शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 95, कुल 188 में से
संदर्भ में पढ़ें७८ | शिवदृष्टिः | [ आ०-३
“.........................यावन्नोन्मेषभागणुः ।
न तावदर्थे वर्तत स चोन्मेषः क्रिया मता ।
क्रिया च नानारूपैव...................”
इत्युपक्रम्य--
'स्वस्वभावस्थितिं मुक्त्वा तस्मान्नान्यास्ति सा दशा ।
शिवे यस्यां न वाग्रूपं सूक्ष्ममप्राप्तसंनिधिः ॥'
इति तैरशैवत्वमात्मन उक्तम् ॥ ९ ॥
तथाहि--
शैवे वाच इन्द्रियत्वमथ¹ नादादिनोदिता ।
तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥ १० ॥
कथिता कालपादादौ² नादाख्यं यत्परं त्विति ।
परापरादिभेदश्च तत्रैव³ प्रतिपादितः ॥ ११ ॥
इत्यनेन वर्णितात्र वाच एव परात्मता ।
शैवे हि वाचः सांख्य इव कर्मेन्द्रियत्वमेवात्यन्ताधस्तनदशायाम् ।
अथ 'नादे प्रलीनचित' इत्यादिना वाच एव फलावाप्तिः कथिता सूक्ष्म-
मन्त्रात्मकता कालोत्तरादौ--
'नादाख्यं यत्परं बीजं.........।'
इत्यादिना परापरादिभिन्नता चोक्ता इति, तस्मादनेन शैवग्रन्थेन वाच एव
परात्मता कथमयुक्ता । परं त्विति तुशब्दः पादपूरणे ॥
नैतन्न¹ वाचः कथितं पतिशब्दस्य वर्णितम् ॥ १२ ॥
शब्दस्य विषयाख्यस्य न कदाचिदुदाहृतम् ।
१ अथेत्यत्रायं भावः,—वैयाकरणैर्हि करणरूपा बुद्धीन्द्रियादप्यति-
निकृष्टकर्मेन्द्रियरूपा पशुप्रमातृभिस्तिर्यगादिभिः साधारणा ध्वनिजनिका-
हङ्कारवृत्तिरेव काचिद्वाक् पाण्यादिवदभ्युपगता कथं तत्र परत्वमिति ।
अथ सामान्यं स्थूलसूक्ष्मरूपमाश्रित्य पृच्छत्यथेत्यादि । २ शैवतन्त्रे
एव । ३ कालपाद एव । १ अत्र हि अहमिति वाक् शुद्धकर्तृत्वप्राणा
असंकुचितमहामन्त्रमयी शब्दनरूपा या तस्या एवैतदुक्तमित्यर्थः । ये पुनरमी
मायीया वर्णाः शब्दात्मानस्ते घटादिस्थानीयास्तदुत्थापकं चाविकल्प-
सविकल्परूपं पश्यन्तीमध्यमात्मकं ज्ञानं ज्ञानान्तरस्थानीयं च तन्निवर्तकं