स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
इति। स्वस्तिवाचनेऽपि विशेषस्तेनैव दर्शितः—‘युग्मानेव
स्वस्ति वाच्यम्’ इति। अक्षय्ये स्वधावचने च विशेषो ना-
न्दीमुखाः पितरः प्रीयन्तामिति। अक्षय्यस्थाने नान्दीमुखान्
पितॄन् वाचयिष्य इति पृच्छति। नान्दीमुखाः पितरः पि-
तामहाः प्रपितामहाश्च प्रीयन्तामिति वचनेन प्राचीनप्रकरणो-
क्तमनुसन्धेयम्। शेषं पार्वणवदेव। पार्वणं च द्विविधं विस्तु-
तपार्वणमविस्तृतपार्वणं चेति। तत्राविस्तृतपार्वणं सङ्कल्पवि-
धानेन क्रियमाणम्। पिण्डनिर्वापणादिविधानेन क्रियमाणं विस्तु-
तपार्वणम्। पार्वणवदित्यातिदेशिकवचनेन द्विविधपार्वणध-
र्मातिदेशाद्विस्तृतपार्वणधर्मानुष्ठानासम्भवे सङ्कल्पविधानपार्वण-
धर्मकमपि वृद्धिश्राद्धाद्यनुष्ठेयमित्यवगन्तव्यम्।
‘इति स्मृतिचन्द्रिकायां कात्यायनोक्तवृद्धिश्राद्ध-
प्रयोगपद्धतिः.
अथाभ्युदयिकश्राद्धनिरूपणप्रसङ्गादन्यदाभ्युदयिकं कर्म
निरूप्यते। तत्र चतुर्विंशतिमतम्—
श्राद्ध आभ्युदये प्राप्ते देवतास्थापनं स्मृतम्।
जातिधर्मकुलश्रेणीलोकानां वृद्धिकारणम्॥
तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा।
इत्येता मातरः प्रोक्ताः पितृमातृष्वसाऽष्टमी॥
ब्राह्मयाद्याश्च तथा सप्त दुर्गाक्षेत्रगणाधिपान्।
वृद्ध्यादौ पूजयित्वा तु पश्चान्नान्दीमुखान् पितॄन् ॥
मातृपूर्वान् पितॄन् पूज्य ततो मातामहानपि ।
मातामही ततः केचिद्युग्मा भोज्या द्विजातयः ॥
इति । आभ्युदये अभ्युदयनिमित्ते श्राद्धे प्राप्ते कर्तव्यतया
प्रस्तुते ततः प्रागेव मात्रादिपूजनार्थं देवतास्थापनं स्थण्डि-
लादौ मात्रादिगणाधिपान्तदेवतावाहनं स्मृतमिति प्रथमार्ध-
स्यार्थः । पितुः पक्षे पितृवर्गे तिस्रः मातृपितामहीप्रपिता-
मह्यः पूज्याः । तथा मातामहे मातामहवर्गे तिस्रः मातामहीमा-
तुःपितामहीमातुःप्रपितामह्यः । 'पितृमातृस्वसाऽष्टमी' इति
पितृष्वसा सप्तमी मातृष्वसा अष्टमी पूज्याः इत्यष्टौ मनुष्य-
मातरः प्रोक्ता इति द्वितीयश्लोकस्यार्थः । ब्राह्मयाद्यास्तथा सप्त
ब्राह्मी वैष्णवी माहेश्वरी ऐन्द्री वाराही कौमारी चामुण्डा
इत्येताः सप्त देवमातरः । तथा दुर्गाक्षेत्रगणाधिपान् । दुर्गां
क्षेत्राधिपं गणाधिपं च वृद्ध्यादौ वृद्धिश्राद्धात्प्राक् षोडशोप-
चारैः पूजयित्वा पश्चान्नान्दीमुखान् पितॄन् श्राद्धे पूजयेदिति
तृतीयश्लोकस्यार्थः । शेषं व्यक्तम् । अथवा वृद्धिश्राद्धात्प्राक्
कात्यायनोक्तदेवताः पूज्याः । तास्तु तृतीयश्लोके प्रदर्श्यन्ते-
कर्मादिषु च सर्वेषु मातरस्सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
प्रतिमासु च शुद्धासु लिखिता वा पटादिषु ।
गन्धपुष्पाक्षतैश्चैव नैवेद्यैश्च पृथग्विधैः ॥
(कुल)कुड्यलग्ना वनोद्धारा पञ्चधारा घृतेन तु ।
कारयेत्सप्तधारा वा नातिनीचा न चोच्छ्रिताः ॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड्भ्यः पितृभ्यः तदनु श्राद्धदानमुपक्रमेत् ॥
वसिष्ठोक्तो विधिः कृत्स्नः द्रष्टव्योऽत्र निरामिषः ।
गौरी पद्मा शची मेधा सावित्री विजया जया ॥
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।
धृतिः पुष्टिस्तथा तुष्टिः आत्मदेवतया सह ॥
आभ्योऽर्घ्यं गन्धपुष्पं च धूपदीपं निवेदयेत् ।
इति । कर्मादिषु नान्दीश्राद्धप्रयोजककर्मोपक्रमेषु आयुष्याणि
‘आ नो भद्राः क्रतवः’ इत्यादिनाेक्तानि* । षड्भ्यः पितृभ्यः
पित्रादिभ्यो मातामहादिभ्यश्च मातृश्राद्धपूर्वकं श्राद्धदानमुप-
क्रमेत् । वसिष्ठोक्तो विधिः वसिष्ठादिस्मृतिकारोक्तविधिः। आ-
त्मदेवता आत्मनोऽभीष्टदेवता ॥
कर्मादिषु च सर्वेषु मातरस्सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
इत्यनेनोक्तमात्रादयः पूजनीयाः ।
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः ।
नामकर्माणि बालानामन्नप्राशनकर्मणि** ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
* सूक्तानि. \qquad ** चूडाकर्मणि वै तथा.
नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥
कर्मण्यथाभ्युदयिके माङ्गल्यवति शोभने ।
जन्मन्यथोपनयने विवाहे पुत्रकन्ययोः ॥
पितॄन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्वकम् ।
इत्यादिवचनेनोक्तनान्दीमुखश्राद्धस्य चानुष्ठानं क्वचिद्विषये तन्त्रे-
ण कार्यं, न त्वावृत्त्या इत्यत्राह स एव—
गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धं आदौ न पृथगादिषु ॥
अस्यार्थः—देशान्तरगतस्य चिरकालमश्रूयमाणसद्भावस्य मृत-
इति बुद्ध्या पुत्रादिना कृतप्रेतकार्यस्य कालान्तरे आगतस्य
यानि जातकर्मादीनि संस्कारकर्माणि पुनः संभूय क्रियन्ते
तथा तस्य कृतप्रायश्चित्तस्य यानि जातकर्मादीनि कर्माणि
सम्भूय क्रियन्ते तथोपनयनात्प्राक् स्वस्वकाले कथञ्चिदकृत-
चौलपर्यन्तसंस्कारस्य यानि कर्माण्युपनयनात्पूर्वं संभूय क्रियन्ते
तेषु गणशस्संभूय क्रियमाणेषु जातकर्मादिसंस्कारेषु मात्रा-
दिपूजाया नान्दीश्राद्धस्य च सकृत्तन्त्रेण प्रथमं क्रियमाणस्य
कर्मण आदौ अनुष्ठानं न पृथगादिषु नावृत्या सर्वसंस्कार-
कर्मादिष्विति । यत्तु तेनैवोक्तं—
मातृयागक्रियां पूर्वं कृत्वा शेषं तु मङ्गलम् ।
ऋतुत्रयात्तु कर्तव्यं न चान्यल्लघु मङ्गलम् ॥
इति, तत् पूर्वोक्तव्यतिरिक्तविषये क्रमेण यथाकालक्रियमाणस्-
Smriti Cha.—Vol V. 57
450 स्मृतिचन्द्रिकायां
र्वसंस्कारकर्मणां षण्मासातिक्रमेऽपि कालात्ययाभावे सति
द्रष्टव्यम् ॥
इति स्मृतिचन्द्रिकायां आभ्युदयिककर्मनिरूपणम्.
अथ वृद्धिश्राद्धविकृतिभूतकर्माङ्गश्राद्धविषयाणि—
तत्र पारस्करः—
निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिमत्स्मृतम् ॥
इति । निषेककालो भार्याया ऋतुस्नानकालादारभ्य षोडश-
रात्रपर्यन्तः । तत्र पूर्णनक्षत्रान्वितदिने गर्भाधानाख्यकर्माङ्ग-
श्राद्धं कार्यम् । सोमे सोमयागकाले तत्र दीक्षादिने तद-
ङ्गश्राद्धं कार्यम् । सोमशब्दोऽत्र आधानाग्निहोत्रादिकर्मणामु-
पलक्षणार्थः । कर्माङ्गवचनमकरणे कर्मवैगुण्यज्ञापनार्थम् । अत
एवैतत्कृत्वैव कर्म कर्तव्यमिति वचोभङ्ग्या शातातपेन दर्शितं—
तानिष्ट्वा तु पितॄन् यज्ञे कर्म वैदिकमाचरेत् ।
इति । पितॄन् नान्दीमुखसंज्ञिकान् । वैदिकं कर्म गर्भाधानपुंस-
वनसीमन्तोन्नयनसोमयागाग्निहोत्रादिकम् । एतच्च कर्माङ्गश्राद्ध-
मसकृत्क्रियमाणाग्निहोत्रादिकर्मणां प्रथममेकदैव कर्तव्यम् । यत
आह कात्यायनः—
असकृद्यानि कर्माणि क्रियेरन् कर्मकारिभिः ।
प्रतियागं न चैतास्स्युः मातरः श्राद्धमेव च ॥
इति । एताः 'कर्मादिषु च सर्वेषु मातरस्सगणाधिपाः पूज-
नीयाः प्रयत्नेन' इत्यनेन या गणाधिपसहिताः मातर उक्ता
इत्यर्थः । श्राद्धं कर्माङ्गश्राद्धम् । अत एवानन्तरमुक्तं तेनैव—
आधाने होमयोश्चैव वैश्वदेवे तथैव च ।
बलिकर्मणि दर्शे च पूर्णमासे तथैव च ॥
सर्वयज्ञेषु यज्ञज्ञाः वदन्त्येवं मनीषिणः ।
एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ॥
इति । होमयोरित्यनेनाधानसमभिव्याहाराद्विवचनात्सायंप्रात-
रग्निहोमावृत्तौ कर्माङ्गश्राद्धं कार्यम् । यतोऽनन्तरमाह—
नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते ।
इति । अष्टकाश्राद्धविषयाः विशेषधर्मास्तत्तद्गृह्योक्ता द्रष्टव्याः ॥
गोष्ठीश्राद्धशुद्ध्यर्थश्राद्धयात्राश्राद्धपुष्ट्यर्थश्राद्धविषयाणि विशेष-
वचनानि अस्मिन्नेव काण्डे श्राद्धभेदनिरूपणप्रकरणे दर्शि-
तान्यनुसन्धेयानि । सपिण्डीकरणश्राद्धविषयाणि तु विशेष-
वचनान्याशौचकाण्डे दर्शयिष्यामः ॥
इति स्मृतिचन्द्रिकायां कर्माङ्गश्राद्धविषयाणि.
अथ तीर्थश्राद्धविषयाणि—
तत्र मत्स्यपुराणं—
स्नात्वा नदीषु सर्वासु पितॄन् देवांश्च तर्पयेत् ।
तत्रतत्र यथावित्तं कुर्याच्छ्राद्धादिकं तथा ॥
स्मृतिचन्द्रिकायां
अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ।
प्रामैरेव सदा कार्यं कर्तव्यं पितृतर्पणम् ॥
तीर्थे तु ब्राह्मणांन्नैव परीक्षेत कथञ्चन ।
अन्नार्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥
सक्तुभिः पिण्डदानं स्यात्संयावैः पायसेन वा ।
कर्तव्यमृषिभिर्दृष्टं पिण्याकेनैङ्गुदेन वा ॥
पिण्याकेन तिलानां वा तत्रसद्भिनरैस्सह ।
श्राद्धं च तत्र कर्तव्यमर्घ्यावाहनवर्जितम् ॥
श्वध्वाङ्कगृध्रकङ्काद्या घ्नन्ति दृष्टा न ते क्रियाः ।
इति । ऐङ्गुदेन पिण्याकेन इङ्गुदफलनिष्पन्नेन पिण्याकेन । श्वध्वा-
ङ्कादयः श्राद्धकर्त्रादिभिर्दृष्टा अपि तीर्थे क्रियमाणाः श्राद्ध-
क्रियाः न घ्नन्तीत्यर्थः ॥
इति स्मृतिचन्द्रिकायां तीर्थश्राद्धविषयाणि.
श्राद्धकाण्डस्य रचना वचनैर्मुनिभिः कृतैः ।
कृता गदाधरप्रीत्यै श्रीमद्याज्ञिकदेवणैः ॥
इति सकलविद्याविशारदश्री केशवादित्यभट्टोपाध्याय-
सूनुयाज्ञिकदेवणभट्टोपाध्यायसोमयाजि-
विरचितायां स्मृतिचन्द्रिकायां
श्राद्धकाण्डः समाप्तः.
श्रीः
अशुद्धसंशोधनम्.
——————
पुटे. पङ्क्तौ. अशुद्धम्. शुद्धम्.
6 19 धुत्राभावे पुत्राभावे
8 6 बिधिं विधिं
16 8 पि दिषु पित्रादिषु
19 14 सर्वसिन्वा सर्वस्मिन्वा
27 19 शतभिषशुक्ता शतभिषग्युक्ता
28 तमपुटे 12 पङ्क्त्यनन्तरं—‘शुक्ले पौर्वाह्निकी ग्राह्या कृष्णे
चैवापराह्निकी’ इत्यर्धश्लोकेन भाव्यम्.
46 16 संसुखा संमुखा
48 6 अमावात्या अमावास्या
81 21 श्राद्धावधानात् श्राद्धविधानात्
85 6 तदष्युक्त तदप्युक्त
85 11 कुर्याच्छूद्रं कुर्याच्छ्राद्धं
96 15 त्राद्धं श्राद्धं
117 1 सूर्ति मूर्ति
162 19 अनुशंस्यं आनृशंस्यं
165 11 रैहितमिति रहितमिति
207 11 प्रभृतीत्यर्थ प्रभृतीत्यर्थः
235 16 व्यक्तिमात्रयेव व्यक्तिमात्रमेव
244 4 भोज्यो भोज्यौ
282 9 प्रधमं प्रथमं
SMRITI CHA.—Vol. V.
2
पृष्ठे. पङ्क्तौ. अशुद्धम्. शुद्धम्.
318 14 पैतृकैब्राह्मणै पैतृकैः ब्राह्मणैः
320 17 एममुक्ता एवमुक्ता
342 10 देवपूर्व देवपूर्वं
357 8 पीतशेशं पीतशेषं
357 8 पिभेत् पिबेत्
360 16 हति इति
364 1 स्वयं चा स्वयं वा
364 17 दाषे दोष
365 20 महीं महीँ
372 15 पितामहपितृ पितामहस्य पितृ
373 9 शाण्डित्यौ शाण्डिल्यौ
373 12 षिण्डानुमन्त्रण पिण्डानुमन्त्रण
373 12 पितृयज्ञ पिण्डपितृयज्ञ
423 12 मृतामहे मृताहे
424 19 युपदेकदा युगपदेकदा