सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 103, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 103

८६ शिवदृष्टिः [ आ०-३
पुनराह—
यथा$^१$ न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥ ३६ ॥
विभागस्तद्वदीशस्य मध्योत्कृष्टनिकृष्टकैः ।
भावैर्नास्ति विभेदित्वमथवाम्बुधिवीचिवत्$^२$ ॥ ३७ ॥
तत्र वीचित्वमापन्नं न जलं जलमुच्यते ।
न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥ ३८ ॥
निश्चलत्वेऽपि हि जलं वीचित्वे जलमेव तत् ।
वीचिभिस्तद्विशिष्टं चेत्तन्नैश्चल्यविशेषकम् ॥ ३९ ॥
यथा न योगिनो नानासैन्यशरीरकैर्गजरथतुरगपदातिरूपैरवस्थि-
तस्यात्मविभागस्तथा परमेश्वरस्य मध्योत्कृष्टनिकृष्टकैर्देवमनुष्यतिर्य-
गादिरूपैर्विभेदः सर्वशक्तिबोधमात्ररूपस्यैकत्वनियमात् । अथवात्यन्त-
प्रसिद्धोऽयं दृष्टान्तः । यथाम्बुधेस्तरङ्गाणां चैक्येऽपि व्यवहारभेदस्तथा
शिवस्य विश्वस्य च । तत्र हि व्यवहारे वीचितां प्राप्तं जलं न जलमित्युच्यते,
न च तत्र वीचिरूपे जलता विनष्टा । तथाहि निश्चलत्वे चलवीचित्वे च
जलमेव जलविशेषत्वाद्वीचेः, अथ जलं तद्वीचित्वविशिष्टं न जलमात्रम्,
तदेतदस्तु वीचिताविशिष्टत्वेऽपि न क्षतिर्जलस्य तादवस्थ्यात् । वीचि-
विशिष्टत्वे जलत्वाभावो निश्चलत्वविशिष्टेऽपि जलता न स्यात्, एवं
भावरूपत्वेऽपि शिवता स्थितैव ॥ ३६ ॥
अत एव परेच्छातो न जडत्वमवस्थितम् ।
पृथिव्यादितत्त्वगणे जडत्वं चेत्प्रतीयते ॥ ४० ॥
न$^३$ यथा जडता क्वापि तथाग्रे सुविचारितैः ।


१ ननु भवतु चेच्छया सर्वकार्यकारित्वं योगिन इव, तथा पुनः स्थित्य-
वस्थायां स्फुटमेव विलक्षणरूपत्वादेषां कात्र व्यवस्था तदेकरूपत्व इत्यत
आह यथा नेत्यादि । २ ननु मास्तु योगिनः सैन्यशरीरकाणां भेद इत्यत्र
यथा परमेश्वरस्यापि भेदव्यवहारश्च स्फुटमवभासमानस्तस्मात्तेषां
चान्योन्यं कथमपह्नुयत इति कुतर्कमोहान्ध्यविलुप्तविज्ञानदृष्टीन्प्रति
स्फुटताप्रतीतये पुनरन्यदृष्टान्तेन द्रढयति अथवेत्यादि । ३ नशब्दोऽत्र
काकाक्षिगोलकन्यायेन योज्यः ।