शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 85, कुल 188 में से
संदर्भ में पढ़ें६८ शिवदृष्टिः [ आ०-२
शिवाद्वैतपक्षेऽपि भवतः शब्द इव शिवेऽपि सत्यत्वादिदूषणन्यायः
किं नापततीति चेत् । तन्न, जगदपि ततः शिवरूपात् शिवरूपानुरूप्येण
तथा सर्वशक्तियोगात् यदा प्रसूतं तदा शिवरूपमेव, अत एव च सत्यरूपम्,
तथा च वक्ष्यते विस्तरतः । तन्न तुल्यत्वं शब्दाद्वैतपक्षेण शिवाद्वयस्येत्ये-
तद्दूषणापादनात् विरम्यताम् ॥ ७६ ॥
तदेतत्प्रासङ्गिकमुक्त्वा पश्यन्तीमेव पर्यालोचयन्नाह—
अथ १ नाम्नैव पश्यन्ती स्फुटमेव जडा ततः ।
ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥ ८० ॥
अथ दर्शनार्थान्वये२ दोषात्नाममात्रेण यादृच्छिकेन३ पश्यन्ती
इष्यते, स्त्रीलिङ्गभङ्ग्या४ च ब्रह्मसम्बन्धिज्ञानशक्तिरूपा सा मता, ततो
विरुद्धमेतत्५ दर्शनासमन्वयात् जडतापत्तेः, जडात्मनि च ज्ञानशक्तित्त्वानु-
पपत्तिरिति ॥ ८० ॥
शब्दस्य विषयाख्यस्य मिश्रत्वेनेन्द्रियस्य तु ।
सर्वदर्शनविज्ञानशून्यता६ पदवेदिनाम् ॥ ८१ ॥
यस्मादनादिनिधनं शब्दतत्त्वं परा हि वाक् ।
पश्यन्त्या वर्ण्यमानत्वे हस्ते ग्राह्यैकता पतेत् ॥ ८२ ॥
ल्यब्लोपपञ्चम्या व्याख्येयम् । अस्मादेनमाविश्य स्वयमेव भवद्भिः प्रकर्षेण
सुखेन स्थीयतां, स्वमतं त्यक्तवैतमेव मतमाश्रयध्वमित्यर्थः । १ ननु कृतं
भवद्दोषारोपणेन किं पश्यन्तीति कथ्यतामिति । नहि सर्वत्र यौगिकोऽर्थः
संभवति । सन्ति हि डित्थादयोऽपि शब्दाः । ततश्च रूढिमहिम्नैव कुशला-
दिवदत्रापि पश्यन्तीनिर्देशः । न च वक्तव्यं किमनेन तथापि पश्यन्तीशब्देन
व्यपदेश्यं, स्त्रीलिङ्गनिर्देशादेव ज्ञानशक्तिरूपत्वादस्या इत्यपि निरसयन्ना-
हाथेत्यादि । २ दृशिधातोः कर्मरूपस्यार्थस्यानन्वये । ३ सांकेतिकेन ।
४ तथापि किं वस्तु पश्यन्त्या स्वीकृतमित्यत आह स्त्रीलिङ्गेति । ५ पश्य-
न्तीति दर्शनार्थासंभवेनायौगिकत्वे स्थिते सतीत्यर्थः । अहो महदाश्चर्यं
पश्यन्तीति दर्शनासम्भवाद्रूढित्वमाश्रितं तत्रैव च ज्ञानशक्तिरिति । ६ इदानीं
केचिदनादिनिधनमित्यत्र शब्दतत्त्वमित्यनेन तथा वाग्रूपतामित्यत्र च
परावागित्यनेन अनयोर्वाक्शब्दतत्त्वयोः परस्परसंश्लेष एव यः स एव