स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 467, कुल 474 में से
संदर्भ में पढ़ेंवृद्ध्यादौ पूजयित्वा तु पश्चान्नान्दीमुखान् पितॄन् ॥
मातृपूर्वान् पितॄन् पूज्य ततो मातामहानपि ।
मातामही ततः केचिद्युग्मा भोज्या द्विजातयः ॥
इति । आभ्युदये अभ्युदयनिमित्ते श्राद्धे प्राप्ते कर्तव्यतया
प्रस्तुते ततः प्रागेव मात्रादिपूजनार्थं देवतास्थापनं स्थण्डि-
लादौ मात्रादिगणाधिपान्तदेवतावाहनं स्मृतमिति प्रथमार्ध-
स्यार्थः । पितुः पक्षे पितृवर्गे तिस्रः मातृपितामहीप्रपिता-
मह्यः पूज्याः । तथा मातामहे मातामहवर्गे तिस्रः मातामहीमा-
तुःपितामहीमातुःप्रपितामह्यः । 'पितृमातृस्वसाऽष्टमी' इति
पितृष्वसा सप्तमी मातृष्वसा अष्टमी पूज्याः इत्यष्टौ मनुष्य-
मातरः प्रोक्ता इति द्वितीयश्लोकस्यार्थः । ब्राह्मयाद्यास्तथा सप्त
ब्राह्मी वैष्णवी माहेश्वरी ऐन्द्री वाराही कौमारी चामुण्डा
इत्येताः सप्त देवमातरः । तथा दुर्गाक्षेत्रगणाधिपान् । दुर्गां
क्षेत्राधिपं गणाधिपं च वृद्ध्यादौ वृद्धिश्राद्धात्प्राक् षोडशोप-
चारैः पूजयित्वा पश्चान्नान्दीमुखान् पितॄन् श्राद्धे पूजयेदिति
तृतीयश्लोकस्यार्थः । शेषं व्यक्तम् । अथवा वृद्धिश्राद्धात्प्राक्
कात्यायनोक्तदेवताः पूज्याः । तास्तु तृतीयश्लोके प्रदर्श्यन्ते-
कर्मादिषु च सर्वेषु मातरस्सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
प्रतिमासु च शुद्धासु लिखिता वा पटादिषु ।
गन्धपुष्पाक्षतैश्चैव नैवेद्यैश्च पृथग्विधैः ॥