शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 98, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवदेवकृतवृत्त्योपेता ८१
स्वनिष्ठे शिवता देवे पृथिव्यादावपीदृशम् ॥
यथा स्वनिष्ठे शिवतामात्रस्थितौ परमेश्वरे शिवता सर्वशक्ति-
विलोलता, तथा पृथिवीपर्यन्तायामपि तादृशमेव रूपम् ॥
पिण्डे १ वा कटिकायां वा किं सुवर्णत्वमिष्यते ॥ १८ ॥
न भूषणे कुण्डलादौ यथा तत्र स्वशक्तितः ।
रूपकत्वं गतं हेम न शक्तयैव स्वतन्त्रया ॥ १९ ॥
तथेच्छया समाविष्टस्तथा शक्तित्रयेण च ।
तथा तथा स्थितो भावैस्तः सर्वं शिवात्मकम् ॥ २० ॥
नहि, तत्तद्भूषणादिव्यक्तावयवविकारमप्राप्त एव पिण्डे कटकादि-
रूपस्थित एव सुवर्णता न तु कुण्डलादाविति २ वक्तुं शक्यम्, अपि तु
सर्वत्रैव साम्येन स्वयं विकारापत्तिशक्तियुतं हेमैव स्थितं, पिण्डाख्यं
सुवर्णमेव तथा शक्तिमत्प्रसरति । कुण्डलमपि पुनरन्यथा प्रसरति शक्ति-
मदेव, न तु शक्तिरेव स्वतन्त्रा हेम्नः तथात्वकारणम् । तस्यास्तद्व्य-
तिरिक्ताया अनुपलक्षणात् । दृश्यमानहेमरूपत्वे च शक्तेर्नाम्नि विवादः,
तस्या अपि च पुनः कुण्डलादिगमने शक्तिरेष्टव्येत्यादि ३ प्रागुक्तम् ।
एवं सुवर्णवत् परमेश्वर एव पूर्वोक्तेच्छादिशक्तिमान् तथा तत्त्वभुवन-
कार्यकरणाविप्रकारवैचित्र्येण सर्वैः पदार्थैरित्थंभूतलक्षणैः स्थितोऽतः
शिवात्मकमेव सर्वं न तु शक्त्यात्मकम् । व्यावहारिकशक्तिभेदाश्रयणे तु
शक्त्यात्मकमुक्तं—
‘शक्तयस्तु जगत्कृत्स्नं……………’,
इति, वस्तुतस्तु शिवात्मकमेव ॥ २० ॥
इत्युक्तेऽत्र समाक्षेपः पक्षस्यास्य विधीयते ।
आदौ तावद्विकारित्वं शिवतत्त्वस्य जायते ॥ २१ ॥
नानाविकाररूपेण जडतैवमवस्थिता ।
तथा सावयवत्वं च पराधीनत्वमेव च ॥ २२ ॥
१ एतदेव दृष्टान्तप्रदर्शनद्वारेण समर्थयति पिण्डे वेत्यादि ॥ २ व्यक्ता-
वयवविकारं प्राप्ते । ३ अनवस्थादि ।
६