं जयत । विशेषेण बहून्यपि योजनानि मिमीध्वं
शीघ्रधावनेन परिमितान्यल्पानीव कुरुत । किंचाध्वनो मार्गान्स्कभ्नीत
स्कम्भयत शीघ्रगत्या पीडितान्कुरुत । काष्ठामध्वसमाप्तिमाजिशिरो
गच्छत । अस्मिन्मन्त्रे प्रथमभागं प्रतीकत्वेनोपादाय चतुर्थभागे काष्ठाशब्दं
व्याचष्टे-
वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां॑ गच्छतेत्या॑ह । सु॒वर्गो॒ वै

तैत्तिरीयब्राह्मणम् (१.३.६) १३७
लो॒कः काष्ठां॑ । सु॒वर्ग॒मेव लो॒कं य॑न्ति, इति ।
दिग्विशेषं विधातुं प्रस्तौति-
सु॒वर्गं॑ वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति, इति ।
विधत्ते-
प्राञ्चो॑ धावन्ति । प्राङ्ङि॒व हि सु॑व॒र्गो लो॒कः, इति ।
प्राञ्चः पूर्वाभिमुखाः । ऐन्द्रत्वात्स्वर्गस्य प्राग्दिग्वर्तित्वम् ।
कल्पः-“अथ रथान्धावतोऽनुमन्त्रयते, बजे वाजेऽवत वाजिनो न
इति चतसृभिरनुच्छन्दसम् ” इति । तंत्रेयमुक्तप्रथमाह-
वाजे॑ वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋत॒ज्ञाः । अ॒स्य
मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑, इति ।
हे वाजिनोऽश्वा वाजे वाजे तत्तदन्ननिमित्तं धनमिमित्तं च
नोऽस्मानवत् । विप्रा ब्राह्मणवत्स्नानेन शुद्धा अमृता मरणरहिताः
श्रमरहिता ऋतज्ञा ऋतं सत्यमस्य गंतव्यदेशं जानन्तस्तादृगश्वाभिमानिनो
हे देवा अस्य मध्वः पिबत, धावनात्पूर्वं पश्चाच्चावघ्राष्यमाणं मधुसमानं
नैवारचरुरसं पिबत । पीत्वा च मादयध्वं हृष्टा भवत । ततस्तृप्ताः सन्तो
देवयानैः पथिभिराजिं प्रति यात । अथ द्वितीया-
ते नो॒ अर्व॑न्तो हव॒नश्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिन॑, इति । तेऽश्वा
अर्वन्तो गतिकुशला हवनश्रुतोऽस्मदाह्वानश्रोतारो वाजिनोऽन्नवन्तो विश्वे
सर्वेऽपि हवमाह्वानमस्मद्वचनं शृण्वन्तु । अथ तृतीया-
मि॒तद्र॑वः सहस्रसा मेधसाता॒ सनि॑ष्यव॑ । म॒हो ये रत्न॒ ँसमि॑थेषु॒ ।
ज॒भि॒रे शं नो॑ भवन्तु वा॒जिनो॑ ह॒वेषु॑, इति ।
महान्तमपि पन्थानं मितमपामिव द्रवन्ति गच्छन्तीति मितद्रवः ।
सहस्रमाः सहस्रस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता यज्ञस्य
प्रदातारः । सनिष्यवः सनिं द्रव्यदानमस्मास्विच्छन्तः । ईदृशा येऽश्वाः
समियेषु संग्रामेषु महो रत्नमत्यधिकं शत्रोधनं जभ्रिरे जितवन्तस्ते वाजिनो
नोऽस्माकं शं भवन्तु सुखकरा भवन्तु । अथ चतुर्थी-
दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः॑ । जम्भ॑य॒न्तोऽहिं॒ वृक॒ ँ रक्षां॑सि॒
सने॑म्य॒स्मद्यु॑यवन् । अमी॑वाः, इति ।
देवताता देवानर्हन्तीति देवतांतयः । मितद्रवः पूर्ववत् । स्वर्काः
शीघ्रधावनेन सुष्ठावर्चनीयाः ते वाजिनोऽहिं वृकं रक्षांसि

१३८ (१.३.६) तैत्तिरीयब्राह्मणम्
सर्पं वंदरण्याश्ववदवाधक्रान्नाक्षसाञ्जम्भयन्तः । वर्ण (वचन) व्यत्ययः ।
सनेमि क्षिप्रमेवामीवा रोगानस्मद्युयवन्नस्मत्तो वियोजितवन्तः ।
तदेवमध्यापकंसंप्रदायमनुसृत्य मन्त्रचतुष्टयं विभक्तम् । बोधायनाचार्यस्तु
ते नो अर्वन्त इत्यादिर्वाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थी
मेषस्य वाजीत्यादिकामृचं चतुष्टयेऽन्तर्भावयामास । तदीयपाठस्तु-
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पि क॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑सन्तवीत्वत्प॒थामङ्गाँ॒स्यन्वाप॑नीफणत्, इति ।
ग्रीवायां कक्ष आस्ये च तत्तदुचितरजुविशेषैर्बद्धः । सन्नेष स्य
वाज्येषोऽश्वः क्षिपणिं सुरण्यति कशां त्वरयति बहुधा बद्धत्वाद्वयं
भञ्जयितुमितस्ततो न गच्छति, कशायास्त्वस्याः शीघ्रं धावतीत्यर्थः ।
दधिक्रा धारकान्मार्गावरोधकान्पाषाणादीनप्यतिक्रमन्क्रतुं सादिनोऽभि-
प्रायमनुसन्तवीत्वत्सम्यगनुसंदधानः पथां मार्गाणामङ्गांसि लक्षणानि
कुटिलानि निम्नोन्नतानि च वाज्यन्वापनीफणदनुक्रमेणोर्जितवं समत्वं
चाऽऽ पादयंस्तुरण्यतीति पूर्वत्रान्वयः ।
कल्पः-‘स यद्यस्मै रथश्चेवमाचक्षते आग्नीध्र एतां जुहोत्युत स्मास्य
द्रवतस्तुरण्यते ” इति । पाठस्तु-
उ॒त स्मा॑स्य द्रवतस्तुर॒ण्यतः॑ प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व
ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॒ सहोर्जा त॑रित्रतः, इति ।
उत स्मापि च द्रवतो गच्छतस्तुरण्यतस्त्वरयतः प्रगर्धिनो ऽवधिं प्राप्तुं
काङ्क्षतोऽस्याश्वस्याङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि
देहे वर्तमानमनुवाति गच्छन्तमश्वमनूत्क्षिप्तत्वेन दृश्यमानं गच्छति ।
कस्य किमिव । वेः पक्षिणः पर्णं न पक्ष इव । यथा त्वरया गच्छतः
पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यालंकाररूपं
वस्त्रचामरादिकं विस्पष्टमवलोक्यते । पक्षमात्रस्य पर्णमङ्कस्य
दृष्टान्तत्वेनाभिहितम् । शीघ्रधावने श्येनदृष्टान्त उच्यते । ध्रजता गच्छतः
श्येनस्येव दधिक्राव्णो धारकपर्वताद्यतिक्रामिण ऊर्जा सहात्यन्तबलेन
सह तरित्रतो भृशं तरतोऽश्वस्येति योज्यम् । आपस्तम्बस्त्वेवमाह-
“वाजिनो वाजं धावतेति चतसृभिर्धावतोऽनुमन्त्रयतेऽग्निरेकाक्षरेणेति ।
धावत्सूर्जितीर्यजमानं वाचयति लक्षणं (?) प्राप्योदञ्च आवृत्त्य
प्रदक्षिणमावर्तते मितद्रव इति चतसृभिः प्रत्याधावतोऽनुमन्त्रयते ” इति ।
वाजिनो वि योजना वाजे वाजे त नों अर्वन्त इति चतस्रः ।
प्रधावतोऽनुमन्त्रणं विधत्ते-
च॒तसृ॑भिरनुमन्त्रयते । च॒त्वारि॒ च्छन्दा॑ ँ सि ।

तैत्तिरीयब्राह्मणम् (१.३.६) १३९
छन्दो॑भिरे॒वैनां॑ ' सुव॒र्गं लो॒कं ग॑मयति (५), इति ।
गायत्री त्रिष्टुब्जगत्यनुष्टुबिति च्छन्दसां चतुष्टयम् ।
उदङ्मुखत्वेनाऽऽवृत्तिं विधत्ते-
प्रवा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते (न्ते) । य आ॒जिं धाव॑न्ति ।
उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेने॑ लो॒कान्नर्य॑न्ति, इति ।
कल्प:-“रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यात्'
इति पाठस्तु-
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू । आ
मांऽऽगन्तां॑ पि॒तरा॑ मा॒तरा॑ चाऽऽमा॒ सोमो॑ अ॒मृत॑त्वा य॑गम्यात्, इति ।
वाजस्यान्नस्य प्रसव उत्पत्तिर्मां प्रत्याजगम्यादागच्छतु ।
द्यावापृथिव्यौ च विश्वशंभू कृत्स्नस्य जगतः सुखं भावयन्तौ (न्त्यौ)
मामागच्छताम् । पितरा मातराऽस्मदीयः पिता च मा प्रत्यागन्तां
चिरजीवित्वाय समागच्छताम् । किंच सोमश्चामृतत्वाय मम देवत्वजन्मने
मां प्रत्यागम्यादागच्छतु । अपाम सोमममृता अभूमेति ह्यन्यत्र श्रुतम् ।
विधत्ते-
र॒थ॒वि॒मो॒च॒नी॒यं जु॑होति॒ प्रति॑ष्ठित्यै, इति ।
रथविमोकेनाश्वानामायासं परिहृत्य स्वयं प्रतिष्ठितो भवति । मन्त्रे
वाजप्रसवोक्तेरभिप्रायमाह-
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाज॑: ।
अन्न॑मे॒वाव॑रुन्धे, इति ।
इतरैः षोडशरथैर्धावद्ध्यः कृष्णलदानं विधातुं प्रस्तौति--
य॒था लो॒कं वा ए॒त उर्जय॑न्ति । य आ॒जिं धाव॑न्ति (६),
इति ।
ये रथान्तरवर्तिनं आजिं धावन्ति, एते यथा लोकं
यथास्थानमुञ्जयन्ति यस्मिन्यस्मिन्स्थाने यों यों धावत्यसावसौ तत्तत्स्थानं
जयतीत्यर्थः ।
विधत्ते--

१४० (१.३.६) तैत्तिरीयब्राह्मणम्
कृ॒ष्ण॒लं कृ॒ष्ण॒लं वा॒ज॒सृद्‍भ्यः॑ प्रय॑च्छति । यमे॒व ते वाजं॑
लो॒कमु॒ज्जय॑न्ति । तं प॒रिक्री॒याव॑रुन्धे, इति ।
यवत्रयपरिमितं सुवर्णं कृष्णलम् । वाजमन्नमुद्दिश्य सरन्ति
धावन्तीति वाजसृतो रथान्तरवर्तिनः । अत एवाऽऽपस्तम्ब-- “यजुर्युक्तं
यजमान आरोहति वाजसृत इतरात्रथान् ” इति । एकैकस्मै वाजसृत
एकैकं कृष्णलं दद्यात्तेन तैः संपादितमन्नं निवासस्थानं च परिक्रीय
स्वाधीनं करोति ।
तान्षोडश कृष्णलान्पुनरादायैकीकृत्य ब्रह्मणे तद्दानं विधत्ते-
एक॑धा ब्र॒ह्मणे॒ उप॑हरति । एक॑धैव य॒र्ज॑माने वी॒र्यं॑ दधाति,
इति ।
चरुं विधातुं प्रस्तौति-
दे॒वा वा ओष॑धीषु॒वाजि॑मर्युः । ता बृह॒स्पति॑रुद॑जयत् । स
नी॒वारा॒न्निरे॑वृणीत । तन्नी॒वारा॑णां नीवा॒रत्वम्, इति ।
यथा पूर्वं प्रथमो वाजपेययागार्थमाजिं धावतो
बृहस्पतेर्जयस्तद्वदत्राप्योषधीषु सारस्वीकारायाऽऽजिप्राप्तौ बृहस्पतिर्जयं
प्राप्यौषधीषु सारत्वेन नीवारानन्याभ्य ओषधीभ्यो निष्कृष्यावृणीत्
निःशेषेण वृत्तत्वान्नीवारत्वं संपन्नम् ।
विधत्ते-
नै॒वा॒रश्च॒रुर्भव॑ति (७) । ए॒तद्वै दे॒वानां॑ पर॒ममन्न॑म् ।
यन्नीवा॑राः । प॒र॒मेणै॒वास्मा॒ अन्नाद्ये॒नाव॑र॒मन्नाद्य॒मव॑रुन्धे,
इति ।
शाल्यादिभ्योऽत्यन्तपूतत्वेन नीवाराणां देवान्नत्वम् ।
चरोः परिमाणं विधत्ते-
स॒प्तद॑शशरा॒वो भव॑ति । स॒प्त॒द॒शः प्र॒जाप॑तिः ।
प्र॒जाप॑तेरा॒प्त्यै, इति ।
चरोः सप्तदशशरवपरिमितत्वं पूर्वं तत्वचारविधौ व्याख्यातम् ।
चरुनिष्पादनोपयुक्तं द्रव्यविशेषं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.३.६) १४१
क्षीरे॒ भव॑ति । रु॒चमे॒वास्मि॑न्दधाति, इति ।
रुचं स्वादुत्वम् ।
निष्पन्ने चरौ घृतप्लावनं विधत्ते-
स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑, इति ।
एतदेवाभिप्रेत्याश्वदेवानुद्दिश्यास्य मध्वः पिबत मादयध्वमित्यस्य
मन्त्रस्यार्थो व्याख्यातः । चरोर्देवतां विधत्ते-
बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या (८) । यो वाज॑पेयेन॒ यज॑ते ।
बा॒र्ह॒स्प॒त्य ए॒ष च॒रु, इति ।
कर्तव्य इत्यध्याहारः । वाजपेययाजिनो बृहस्पतिर्देवतेति
तत्रत्यचरोरपि सा देवता युक्ता ।
कल्पः-“तमेतान्यजुर्युजोऽश्वानवघ्रावयति-
वाजिनो वाजजितो वाजँ॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒
बृह॒स्पते॑र्भा॒गमव॑जिघ्रत” इति ।
बाजजितोऽन्नं जेतुमुद्यता वाजिनो हेऽश्वा वाजमन्नं जेतुमार्जिसु-
दिश्य सरिष्यन्तो धावनं करिष्यन्तो वाजमन्नं जष्यन्तो यूयं
बृहस्पतेर्भागमिमं चरुमवजिघ्रत । कल्पः-“यजुर्युजोऽश्वान्प्रत्याधावतो
ऽवघ्रापयति-
वाजिनो वाजजितो वज ँ॑ ससृ॒वा ँसो॒ वाजं॑ जिगि॒वा ँसो॒
बृह॒स्पते॑र्भा॒गे निमृ॑द्ध्वम्” इति ।
यजमानार्थे रथे यजुर्मन्त्रैर्योजनीया अश्वा यजुर्युजः । ससृवांसो
धावनं कृतवन्तः । जिगिवांसो जयं कृतवन्तः । निमृद्ध्वं शुद्धा भवत ।
आपस्तम्बमते तु जिगिवा ँ स इत्यन्तो मन्त्रः । तदर्थपूरणाय बृहस्पतेर्भाग-
मवजिघ्रतेति पूर्वस्मान्मन्त्रादनुवर्तनीयम् । अवशिष्टाभागो मन्त्रान्तरं तत्र
विनियोगं स एवाह-“बृहस्पतेर्भागे निमृद्ध्वमिति प्रप्रोथेषु च
ले॒पान्निर्मा॑ष्टि” इति । प्रप्रोथा ओष्ठाग्राणि । आजिधावनात्पुरा
पश्चाच्चावघ्रापणं विधत्ते-
अश्वा॑नसरिष्यतः ससृ॒पाँश्चाव॑घ्रापयति । यमे॒व ते वाजं॑
लो॒कमु॑जयन्ति । तमे॒वाव॑रुन्धे, इति ।

१४२ (१.३.६) तैत्तिरीयब्राह्मणम्
कल्पः-“अथ रथान् विमुच्यमानाननुमन्त्रयते-
इ॒यं वः॑ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण॒ सम॑धध्वम्” इति ।
हे रथा वो युष्माकमियं संघाऽऽजिधावनप्रतिज्ञा सा सत्याऽभूत् ।
यां प्रतिज्ञामिन्द्रेणेन्द्रानुग्रहेण समधध्वं सम्यग्धारिवन्तः ।
इन्द्रानुग्रहायैवेन्द्रस्य वज्रोऽसीति रथमन्त्र आम्नान्तः । कल्पः-“
दुन्दुभीनवस्यतोऽनुमन्त्रयते-
अजी॑जिन्त॒ वन॑स्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ” इति ।
हे वनस्पतयो वनस्पतिविकारा दुन्दुभय इन्द्रं यागस्वामिनं
वाजमन्नमुद्दिश्याजीजिपत यथा जितवान्भवति तथा जितवन्तः । तादृशा
यूयं पूर्वं यत्र बद्धास्ततो विमुच्यध्वं विमुक्ता भवत ।
बन्धनप्रदेशस्त्वापस्तम्बेन दर्शितः- “दक्षिणस्यां वेदिश्रोण्यां सप्तदश
दुन्दुभीन्प्रबध्नाति” इति । विधत्ते-
अजी॑जिपत वन॒स्पत॑य॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑
दु॒न्दुभीन्विमु॑ञ्चति । य॒मे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑
उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे (९), इति ।
अभिज॑यति॒ वा ए॒षा वा॒न्दी॑यन्त्य॒ऽस्मै युनक्ति गमयति॒ य आ॒जिं
धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ ।
अत्र देवतयाऽष्टौ च ।
अत्र विनियोगसंग्रहः-
देवाऽऽरोहेद्रथं स्वामी ब्रह्मारोहणन्त्रणम् ।
देवेतीन्द्रा दुन्दुभीनां घोषोऽश्वाज कशाग्रहः ॥
अर्वाऽसीति विभिर्मन्त्रैर्युक्त्यश्वत्रयं रथे ।
वाजीत्येतैर्मन्त्रयेत चतुर्भिर्धावतो रथान् ॥
मितेत्याभिश्चतसृभिस्तान्प्रत्याधावतो रथान् ।
आ मा रथविमुक्त्याख्यं जुहुयाद्वाजिनद्वयात् ॥
गतेः पुरोपरिष्टाच्च घ्रापयेच्चरुमश्वकान् ।
बृहादिजिप्रतेत्यन्तो द्वितीयेऽप्यनुषज्यते ॥
बृहेति मार्ष्टि घोणायामियं तु रथमन्त्रणम् ।
अजीदुन्दुमन्त्रः स्यादेकविंशतिरीरिताः ॥ इति ।

द्वितीयोऽस्तीति चेन्नैवं द्विलोपे बाधगौरवात् ।।

तैत्तिरीयब्राह्मणम् (१.३.६) १४३
अथ मीमांसा । दशमाध्यायस्य तृतीयपादे चिन्तितम् ।
यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत ।
बाधः प्रकाशवन्नैवं पक्षे प्राप्तो नियम्यते ॥ (इति) ।
वाजपेये श्रूयते-यजुर्युक्तं रथमध्वर्यवे ददातीति ।
तत्रायमर्थः-रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि
प्राकृतगवाश्वादिदक्षिणाद्रव्यबाधकान्यत्रविहितानि । तेषु च प्रतिद्रव्यं
सप्तदशसंख्या विहिता । ततो रथाः सप्त दशः । तेषु मुख्यं रथं
यजमानारोहणायेन्द्रस्य वज्रोऽसीत्यादिभिर्यजुर्वेदोक्तैर्मन्त्रैः सजी करोति
सोऽयं यजुर्युक्तो रथस्तं च दक्षिणाकालेऽध्वर्यवे दद्यादिति।
प्रकाशावध्वर्यवे ददातीत्यत्र यथा चोदकप्राप्तस्याध्वर्यु भागस्य बाध
एवमत्रापि । ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधः सिद्धः ।
बाढम् । तथाऽप्यर्धिनः पादिन इत्यादिसमाख्याप्रापिता
विषमविभागविशेषक्लप्तिर्नद्रव्यान्तरमात्रेण बाधितुं शक्या । विरोधिनो
विधा (ना) न्तरस्यावि धानादतश्चोदकप्राप्तेयमध्वर्योर्भागविशेषक्लृप्तिः । सा
यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते । तस्मादध्वर्योर्न
रथान्तरभागोऽस्ति । नापि शकटदास्यादिभाग इति पूर्वः पक्षः ।
नैतद्युक्तम् । प्रकाशदृष्टान्तवैषम्यात् । अत्यन्तमप्राप्तौ हि प्रकाशौ तत्र
विधेयौ । यजुर्युक्तरथस्तु पक्षे प्राप्तः । तथा हि सप्तदश रथान्ददातीत्युक्ते
कस्य को रथ इति वीक्षायां यजमानेच्छाया नियामकत्वाद्यदाऽध्वर्यवे तं
दातुमिच्छति तदा प्राप्नोति यदा नेच्छति तदा न प्राप्नोतीति पक्षे प्राप्तिः।
ततो यजुर्युक्तो यो रथःसोऽध्वर्यवेऽवश्यं देय इति नियम्यतेऽतो न
कस्याप्यनेन बाधः ।
तत्रैव द्वितीयपादे चिन्तितम्-
शरावैःसप्तदशभिर्यश्चरुस्तत्र मुष्टयः ।
चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः ।।
तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः।
द्वितीयोऽस्तीति चेन्नैवं द्विलोपे बाधगौरवात् ।।
तृतीयोऽस्त्वेकलोपेऽत्र धर्मसंख्यैव लुप्यताम् ।
क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम् ।। (इति) ।
प्रकृतौ चतुरो मुष्टीन्निर्वपतीति मुष्टितत्संख्ये श्रुते । तथा वाजपेये
विकृतिरूपः सप्तदशशरावश्चरुश्रुतः । तत्र चरौ किं मुष्टिसंख्ये द्वे अपि
विद्येते किंवा द्वे अपि न विद्येते । आहोस्विदुभयोरेकमस्त्यन्यन्नास्ति ।

१४४ (१.३.७) तैत्तिरीयब्राह्मणम्
यदेकं तदाऽपि किं मुष्टिरेव किंवा संख्येवेति संशयः । चोदकप्राप्त-
मुभयमस्तीत्याद्यः पक्षः प्राप्नोति । चतुर्भिर्मुष्टिः सप्तदशशरावपूरणसर्थस्य
चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि मुष्टिसंख्ये द्वे अपि बाध्यते इति
द्वितीयः पक्षोऽस्त्विति चेन्मैवम् । एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे
सति द्वयोर्बाधे गौरवप्रसङ्गात् । नन्वत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं
मुष्टिद्रव्यं बाध्यते । तथा सप्तदशसंख्यया चतुःसंख्या बाध्यत
इत्युभयबाधोऽवश्यंभावी । मैवम् । भिन्नविषयत्वेन बाधासंभवात् ।
शरावसप्तदशसंख्ये यागसंबद्धे, मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे इति
विषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः । अन्यथाऽनुपपत्त्येति वदामः ।
अनुपपत्तिश्च पूरणासंभवेन दर्शिता । पूरणं चैकबाधेनाप्युपपद्यते मुष्टिबाधे
यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात् । चतुःसंख्याबाधे
यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति । एवं तर्ह्य कलोप इति
तृतीयः पक्षोऽस्तु । तत्र संख्या धर्मः । मुष्टिर्धर्मी । तथा सति मुष्टौ लुप्ते
सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी । संख्याया
तु लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्, तस्मात्संख्येव लुप्यतामिति प्राप्ते
ब्रूमः। चतुःसंख्या तावन्न मुष्टिमात्रेऽन्वेति । कर्मकारकवांचि-
द्वितीयाविभक्तयन्तस्य चतुःशब्दस्य सहकर्मकारकेण निर्वपतिधातुना
सहान्वयात् । अतः संख्या न मुष्टिधर्मः। पार्ष्णिकान्वयेन तु मुष्टिविशेषणं
भविष्यति । संख्यामुष्ट्योः क्रियासंबन्धे समान सत्यपि
प्रथमश्रुतत्वात्साऽनुगृह्यते चरमश्रुतत्वेन दुर्बलो मुष्टिर्बाध्यत इति राद्धान्तः।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
अष्टम रथधावनमुक्तं नवमे यूपारोहणमुच्यते । कल्पः-“अथ
यजमानं तार्प्यं परिधापयति-
क्ष॒त्रस्योल्ब॑मसि, इति । क्ष॒त्रस्य॒ योनि॑रसि॒, इति दर्भमयं पत्नीम् ”
इति ।
धृताक्तं वस्त्रं तार्प्यम् । क्षत्रस्य राजस्थानीयस्य यजमानस्य
गर्भत्वेनोपचर्यमाणस्थोल्बमवरणमसि । उल्बवृतो गर्भ इति च्छन्दोगा
आमनन्ति । हे दर्भमय पट क्षत्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य
योनिरसि शीतनिवारणकारणमसि । तदेतत्परिधानद्वयं विधत्ते-
तार्प्यं॑ यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै तार्प्यम्॑ । य॒ज्ञेनै॒वैन॑ ँ

तैत्तिरीयब्राह्मणम् (१.३.७) १४५
सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै दर्भाः॑ ।
पु॒नात्ये॒वैन॑म् । वाजं॒ वा ए॒षोऽव॑रुरुत्सते । यो वा॑ज॒पेये॑न॒
यज॑ते । ओष॑धयः॒ खलु॒ वै वाजः॑ । यद्दर्भ॑मयं परि॒धाप॑यति
(१) । वाज॑स्याव॑रुद्ध्यै, इति ।
तार्प्यस्य यज्ञस्य यज्ञसाधनत्वायज्ञत्वम् । एनं पत्नीदेहम् ।
वाजपेयया जिनोऽन्नावरोधकामिन ओषधिरुपदर्भमयेनान्नमवरुद्धं
भवति ।
कल्पः-- "अथ जायामामन्त्रयते--
जाय एहि सुवो रोहाव, इति । रोहावहि सुवः, इति-इतरा प्रत्याह ।
अहं ना॑वु॒भयोः सुर्वे रोक्ष्या॑मि, इति यजमान " इति ।
स्पष्टार्थो मन्त्रः । एहीत्याह्वानस्य तात्पर्यमाह-
जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्न्या॑ एवैष॒
य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै, इति ।
आह्व न (ने) न यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति
यज्ञोऽनबच्छिन्नो भवति ।
पूर्वमन्त्रैः स्वर्गत्त्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं
परिमाणपवदितुं परिमाणान्तरं विधत्ते-
स॒प्तद॑शार॒त्निर्यू॒पो भ॑वति । स॒प्तद॒शः प्र॒जाप॑तिः ।
प्र॒जाप॑तेराप्त्यै॑, इति ।
चतुर्विंशत्यङ्गुलिपरिमितोऽरत्निः, सप्तदशसंख्याका अरत्नयः
परिमाणं यस्य यूपस्येति विग्रहः ।
अन्यद्गुणद्वयं यूपस्य विधत्ते-
तूप॒रश्च॑तुर॒श्रिर्भव॑ति, इति ।
इतरेषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽ णीयांश्र्चषाल-
पतिमोकायामवशेष्यते सोऽस्य नास्तीति तूपरत्वम् । अष्टाश्रित्वमपवदितुं
चतुरश्रित्वम् । चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय
विधत्ते-

१४६ (१.३.७) तैत्तिरीयब्राह्मणम्
गौ॒धूमं॑ च॒षाल॑म् । न वा ए॒ते व्री॒हयो॒ न यवाः॑ । यद्गो॒धूमाः॑
(२) । ए॒तमिव॑ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑
लो॒कमन्न॑वन्तं करोति, इति ।
गोधूमं कुर्यादिति शेषः । यथाव्रीहिभ्यो यवेभ्यश्च गोधूमानां लोकं
प्रशस्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तं प्रजापतिः । किंच गोधूमसंपत्त्या
सर्वगोंऽन्नवान्भवति ।
यूपस्य वेष्टनं विधत्ते--
वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॑ दे॒व॒त्यं॑
वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः सम॑र्धयति । अथो॑
आक्र॑मणमे॒व तत्सेतुं॒ यज॑मानः कुरुते । सु॒वर्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै, इति ।
वाससां संख्यामपस्तम्ब आह-“रशनाकाल सप्तदशभिर्वासोभिर्यूपं
वेष्टयति ” इति । वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यदौ
सौमिकदीक्षा प्रकरणे विस्पष्टम् । आक्रमणं स्वर्गारोहणं सोपानसदृशम् ।
कल्पः-“आहवनीये जुहोत्यन्वारब्ध यजमाने वाजश्च प्रसवश्चेति
द्वादश स्रुवाहुतीः” इति ।
पाठस्तु-वाज॑श्च प्रस॒वश्चा॑पिज॒श्च क्रतु॑श्च सुव॑श्च मू॒र्धा च॒
व्यश्निय॑श्चान्त्याय॒ नश्चान्त्य॑श्च भौव॒नश्च॒ भुवन॑श्चाधिप॑तिश्च, इति ।
वाजादयः सर्वं मम सन्त्विति शेषः । वाजोऽन्नं प्रसवस्तस्योत्पत्तिः ।
अपिजस्तस्यैव पुनः पुनरुत्पत्तिः । क्रतुं संकल्पो भोगादिविषयो यागो
वा । सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः । अथवा वाजादयश्चैत्रादिमासानां
नाम विशेषाः । तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः । चकाराः
परस्परसमुच्च यार्थाः । अनुक्तकालादिदेवतासमुच्चयार्था वा । विधत्ते-
द्वाद॑श वाजप्रस॒वीया॑नि जुहोति (३) । द्वाद॑श मासाः॑
संवत्स॒रं । सं॒व॒त्स॒रमे॒व प्री॑णाति । अथो॑संवत्स॒रमे॒यात्मा॒
उप॑दधाति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति ।
वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि
वाज प्रसवीयानि । अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम् । न
केवलमनेन होमेन संवत्सरदेवतायाः प्रीतिः किं त्वस्य यजमानस्य

तैत्तिरीयब्राह्मणम् (१.३.७) २४७
स्वर्गप्राप्तये संवत्सरदेवतां निश्रेणिवदुपधानमाधारमपि करोति ।
कल्पः-“तं दशभिः कल्पै रोहत्यायुर्य॒ज्ञेन॑ कल्पताम् ” इति । तं
यूपम् । कल्पैः कल्पशब्दोपेतैः ।
पाठस्तु- आयु॒र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपानो य॒ज्ञेन॑
कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता ँ॒श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां
मने॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑
कल्पताम्, इति ।
आत्मा जीवः । यज्ञेन यज्ञसंबन्धिना यूपारोहणेन । आयुरादया
स्वम्य प्रयोजनसमर्था भवन्तु । विधत्ते-
दश॑भिः कल्पै रोहति । नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं
लो॒कमे॑ति । ए॒ताव॑द्वै पुरु॑षस्य॒ स्वम् (४) । याव॑त्प्रा॒णाः ।
याव॑देवा॒स्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति, इति ।
अन्यत्र सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चविति श्रुतत्वदिक्षवि
च्छिद्रभिप्रायः प्राणशब्दः । अनेन कल्पमन्त्रपाठेन प्राणापानचक्षुः
श्रोत्रादी-प्राणा स्वस्वस्थाने स्थापयित्वा तैस्तदीयस्थानैः सह स्वर्गः प्राप्तो
भवति ।
कल्पः-“बाहू उद्गृह्णाति-
सुव॑र्देवाँ अगन्मामृता॑ अभूम प्रजाप॑तेः प्र॒जा अ॑भूम ” इति ।
उद्गृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिमभिनयता यजमानेनैतदुच्यते ।
वयं स्वर्गावस्थितदेवान्प्रत्यगन्म प्राप्ताः स्मः । प्राप्य चामृता दवा अभूम
। अतः प्रजापतेः प्रीतिविषयाः प्रजा अस्मिन्भूलोके यज्ञानुष्ठान परा अभूम ।
मन्त्रस्य त्रीन्भागान्पृथग्व्याचष्टे-
सुव॑र्देवं अग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमै॑ति । अमृ॑ता
अभूमेत्या॑ह । अ॒मृत॑मि॒व हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेः प्र॒जा
अभूमेत्या॑ह । प्रा॒जाप॑त्यो वा अ॒यं लो॒कः अ॒स्मादे॒व तेन॑
लो॒कान्नै॑ति (५), इति ।
तेन तृतीयभागपाठेन भूलोकात्सव।