सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished188 पृष्ठ

इस ग्रन्थ के बारे में

'शिवदृष्टि' आचार्य सोमानन्द (लगभग नौवीं-दसवीं शताब्दी) का ग्रन्थ है, और काश्मीर शैव दर्शन के प्रत्यभिज्ञा सम्प्रदाय का पहला व्यवस्थित दार्शनिक ग्रन्थ माना जाता है। सोमानन्द के शिष्य उत्पलदेव ने इसी आधार पर 'ईश्वरप्रत्यभिज्ञाकारिका' रची और 'शिवदृष्टि' पर वृत्ति भी लिखी। ग्रन्थ का केन्द्रीय विचार यह है कि सब कुछ शिव है, और शिव अपनी स्वतन्त्र इच्छा-शक्ति से ही जगत् के रूप में प्रकट होते हैं।

सात आह्निकों में यह ग्रन्थ शिव के परमार्थ स्वरूप, उनकी स्वतन्त्रता और सर्वमयता, शक्ति के विमर्श का विवेचन करता है, फिर व्याकरण-दर्शन के शब्दब्रह्म-मत का खण्डन करता है, और आगे वैशेषिक, सांख्य, बौद्ध और वेदान्त जैसे मतों की समीक्षा करता है। अन्तिम आह्निक में सभी पदार्थों के शिव-रूप होने की सिद्धि और समावेश की चर्चा है।

यह संस्करण श्री शिवोऽहम् सागर ग्रन्थमाला का आठवाँ पुष्प है। इसमें मूल के साथ उत्पलदेवाचार्य की वृत्ति और श्री मधुसूदन कौल की टिप्पणियाँ हैं। इसे सर्वदर्शनाचार्य श्री कृष्णानन्द सागर ने महामण्डलेश्वर स्वामी अखण्डानन्द सागर के निर्देशन में भूमिका सहित सम्पादित और प्रकाशित किया। स्कैन केन्द्रीय संस्कृत विद्यापीठ, जयपुर के पुस्तकालय की प्रति से है; कुल १८८ पृष्ठ हैं।

पृष्ठ 85 स्कैन

६८ शिवदृष्टिः [ आ०-२
शिवाद्वैतपक्षेऽपि भवतः शब्द इव शिवेऽपि सत्यत्वादिदूषणन्यायः
किं नापततीति चेत् । तन्न, जगदपि ततः शिवरूपात् शिवरूपानुरूप्येण
तथा सर्वशक्तियोगात् यदा प्रसूतं तदा शिवरूपमेव, अत एव च सत्यरूपम्,
तथा च वक्ष्यते विस्तरतः । तन्न तुल्यत्वं शब्दाद्वैतपक्षेण शिवाद्वयस्येत्ये-
तद्दूषणापादनात् विरम्यताम् ॥ ७६ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 86 स्कैन

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६६
विषयरूपत्वेन कर्मतया¹ यस्याख्या प्रतीतिः शब्दस्य तस्य इन्द्रि-
यस्य च करणतया² प्रसिद्धस्य वाग्रूपस्य मिश्रत्वेनैकीकारेण यस्मात्तैरुक्त-
मनादिनिधनमित्यादिकमभेदाभिधायि तयोः³, तस्मात्तेन मिश्रीकारेण
सर्वदर्शनाज्ञानता⁴ पदवेदिनां वैयाकरणानां प्राप्ता। नहि क्वचिदपि सांख्यादि-
दर्शनेषु व्यावहारिकयोरिन्द्रियविषययोरभेद इष्टः। एवं⁵

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 87 स्कैन

७० शिवदृष्टि: [ आ०-२
स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः ।
इष्यते ब्रह्मरूपत्वं¹ घटादेरपि कथ्यताम् ॥ ८७ ॥
पश्यन्ती हि दर्शनक्रियात्मिका पूर्वापरीभूतावयवा, पूर्वं² चैतद्-
द्रष्टव्यमिति विमर्शः कुलालादेरिव घटादिकरणेऽवश्यमिच्छात्मकः स्यात्,
तद्वदत्रापि³ सर्वमेतत्स्थितम् । एवं चेच्छा दर्शनक्रियायाः पूर्वा स्थिता,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 88 स्कैन

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ७१
र्भावादज्ञेयत्वेऽसत्त्वादेः, तथापि वागिन्द्रियदशापरा न भवति, माया-
शक्त्या

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 89 स्कैन

अथ
तृतीयमाह्निकम्
अद्वयवादः स्थितः१, पश्यन्तीविचारादनन्तरं स्वयूथ्यानद्वयवादिनः२
प्रतीदानीमारम्भः३ । तथा च तैरूक्तम्—
‘यस्या निरुपाधिज्योतीरूपायाः शिवसंज्ञया ।
व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ॥’
इति । तत्राह—
अथ४ शक्तेः परावस्था यैर्भक्त्या परिगीयते ।
युक्त्या

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 90 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७३
तदनन्तरं निर्देशमर्हति । यतस्तैरेव१ ततः परावस्थातोऽनन्तरं शक्तिदशा
किंचिदुच्छूनतेत्यादिनोक्ता ततो यैः शक्तेः परत्वं गीयते तैस्तया धर्म-
भूतया धर्मी स्वाश्रयः स्वतन्त्रो वास्तवाभेदयुक्त्या देवः शिवः प्रकाशितः ।
अनिमित्तमेव२ तु विशेषात्मनि स्त्रीलिङ्गे किमित्यभिनिवेशः, पुंस्त्वं३
हि स्त्रीपुंसयोः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 91 स्कैन

७४ शिवदृष्टिः [ आ०-३
दुष्करानिच्छामात्रेण शक्तः शिवः कर्तुमिति व्यवहारेऽप्यभेदः, शक्तितद्वतो-
र्भेदाख्यानुपपद्यमानत्वात् शैवे न कदाचिदवान्तरादिभेदेष्वपि वर्ण्यते यथा-
न्यत्राप्रामाणिकदर्शनेषु ॥ ३ ॥
तदेव विचारयन्नाह—
शक्तेरेव स्वतन्त्रत्वात्कर्तुं भावान्विचित्रकान् ।
सामर्थ्यं यदि कल्प्येत तन्नामानन्त्यमेव वा ॥ ४ ॥
भेदे १ हि शक्तिः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 92 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७५
किंच¹--
शक्तिमानेव शक्तिः स्याच्छिववत्करणार्थतः ॥ ५ ॥
शक्तेः³ स्वातन्त्र्यकार्यत्वाच्छिवत्वं न क्वचिद्भवेत् ।
शक्तिरपि शक्त्यन्तरयोगात्कुर्वती शक्तिमानेव स्यात् । करणलक्षणाद-
र्थप्रवृत्तिनिमित्तात्कर्तृत्वादित्यर्थः, यथा शिवभट्टारकः⁴ । शक्तेश्च
स्वतन्त्रं स्वनिबन्धनं कार्यं नान्याश्रयमिति⁵ शिवता नान्यत्र क्वचिद्भवेदिति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 93 स्कैन

७६ शिवदृष्टिः [ आ०-३
शक्तिं मुञ्चतो विविक्तस्य शिवभट्टारकस्याभ्युपगमे' .... तत्त्वात्स्वा-
तन्त्रचे ज्ञेयनिष्ठत्वाभावस ... ... ... माप्नोति ज्ञेया-
प्रकाशनात् तच्च ... ... ... अथवा निजशक्ति-
त्यागे ......... हि तस्य स्वस्वात्तन्त्रचस्य...... तथैव ज्ञानं स्यात्...... शक्ति-
मतः शक्तेः पृथग्भावेन प्रतीतिरस्ति केवलमेकस्मिन्नेव यस्मिन् वस्तुनि
प्रतीतेः किञ्चिद्भवति२ तत्समानं शक्तं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 94 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७७
मन्त्रस्तम्भनतायां१ हि नासौ वह्निस्तदोच्यते । ७ ।।
हेमादिवद्भास्वरं तद्द्रव्यं तैर्व्यभिचारितम् ।
यद्यौष्ण्यव्यतिरेकत्वे दृष्टान्तो दाहकाश्रयात् ॥ ८ ।।
मन्त्रेणौष्ण्यस्तम्भनं२ यस्य तथा शक्तिव्यतिरेकता शक्तिमत उच्यते ।
तन्न इदं वह्नित्वं, तदभावे सत्यग्नेरौष्ण्यं नोपलभ्यते यतस्तदानीमसौ
वह्निस्तेजोमयत्वेऽपि यथा सुवर्णादि द्रव्यं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 95 स्कैन

७८ | शिवदृष्टिः | [ आ०-३
“.........................यावन्नोन्मेषभागणुः ।
न तावदर्थे वर्तत स चोन्मेषः क्रिया मता ।
क्रिया च नानारूपैव...................”
इत्युपक्रम्य--
'स्वस्वभावस्थितिं मुक्त्वा तस्मान्नान्यास्ति सा दशा ।
शिवे यस्यां न वाग्रूपं सूक्ष्ममप्राप्तसंनिधिः ॥'
इति तैरशैवत्वमात्मन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 96 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७६
तदेतन्न, नहि वागिन्द्रियस्य बद्धाणुव्यवस्थितस्य तत्तत्र १ कथितम्,
विषयाख्यस्य वा शब्दस्य तत्परत्वं कदाचित् क्वचित्प्रतिपादितम्, अपि तु
पतिभावे ईश्वरतासमापत्तौ यो महामन्त्रमयः शब्दनात्मा तस्योक्तम् ।। १२ ।।
तथा चाह खेटपालः शब्दराशेर्विशेषताम् ।। १३ ।।
स्वायम्भुवस्य टीकायां बाढमित्यादिना गुरुः ।
तथा मतङ्गटीकायां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 97 स्कैन

८० शिवदृष्टिः [ आ०-३
किरणेषु तथा चोक्तं नादबिन्दादिनेदृशम् ।
अथ परमन्त्रशब्दप्राप्त्युपायत्वात् परत्वं पश्यन्त्या एवोपचारयोगेन
मतम् । तथा च श्रीकिरणसंहितायां नादबिन्दादिनेवंविधमुपचारवस्तु
कथितम् ॥
तदुपायत्वात्परत्वं चेद्दीपादेरप्युपायता ॥ १६ ॥
किरणादावन्यथा¹ तदुक्तं, तत्र तदुपायमात्ररूपत्वात्परत्वं दीपा-
देरपि ज्ञानोपायत्वात्परताप्रसङ्गादित्येषां शैवदर्शनस्थानां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 98 स्कैन

आ०-३ ] उत्पलदेवदेवकृतवृत्त्योपेता ८१
स्वनिष्ठे शिवता देवे पृथिव्यादावपीदृशम् ॥
यथा स्वनिष्ठे शिवतामात्रस्थितौ परमेश्वरे शिवता सर्वशक्ति-
विलोलता, तथा पृथिवीपर्यन्तायामपि तादृशमेव रूपम् ॥
पिण्डे १ वा कटिकायां वा किं सुवर्णत्वमिष्यते ॥ १८ ॥
न भूषणे कुण्डलादौ यथा तत्र स्वशक्तितः ।
रूपकत्वं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 99 स्कैन

८२ शिवदृष्टिः [ आ०-३
क्षीरवत्परिणामित्वे शुद्धाशुद्धपरापर-
न्यूनत्वादि विनाशित्वं तथोल्लङ्घननिष्कृतिः ॥ २३ ॥
यत्रोपरि न हस्तोऽन्येयमीश्वरसंनिधौ ।
तत्र पादविहारादेः स्फुटमेव निषिद्धता ॥ २४ ॥
एवं सति समग्रस्य व्यवहारस्य भङ्गिता ।
तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥ २५ ॥
एवं शिवात्मकत्वे सर्वस्यैव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 100
स्थायी लिंक
पृष्ठ 100 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८३
ततश्च शिवधर्मादेर्वेदादेरकृतार्थता ।
निमित्तसमवाय्यादिकारणेषु समानता ॥ २९ ॥
सर्वशिवत्ववादे सर्वदर्शनैः स्वसिद्धान्तेन च सह विरोधः । तत्रैवम-
निष्टत्वात् तेषामपि चान्यार्था(भावा)च्छैवत्वम् । स्वसिद्धान्तेऽपि च
मायाप्रधानकर्मादेः पृथग्भूतस्य जगत्कारणत्वेनोक्तेः । सर्वेषां च भावानां
शिवत्वाभ्युपगमे प्राणिनोऽपि सर्वशक्तित्वात् नित्यनिर्मुक्ता इति बन्ध-
मोक्षाभावः । ततश्च हेयोपादेयादिविभागाभावात् देवगुरुशास्त्रलक्षण-
पुरुषार्थप्राप्त्युपायोच्छेदो लोकायताधिक्येन भवेत्, तस्य हि कदाचित्
दृष्टार्थे तदभ्युपगमः स्यात्, सर्वशिवत्वे तु कः कस्योपायः । तथा च
शास्त्रस्य करणे निरूपणे व्याख्याने श्रवणे च निरर्थकत्वम् । सर्वेषामेव
शिवत्वेन मुक्तत्वात् कस्य शास्त्रस्योपदिश्यमानता । धर्मार्थमपि शास्त्रम-
युक्तं शिवस्य कार्ममलाभावान्न धर्माधर्मौ समवेतौ, न तु तयोः शिवे
करणं मिथ्याज्ञानरागादिकारणत्वात् प्रवृत्तीनाम् । एवं च शिवधर्मा-
दीनां वेदस्य च धर्मार्थत्वाभावादकृतप्रयोजनता । तथा समवाय्य-
समवायिनिमित्तकारणेषु शिवत्वेन विशेषः शास्त्रान्तरोक्तः परिदृश्यमानश्च
न स्यात् ॥ २६ ॥
किं च--
पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् ।
शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥ ३० ॥
इच्छावत्कार्यनिष्पत्त्या पुनरिच्छान्तरोद्गमे ।
शिवस्य हेतुर्वक्तव्यो यदर्थं सा नवोद्गता ॥ ३१ ॥
विश्वस्यासत्यरूपत्वं यैर्वाक्यैर्वर्णितं क्वचित् ।
शिवोक्तैस्तैर्विरोधः स्यात्सर्वसत्यत्ववादिनः ॥ ३२ ॥
पृथिव्यादिरूपतयात्मानं परिकल्प्य तथास्ते इति मते कल्पनावान्
शिवभट्टारकः प्राप्नोति । निर्विकल्पश्च स इष्यते, विकल्पानां भिन्नवस्तु-
शून्यत्वेनाविद्यारूपत्वात् । अथ न सविकल्पं शिवतत्त्वम्, अपि तु सानु-
भवम्, अनुभवो हि नाऽयथार्थो भवति । एवंरूपे तस्मिन् किमसावनुभवति,
किमात्मानमुत परात्मानमपि, किमननुभूतमुतानुभूतम् । अनुभाव्यानु-
भावकयोश्च भेद एव, इत्येवमादिपश्यन्तीविषयोक्तदूषणावसरस्

पृष्ठ 101
स्थायी लिंक
पृष्ठ 101 स्कैन

८४ ··शिवदृष्टिः [ आ०-३
विशिष्टेच्छावशाच्चाभीष्टे यज्जगल्लक्षणकार्यसंपत्त्या हेतुभूतया इच्छा-
कारणविरतौ पुनः स्थितिप्रलयादौ पटादिविज्ञाने वा इच्छान्तरोद्गमे को
हेतुः कः प्रयोजको यत्प्रेरितस्य शिवस्य पूर्वस्वभावनिवृत्तावपूर्वस्वभावान्त-
रोदये चेच्छा नवनवा प्रवर्तते। सर्ववस्तूनां च शिवैकरूपत्वे सत्थत्वं
स्यात्, एवं च मायेन्द्रजालोपमत्वं जगतः पारमेश्वरैरेव शास्त्रैैर्यद्वर्ण्यते
तद्विरुद्धं स्यात् ।। ३२ ।।
अत्राह--
इत्याक्षेपर्क्षणार्थमत्र प्रतिविधीयते ।
ईदृशात्परकृतान्महाक्षेपात् स्वदर्शनस्य रक्षणार्थमस्य वाक्षेपस्य
रक्षणार्थं निवारणार्थमत्राक्षेपे सति स्वदर्शनेऽत्र वा समर्थनं
क्रियते ॥
चिदात्मनो१ हि स्थूलस्य सूक्ष्मस्याथ विकारिता ।। ३३ ।।
क्षीरमायाप्रकृतिवत्तस्य चेच्छैव यादृशी ।
परस्य तादृगात्मत्वमुत्पद्येतात्र योगिवत् ।। ३४ ।।
चिदात्मनः स्थूलत्वे२ क्षीरस्येव दधिनिष्पत्तौ जगन्निर्माणे विकारिता
१ इत्याक्षेपर्क्षणार्थमित्युक्तं, तत्र यत्तावदुक्तं आदौ
तावदित्यादिनैष एव प्रथमो महान्दोष इति । तत्रैव जडतासाव-
यवत्वपरधीनत्वादीनामन्तर्भावात्तदेव तावन्निर्दलयितुम् अधिकरण-
सिद्धान्तनयेन तस्मिन् महादोषे विगतशक्तिके सति तदुपपरिवर्तिनोऽन्ये
स्वयमेवोपशाम्यन्तीत्याह--तदात्मनो हीत्यादि । तदिति सर्वनाम्ना
प्रसिद्धताद्योतकेन विश्वात्मतायामप्रच्युतप्राच्यस्वरूपं ध्वनितम् । हिशब्दः
परकृताक्षेपे समर्थनतां द्योतयति । अथ पक्षान्तरे । अयं भावः--यावत
इति स्थूले सूक्ष्मे वा कारणे परिणामादियोगो यत्र संभवति तत्र कार्यतापत्तौ
परिणामादावपि विकारिताऽवश्यं संभवत्येव क्षीरस्य स्थूलत्वाद्दधिरूपेण
परिणामेऽपि विकारिता, मायाप्रकृत्यादेश्च सूक्ष्मस्य जडस्य त्रिगुणात्मकस्य
कार्यतापत्तावपि तादृशमेव रूपं, तदेतत्सिद्धम्, यादृशं कारणं तादृशमेव
कार्यं, कारणरूपतापत्तिरेव कार्ये न तु कार्येण कारणमनुगच्छतीति ।
२ पक्षे सति ।

पृष्ठ 102
स्थायी लिंक
पृष्ठ 102 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८५
स्यात् । सूक्ष्मत्वेऽपि¹ वा मायाप्रकृतितवत् । तत्तयोरिव² यावता न स्थूलो
नापि सूक्ष्मः परमेश्वरश्चिदात्मा, अपि तु ततः परं, सर्वतोऽपि जडस्यैव हि
स्थौल्यादिपरिणामयोगो न चिन्मयस्य, तस्य³ तु परस्य यादृगात्मत्वमभीष्टं
तथावस्थानमेवोत्पत्तिर्योर्गिनामिव⁴ ॥ ३४ ॥
तदेवाह--
इच्छया⁵ सर्वभावत्वमनेकात्मत्वमेव च।
नात्र स्वात्मविकारेण जनयेद्भावमण्डलम् ॥ ३५ ॥
तदिच्छासामनन्तर्ये तथाभूतात्मता यतः।
उभयोरप्यत्र⁶ निर्देशः। यथा योगिनां सर्वभावत्वमिच्छया-
नेकात्मत्वं वा भवतीति इष्टं⁷ तथा परमेश्वरस्यापि मन्तव्यम् । न ह्यसौ
योगी स्वात्मनो मृत्पिण्डस्येव शिबिकस्तूपकादिरूपविकारपरिणाम-
क्रमेण कुम्भकार इव घटमिव भावमण्डलं जनयति, अपि तु तस्य
यादृशीच्छा तत्समनन्तरमेवेष्टकार्यात्माभिलाषात्मतया स्थितिः, तथा
चिदात्मनोऽपि ॥ ३५ ॥
१ यथा सूक्ष्मा कारणभूता माया जडा तत्कार्यमपि तादृशमेव,
यथा सूक्ष्मा त्रिगुणात्मिका प्रकृतिस्तत्कार्यमपि त्रिगुणात्मकमवयव-
विकारापन्नं चेत्यर्थः । २ तयोस्तत्कार्यविकारयोः । ३ ननु यदि तस्य न
परिणामादियोगः तत्किमत्र तदनुगतता नाम येनोक्तं शिवात्मकमिदं
सर्वमिति । तदेतदाशङ्क्याह तस्य त्विति । अयं भावः--न जडतादिकमत्र
शिवत्वं तस्य तस्येच्छामात्ररूपत्वात् । शिवात्मकत्वं च तादृगवस्थानात्म-
कत्वादुत्पत्तेः । ४ न तु तदेव तथेति वक्तुं शक्यमित्यर्थः । ५ इच्छया
च निर्माणं स्वप्नसंकल्पादौ दृष्टमेव, घटादेः प्रसिद्धकारणपरम्परा-
पराकरणेन तदत्रासत्यं घटादीति चेत्, अस्तु तावदेतत्, तथापि योगी
पुरसेनादिनिर्माणमिच्छावशादेव करोतीति सिद्धमेतत् । तत्र हि तदि-
च्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घट-
संपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः
कपालादिकारणकलापोऽभ्युपेयते तत्कुलालविशेष एवायं योगीत्यायातं,
तृणमात्रेणापि तु प्रसिद्धयुल्लङ्घने स्वप्नसंकल्पकामशोकादिविषयपरिदृष्ट-
भावाभासनिर्माणसामर्थ्यं संविद एवेति । ६ उभयोश्चिदात्मयोगिनोः । ७
स्वप्नसंकल्पादाविष्टं माभूत् ।

पृष्ठ 103
स्थायी लिंक
पृष्ठ 103 स्कैन

८६ शिवदृष्टिः [ आ०-३
पुनराह—
यथा$^१$ न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥ ३६ ॥
विभागस्तद्वदीशस्य मध्योत्कृष्टनिकृष्टकैः ।
भावैर्नास्ति विभेदित्वमथवाम्बुधिवीचिवत्$^२$ ॥ ३७ ॥
तत्र वीचित्वमापन्नं न जलं जलमुच्यते ।
न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥ ३८ ॥
निश्चलत्वेऽपि हि जलं वीचित्वे जलमेव तत् ।
वीचिभिस्तद्विशिष्टं चेत्तन्नैश्चल्यविशेषकम् ॥ ३९ ॥
यथा न योगिनो नानासैन्यशरीरकैर्गजरथतुरगपदातिरूपैरवस्थि-
तस्यात्मविभागस्तथा परमेश्वरस्य मध्योत्कृष्टनिकृष्टकैर्देवमनुष्यतिर्य-
गादिरूपैर्विभेदः सर्वशक्तिबोधमात्ररूपस्यैकत्वनियमात् । अथवात्यन्त-
प्रसिद्धोऽयं दृष्टान्तः । यथाम्बुधेस्तरङ्गाणां चैक्येऽपि व्यवहारभेदस्तथा
शिवस्य विश्वस्य च । तत्र हि व्यवहारे वीचितां प्राप्तं जलं न जलमित्युच्यते,
न च तत्र वीचिरूपे जलता विनष्टा । तथाहि निश्चलत्वे चलवीचित्वे च
जलमेव जलविशेषत्वाद्वीचेः, अथ जलं तद्वीचित्वविशिष्टं न जलमात्रम्,
तदेतदस्तु वीचिताविशिष्टत्वेऽपि न क्षतिर्जलस्य तादवस्थ्यात् । वीचि-
विशिष्टत्वे जलत्वाभावो निश्चलत्वविशिष्टेऽपि जलता न स्यात्, एवं
भावरूपत्वेऽपि शिवता स्थितैव ॥ ३६ ॥
अत एव परेच्छातो न जडत्वमवस्थितम् ।
पृथिव्यादितत्त्वगणे जडत्वं चेत्प्रतीयते ॥ ४० ॥
न$^३$ यथा जडता क्वापि तथाग्रे सुविचारितैः ।


१ ननु भवतु चेच्छया सर्वकार्यकारित्वं योगिन इव, तथा पुनः स्थित्य-
वस्थायां स्फुटमेव विलक्षणरूपत्वादेषां कात्र व्यवस्था तदेकरूपत्व इत्यत
आह यथा नेत्यादि । २ ननु मास्तु योगिनः सैन्यशरीरकाणां भेद इत्यत्र
यथा परमेश्वरस्यापि भेदव्यवहारश्च स्फुटमवभासमानस्तस्मात्तेषां
चान्योन्यं कथमपह्नुयत इति कुतर्कमोहान्ध्यविलुप्तविज्ञानदृष्टीन्प्रति
स्फुटताप्रतीतये पुनरन्यदृष्टान्तेन द्रढयति अथवेत्यादि । ३ नशब्दोऽत्र
काकाक्षिगोलकन्यायेन योज्यः ।

पृष्ठ 104
स्थायी लिंक
पृष्ठ 104 स्कैन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८७
वर्णयिष्याम एवात्र न चः सावयवः क्वचित् ॥ ४१ ॥
कश्चिदस्तीह वक्ष्याम एतदप्यग्रतः स्फुटम् ।
अत एव योगिन इव परमेश्वरस्येच्छावशादेव तथावस्थाने पृथि-
व्यादितत्त्वगणे जडता नास्ति इच्छाविशेषरूपत्वात्, न तु प्रधानादिजडो-
पादनतास्य । अथ तत्रेदन्तानिर्देश्यतारूपा जडता प्रतीयते । तन्न, यथा न
क्वचिदिदन्तानिर्देश्यत्वेऽपि तत्त्वतो जडता तथोत्तरत्र सुष्ठु विचारणाभि-
र्वक्ष्यामः । सर्वात्मत्वे शिवतत्त्वस्य सावयवत्वप्रसङ्गदूषणमपि अग्रे निरा-
करिष्यामो यथा न कश्चित् कस्यामप्यवस्थायां सावयवः स्यात् । स्वयं
शिवात्मतावस्थाने स्वयं विश्वात्मतयावस्थाने च किमपेक्षया भोग्यता
यया सावयवत्वं स्यात् ॥
स्वेच्छातो भावरूपत्वे पराधीना कुतः स्थितिः ॥ ४२ ॥
क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् ।
एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥ ४३ ॥
अभग्नेस्वस्य रूपत्वे शुद्धन्यूनादिकं कुतः ।
एतद्ग्रहादिके हेम्नि हेमत्वं मुकुटादिके ॥ ४४ ॥
स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता ।
चण्डालसङ्गो वह्निर्न वह्निर्यदि कथ्यते ॥ ४५ ॥
तदेवं स्यादथोच्येत वह्नेः संस्कारचोदना ।
शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥ ४६ ॥
न स्वरूपविभागोऽत्र स्वरूपे तत्स्वरूपता ।
परापरादिभेदोऽत्र तथा तस्य व्यवस्थितेः ।
संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥ ४७ ॥
स्वेच्छावशाद्विश्वभावरूपस्य पराधीना न स्थितिरपि तु स्वेच्छा-
यत्तैव । विश्वरूपता क्षीरायत्ता दधिरूपतेव कारणपरिणामसापेक्षा यदि
कथ्येत पराधीनो विश्वात्मा तदा जडः स्यात् चिद्रूपस्यापेक्षानुपपत्तेः,
यावता विश्वरूपत्वे चिद्रूपतैव । अनयैव चिद्रूपताहानिदिशा शुद्धाशुद्धत्वो-
पचयापचयवत्त्वादिदोषः परिहार्यः । स्वं रूपं यस्य स स्वरूपस्तस्य भावे