सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 248, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 248

तैत्तिरीयब्राह्मणम् (१.५.१) २१९
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये
प्रथमकाण्डेचतुर्थप्रपाठकः समाप्तः॥ ४ ॥
(मूलक्रमेण-अष्ट० १ अध्या. ४ अनु.१०(३१)। (भाष्यक्रमेण-कां. १
प्रपा० ४अनु.१०.(३६) ।
अथ प्रथमकाण्डे पञ्चमप्रपाठकारम्भः।
तत्र प्रथमोऽनुवाकः।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
सोमग्रहाद्या विहिताश्चतुर्थे हि प्रपाठके ।
नक्षत्राख्येष्टका मन्त्रप्रमुखाः पञ्चमे श्रुताः ।
अनारभ्योक्तितस्तेषां लिङ्गवाक्यानुसारतः।
योजनीयास्तत्र तत्र न्यायाद्भासंप्रदायतः ॥
तत्र तु प्रथमानुवाके प्रोक्ता नक्षत्रेष्टकामन्त्राः क्वचिद्विकृतिरूपे चयने
द्रष्टव्याः । यथाऽनारभ्याधीतं सामिधेनीसप्तदश्यं प्रकृतौ प्रत्यक्षश्रुतेन
पाञ्चदश्येनावरुद्धायामवकाशमलभमानं विकृतौ निविशत एवमेतेऽपि
मन्त्राःप्रत्यक्षश्रुतेः कृत्तिका नक्षत्रमग्निदेवता" इत्यादिमन्त्रैरवरुद्धायां
प्रकृताववकाशाभावाद्विकृतौ निविशन्ते.तत्र प्रथमं मन्त्रमाह-
अ॒ग्नेः कृत्तिकाः॑ । शु॒क्रं पु॒रस्ता॑ज्ज्योति॑र॒वस्ता॑त्, इति ।
अग्निनक्षत्रस्य स्वामी । तस्य स्वभूताः सप्त कृत्तिका
अम्बादुलादयः । ताश्च मध्ये वर्तन्ते शुक्लं तेजो दीप्तिसाधनं काष्ठं वा ।
तच्च परस्तात्परपार्श्वे वर्तते । ज्योतिर्ज्वाला सा चावस्तादपरपार्श्वे वर्तते।
तासामुभयपार्श्वयोः शुक्रज्योतिषोरभिमानिदेवते अत्यन्तदीप्तिमत्त्यौ परं
दीपयन्त्यौ वर्तेते । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् ।
·द्वितीयं मन्त्रमाह-
प्र॒जाप॑ते रोहि॒णी । आपः॑ पु॒रस्ता॒दोष॑धयो॒ऽवस्ता॑त्, इति ।
प्रजापतिर्नक्षत्रस्वामी देवस्तस्य स्वभूता रोहिणी मध्ये वर्तते । आप
ओषधयश्च पार्श्वद्वये वर्तन्ते ।