तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 249, कुल 345 में से
संदर्भ में पढ़ें२२० (१.५.१) तैत्तिरीयब्राह्मणम्
तृतीयं मन्त्रमाह-
सोम॑स्येन्व॒का । वित॑तानि पु॒रस्ता॒द्वय॑न्तो॒ऽवस्ता॑त्, इति ।
इन्वका मृगशीर्षसंघगतास्तारकाः। विततानि विस्तीर्णास्तन्तवः ।
वयन्तः पटस्य निर्मातारो देवताविशेषाः ।
चतुर्थं मन्त्रमाह-
रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑: पु॒रस्ता॑द्विक्षारो॒ऽवस्ता॑त् इति ।
बाहुशब्देन द्विवचनान्तेनाऽऽर्द्रानक्षत्रमुपलक्ष्यते
बाहुवत्प्रयलहेतुत्वात् मृगयवो व्याधविशेषा देवाः । विक्षारो विशिष्टो
लक्ष्यवेधः ।
पञ्चमं मन्त्रमाह-
अदि॑त्यै पुर्नव॑सू । वातः॑ पु॒रस्तादा॒र्द्रम॒वस्ता॑त् (१), इति ।
वातो वृष्टेःपूर्वभावी वायुः । आर्द्रं वृष्टिजन्यद्रवत्वम् ।
षष्ठं मन्त्रमाह-
बृहस्पते॑स्ति॒ष्य॑: . जुह्व॑तः पु॒रस्ता॒द्यज॑माना अव॒स्तात्, इति ।
जुह्वतो होमकर्तार ऋत्विजः । यजमानाः स्वामिनः।
सप्तमं मन्त्रमाह-
स॒र्पाणा॑माश्रे॒षाः । अ॒भ्याग॒च्छ॑न्तः पु॒रस्ता॑द॒भ्यानृ॒त्यन्तो॒ऽ
वस्ता॑त्, इति ।
अभ्यागच्छन्तः सर्पनृत्तदर्शनार्थमुत्सुका अभिमुखमागच्छन्तः
पुरुषाः। अभ्यानृत्यन्तःफणानां प्रसारणनाभिमुखं नृत्तं कुर्वन्तः सर्पाः।
अष्टमं मन्त्रमाह-
पि॒तॄणां म॒घाः। रु॒दन्तः॑ पु॒रस्ता॑दपभ्रं ঁ शौऽवस्ता॑त्, इति ।
रुदन्तो रोदनं कुर्वन्तो बन्धवः । अपभ्रंशो देहपातः । नवमं मन्त्रमाह-
अ॒र्य॒म्णः पूर्वे॑ फल्गु॑नी । जा॒या पु॒रस्ता॑दृ॒षभो॑ऽवस्ता॑त्,
इति ।