सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 99, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 99

८२ शिवदृष्टिः [ आ०-३
क्षीरवत्परिणामित्वे शुद्धाशुद्धपरापर-
न्यूनत्वादि विनाशित्वं तथोल्लङ्घननिष्कृतिः ॥ २३ ॥
यत्रोपरि न हस्तोऽन्येयमीश्वरसंनिधौ ।
तत्र पादविहारादेः स्फुटमेव निषिद्धता ॥ २४ ॥
एवं सति समग्रस्य व्यवहारस्य भङ्गिता ।
तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥ २५ ॥
एवं शिवात्मकत्वे सर्वस्यैव उक्तेऽस्मिन् सति परैरस्य पक्षस्य
बहुमुखमाक्षेपः क्रियते । विश्वात्मकत्वे चिन्मयस्य शिवतत्त्वस्य शश्वदेवो-
पचयापचयरहितस्याभिमतस्य विकारिता मृदानिसाम्येन प्राप्ता, इत्यय-
मेव प्रथमतॊ महान् दोषः । पृथिव्यादिवेद्यवस्तुनानारूपेण चावस्थाने
जडताऽस्य । तथा तद्वत् सावयवत्वम् । चिदेकरूपस्यापि ईश्वरस्यापि
चोत्पत्तिविनाशेषु अन्यापेक्षतया भोग्यभावेन च परायतत्वम् । क्षीरदधि-
वत्परिणामवादाभ्युपगमे शुद्धाशुद्धादिविरोधिरूपापत्तिः । यथा क्षीरं
शुद्धं मूत्रत्वेन परिणतमशुद्धं, यथा प्राकृतदशायां परता महत्त्वं च ।
कार्यकलापावस्थाने तु अपरता न्यूनत्वं च । तथा पूर्वावस्थाननाशे तद-
भेदात् तस्यैव नाशोऽसत्कार्यवादमाश्रयणे वा । तथा पृथिव्याः शिवरूपायाः
पादलङ्घनाष्ठीवनादिविषयत्वे प्रायश्चित्तापत्तिः । यस्मिन् व्यवहारे
संनिहिते ईश्वरेऽन्यस्य तथैव चोपरि हस्तोऽन्यत् काष्ठादि च न नेतव्यं तत्र
पादन्यासादिक्रिया निकृष्टत्वात् दूरोत्सारितैव । एवं च पादविहारादेर्विरोधे
सर्वव्यवहारोत्सादः । शिवभट्टारकस्यैव च विश्वात्मनावस्थानप्रवृत्तौ निमित्तं
विचार्यं तस्य कर्माद्यविषयत्वात् ॥ २५ ॥
अन्यच्च—
नानावादैः स्वसिद्धान्तैः साकमत्र विरोधिता ।
सर्वभावशिवत्वेन नास्तिता बन्धमोक्षयोः ॥ २६ ॥
तदभावाद्देवगुरुशास्त्रोच्छेदो भवेत्तराम् ।
निरर्थकत्वं शास्त्रस्य करणे तन्निरूपणे ॥ २७ ॥
सर्वेषामेव मुक्तत्वे स्थिते कस्योपदेश्यता ।
धर्माधर्मौ न संबद्धौ शिवस्य न तयोः कृतिः ॥ २८ ॥