सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 102, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 102

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८५
स्यात् । सूक्ष्मत्वेऽपि¹ वा मायाप्रकृतितवत् । तत्तयोरिव² यावता न स्थूलो
नापि सूक्ष्मः परमेश्वरश्चिदात्मा, अपि तु ततः परं, सर्वतोऽपि जडस्यैव हि
स्थौल्यादिपरिणामयोगो न चिन्मयस्य, तस्य³ तु परस्य यादृगात्मत्वमभीष्टं
तथावस्थानमेवोत्पत्तिर्योर्गिनामिव⁴ ॥ ३४ ॥
तदेवाह--
इच्छया⁵ सर्वभावत्वमनेकात्मत्वमेव च।
नात्र स्वात्मविकारेण जनयेद्भावमण्डलम् ॥ ३५ ॥
तदिच्छासामनन्तर्ये तथाभूतात्मता यतः।
उभयोरप्यत्र⁶ निर्देशः। यथा योगिनां सर्वभावत्वमिच्छया-
नेकात्मत्वं वा भवतीति इष्टं⁷ तथा परमेश्वरस्यापि मन्तव्यम् । न ह्यसौ
योगी स्वात्मनो मृत्पिण्डस्येव शिबिकस्तूपकादिरूपविकारपरिणाम-
क्रमेण कुम्भकार इव घटमिव भावमण्डलं जनयति, अपि तु तस्य
यादृशीच्छा तत्समनन्तरमेवेष्टकार्यात्माभिलाषात्मतया स्थितिः, तथा
चिदात्मनोऽपि ॥ ३५ ॥
१ यथा सूक्ष्मा कारणभूता माया जडा तत्कार्यमपि तादृशमेव,
यथा सूक्ष्मा त्रिगुणात्मिका प्रकृतिस्तत्कार्यमपि त्रिगुणात्मकमवयव-
विकारापन्नं चेत्यर्थः । २ तयोस्तत्कार्यविकारयोः । ३ ननु यदि तस्य न
परिणामादियोगः तत्किमत्र तदनुगतता नाम येनोक्तं शिवात्मकमिदं
सर्वमिति । तदेतदाशङ्क्याह तस्य त्विति । अयं भावः--न जडतादिकमत्र
शिवत्वं तस्य तस्येच्छामात्ररूपत्वात् । शिवात्मकत्वं च तादृगवस्थानात्म-
कत्वादुत्पत्तेः । ४ न तु तदेव तथेति वक्तुं शक्यमित्यर्थः । ५ इच्छया
च निर्माणं स्वप्नसंकल्पादौ दृष्टमेव, घटादेः प्रसिद्धकारणपरम्परा-
पराकरणेन तदत्रासत्यं घटादीति चेत्, अस्तु तावदेतत्, तथापि योगी
पुरसेनादिनिर्माणमिच्छावशादेव करोतीति सिद्धमेतत् । तत्र हि तदि-
च्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घट-
संपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः
कपालादिकारणकलापोऽभ्युपेयते तत्कुलालविशेष एवायं योगीत्यायातं,
तृणमात्रेणापि तु प्रसिद्धयुल्लङ्घने स्वप्नसंकल्पकामशोकादिविषयपरिदृष्ट-
भावाभासनिर्माणसामर्थ्यं संविद एवेति । ६ उभयोश्चिदात्मयोगिनोः । ७
स्वप्नसंकल्पादाविष्टं माभूत् ।