तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 250, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.५.१) २२१
जाया प्रसिद्धा । ऋषभो भर्ता सेक्ता पुरुषः ।
दशमं मन्त्रमाह-
भग॒स्योत्त॑रे । वह॑तवः पु॒रस्ताद्वह॑माना अ॒वस्ता॑त् (२),
इति ।
उत्तरे इत्यत्र फल्गुनी इत्यनुवर्तते पितृगृहात्कन्यया नीयमाना धन
विशेषा वहतवः तेषां वोढारो वहमानाः ।
एकादशं मन्त्रमाह-
दे॒वस्य॑ सवि॒तुर्हस्त॑ः । प्र॒सवः॑ पु॒रस्ता॑त्स॒निर॒वस्ता॑त्, इति ।
प्रसवः कार्येषु प्रेरणम् । सनिर्धनदानम्।
द्वादशं मन्त्रमाह-
इन्द्र॑स्य चि॒त्रा । ऋ॒तं पु॒रस्ता॑त्स॒त्यम॒वस्ता॑त्, इति ।
चिन्त्यमानं वस्तुतत्वमृतमुच्यते । वाच्यमानं वस्तुतत्त्वं सत्यम् ।
त्रयोदशं मन्त्रमाह-
वा॒योर्निष्ट्या॑ । व्र॒तति॑: पु॒रस्ता॑दसि॑द्धि॒रवस्ता॑त्, इति ।
निष्ट्या स्वातिः । व्रततिर्वायुना चालयितुं शक्या वल्ली ।
असिद्धिर्वल्ल्या अधःपातः।
चतुर्दशं मन्त्रमाह-
इन्द्रा॑ग्नि॒योर्विशा॑खे । यु॒गानि॑ पु॒रस्ता॑त्कृ॒षमा॑णा अ॒वस्ता॑त्,
इति ।
कर्षणेन बलीवर्दगलयोः स्थप्यमानं काष्ठं युगम् । कृषमाणाः
कृषिकर्तारः ।
पञ्चदशं मन्त्रमाह-
मि॒त्रस्यानू॑रा॒धाः । अ॒भ्यारोह॑त्पु॒रस्ता॑द॒भ्यरूं॑ढम॒वस्ता॑त्
(३), इति ।