स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 468, कुल 474 में से
संदर्भ में पढ़ें(कुल)कुड्यलग्ना वनोद्धारा पञ्चधारा घृतेन तु ।
कारयेत्सप्तधारा वा नातिनीचा न चोच्छ्रिताः ॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड्भ्यः पितृभ्यः तदनु श्राद्धदानमुपक्रमेत् ॥
वसिष्ठोक्तो विधिः कृत्स्नः द्रष्टव्योऽत्र निरामिषः ।
गौरी पद्मा शची मेधा सावित्री विजया जया ॥
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।
धृतिः पुष्टिस्तथा तुष्टिः आत्मदेवतया सह ॥
आभ्योऽर्घ्यं गन्धपुष्पं च धूपदीपं निवेदयेत् ।
इति । कर्मादिषु नान्दीश्राद्धप्रयोजककर्मोपक्रमेषु आयुष्याणि
‘आ नो भद्राः क्रतवः’ इत्यादिनाेक्तानि* । षड्भ्यः पितृभ्यः
पित्रादिभ्यो मातामहादिभ्यश्च मातृश्राद्धपूर्वकं श्राद्धदानमुप-
क्रमेत् । वसिष्ठोक्तो विधिः वसिष्ठादिस्मृतिकारोक्तविधिः। आ-
त्मदेवता आत्मनोऽभीष्टदेवता ॥
कर्मादिषु च सर्वेषु मातरस्सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
इत्यनेनोक्तमात्रादयः पूजनीयाः ।
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः ।
नामकर्माणि बालानामन्नप्राशनकर्मणि** ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
* सूक्तानि. \qquad ** चूडाकर्मणि वै तथा.